पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Kaamanaa - Kumaari) RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR
|
|
कुत्स टिप्पणी पुराणेषु कुत्सः चाक्षुषमनोः एवं नड्वलायाः द्वादशसु पुत्रेषु ज्येष्ठः अथवा ज्येष्ठेतरः अस्ति। अत्र पुराणे – पुराणे नड्वलायाः पुत्राणां संज्ञायां भेदः अस्ति। सामान्यक्रमः अयं अस्ति – ऊरुः, पूरुः, शतद्युम्नादि। अन्यस्थले क्रमः कुत्सः, पूरुः आदि अस्ति। अतएव, कुत्सस्य तादात्म्यं उरु, ऊरु इत्यादिना सह कर्तुं शक्यन्ते। अयं संकेतमस्ति यत् तन्त्रद्वयोः मध्ये अनिश्चिततायाः या स्थितिः उर्वशी – पुरुरूरवा संदर्भे अस्ति(द्र. उर्वशी उपरि टिप्पणी), सैव कुत्सस्य विषये अपि अस्ति। आधुनिकविज्ञाने अनिश्चितता सिद्धान्तः अस्ति यस्यानुसारेण सूक्ष्म कणस्य स्थिति एवं संवेगयोः प्रतथ निर्धारणस्य सीमा अस्ति। यदि स्थितेः निर्धारणं प्रतथं भवति, तदा संवेगस्य निर्धारणे अनिश्चितता भविष्यति। अथवा अस्य प्रतीपम्। स्थिति एवं संवेगस्य प्रस्थापनं काल एवं ऊर्जायाः प्रतथनिर्धारणरूपे अपि कर्तुं शक्यन्ते। किन्तु वैदिकसाहित्ये अनिश्चितता सिद्धान्तः कणोपरि आधारितः नास्ति। अयं तन्त्रोपरि आधारितः अस्ति। एकः तन्त्र उर्वशी अस्ति यस्मिन् उरुभवनस्य संभावना अस्ति। द्वितीयः तन्त्रः पुरूरवा अस्ति यस्मिन् सूक्ष्मभवनस्य, अणिमानस्य संभावना अस्ति। जैमिनीयब्राह्मणस्य १.२२८ कथनमस्ति यत् कुत्सः आत्मानं अस्ति, लुशः महिमानम्। .....आत्मना कुत्सस्यापिबन् महिम्ना लुशस्य। अयं स्पष्टं नास्ति यत् कुत्सः उरुतः पूरुतायाः प्राप्तिं इच्छति अथवा अस्य प्रतीपं अस्ति। ऋग्वेदे कुत्सर्षेः त्रयः गुच्छाः सन्ति – १.९४-९८, १.१०१-१.११५ एवं ९.९७.४५-५८ । प्रथमगुच्छस्य प्रथमा ऋचा अस्ति –
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । अयं ऋचा यज्ञसारथिसंज्ञकसामस्य योनिः अस्ति। पुराणेषु प्रमति शब्दः पापेभ्यः मुक्त्यर्थे भवति। प्रमतेः उरुरूपं सुमतिः अस्ति। अतएव, अयं ऋचा कुत्सस्य पुरुस्थितितः सम्बद्धा अस्ति, अयं प्रतीयते। पुराणेषु ककुत्स्थ शब्दः प्रकटयति यः वृषभरूपइन्द्रोपरि आरूढो भूत्वा असुरेभ्यः युद्धं करोति। कुत्स एवं ककुत्स्थ शब्दयोः तादात्म्यं अस्ति नास्ति वा, अयं अन्वेषणीयः। |