पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Kaamanaa - Kumaari)

RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR

Index

Kaamanaa - Kaampilya  (Kaamanaa/desire,  Kaamaruupa, Kaamaakshi, Kaamaakhyaa, Kaameshwari, Kaamodaa, Kaampilya etc.)   

Kaampilya - Kaartaveerya (Kaampilya, Kaamboja, Kaayastha, Kaayaavarohana, Kaarana/cause, Kaaru, Kaaruusha, Kaartaveerya etc.)

Kaartaveerya - Kaartikeya  (Kaartaveerya, Kaartika, Kaartikeya etc.)  

Kaartikeya - Kaarshni  ( Kaartikeya, Kaarpaasa/cotton, Kaarya/action etc.)  

Kaala - Kaalaa  (Kaala/time )  

Kaalaa - Kaalanaabha ( Kaalakaa, Kaalakuuta, Kaalakeya, Kaalachakra, Kaalanjara, Kaalanaabha etc.)

Kaalanaabha - Kaalaraatri  (Kaalanemi, Kaalabhairava, Kaalayavana, Kaalaraatri etc. )    

Kaalaraatri - Kaalindi ( Kaalasuutra, Kaalaagni, Kaalikaa, Kaalindi etc.)     

Kaalindi - Kaavya  (kaaliya, Kaali, Kaaleya, Kaaveri, Kaavya etc. )

Kaavya - Kaashmeera  ( Kaavya, Kaasha, Kashiraaja, Kaashi etc. )  

Kaashmeera - Kaasaara  ( Kaashmeera, Kaashya, Kaashyapa, Kaashthaa, Kaashtheelaa etc.)  

Kimdama - Kiraata (Kitava/gamble, Kinnara, Kimpurusa, Kiraata etc.)   

Kirichakra - Keertimati (Kireeta, Kishkindhaa, Keekata, Keeta, Keerti etc.)

Keertimati - Kuksheyu (Keertimaan, Keertimukha, Kukkuta/hen, Kukshi/belly etc.)    

Kukhandikaa - Kutilaaksha   (Kumkuma, Kuja/mars, Kujambha, Kunjara/elephant, Kutilaa etc.)   

Kutilaaksha - Kundala  (Kutumba, Kuthaara, Kunda, Kundala/earring etc.)  

Kundalaa - Kunda  ( Kundalini, Kundina, Kutupa, Kutsa, Kunti, Kuntee etc. )    

Kunda - Kubera  ( Kunda, Kundana/gold, Kubera etc.)   

Kubera - Kumaari (Kubjaa, Kubjaamraka, Kumaara, Kumaari etc. )

 

 

कुञ्जल

टिप्पणी – सामरहस्योपनिषदि २४७ कुञ्जस्य संदर्भे कामस्य संज्ञा कुंजरमस्ति। राधा-कृष्णस्य रासस्य संदर्भे कामस्य उल्लेखं अनर्गलं प्रतीयते, किन्तु एवं नास्ति। लौकिक कामः कुं-ज्वलम् अथवा कुं-ज्वरमस्ति। कु अर्थात् पृथ्वी। यः सर्वं शरीरं ज्वालयति, ज्वरयति, तत् काममस्ति। यदा कामः धर्माविरुद्धो भवति(भगवद्गीता ७.११), तदा अयं कुं-जरं भवति। धर्माविरुद्ध कामस्य के के लक्षणाः भवन्ति, अयं पृथक् विषयमस्ति।

     पद्मपुराणे २.८५ कुंजल शुकस्य प्रथम पुत्रः उज्ज्वलमस्ति। उज्ज्वलेन दृष्टम् आश्चर्यमयमस्ति यत् राजकन्या दिव्या देवी यं यं पतिं धारयितुं इच्छति, स स एव मरति। पिता कुंजलः शुकः पुत्रं उज्ज्वलं उपदिशति येन उपायेन दिव्याः देव्याः पतिः न मरेत्। उपायेषु एकमुपायं उज्ज्वलनमस्ति(पद्म पुराणम् २.८६.७१)। ज्वलने दीपवत् विषयाः कज्जलीकृताः भवन्तु एवं तेजसा उज्ज्वलम् भवतु, अयं अपेक्षितमस्ति –

क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत्  पद्मपुराणम् २.८६.७१

शतपथ ब्राह्मणे  २.२.१.[८] उज्ज्वलनस्य स्वरूपं एवं प्रकारेण अस्ति यत् वीर्यस्य उज्ज्वलनं एवंप्रकारेण करणीयं येन पवमान, पावक, शुचि त्रयाणां अग्नीनां मध्ये शुचिसंज्ञकायाः अग्न्याः उज्ज्वलनं भवेत्। शतपथ ब्राह्मण १४.६.१.[१०] अनुसारेण आहुतीनां त्रीणि प्रकाराणि भवन्ति। उज्ज्वलन्तीनां प्रकाराणां आहुतिभिः देवलोकं दीप्यते।  अन्येभ्यः आहुतिभ्यः मनुष्यलोकस्य एवं पितृलोकस्य जयं भवति। कौशीतकिब्राह्मण १६.८  अनुसारेण यागेषु अहिर्बुध्न्य संज्ञकस्य अग्नेः उज्ज्वलनं भवति। अहिर्बुध्न्य संज्ञकस्य अग्नेः अधिपतिः गृहपतिः अथवा यजमानः भवति। पद्मपुराणानुसारेण उज्ज्वालनस्य उद्देश्यं दिव्याः प्रकृत्याः रक्षणं, तस्याः पतित्वं अस्ति। यदि दिव्याः प्रकृत्याः रक्षणं न भवेत्, तर्हि तस्याः प्रकृत्याः संज्ञा चित्रा भवति।

 

पद्मपुराणे  कुञ्जल शुकस्य चत्वार्यः पुत्राः सन्ति( पद्मपुराणम् २.८५.३२) । तेषां नामधेयानि उज्ज्वलः, समुज्ज्वलः, विज्वलः एवं कपिञ्जलः एवं सन्ति। ते दिवसस्य अवसाने स्वपितरं आगत्य दिवसे दृष्टानि अपूर्वाणि वृत्तान्तानि कथयन्ति एवं  निहितार्थानि ज्ञातुं इच्छन्ति। पद्मपुराणे ( २.१०१)  चतुर्थः पुत्रः कपिञ्जलः स्वदृष्टं अपूर्वं एवं कथयति यत् एका स्त्री नद्या तटे यदा शोकतः अश्रूणि विमुञ्चति, ते यदा नद्यां पतन्ति, तेभ्यः रक्तवर्णानि पद्मानि जायन्ते। यदा सा हर्षेण अश्रूणि विमुञ्चति, तदा तेभ्यः श्वेतवर्णानि पद्मानि जायन्ते। तस्या स्त्र्याः नामधेयं कामोदा अस्ति। तस्याः उत्पत्तिः पार्वत्याः कल्पवृक्षस्य परीक्षाकाले अभवत्। कालान्तरे तस्याः नामधेयं अशोकसुन्दरी अभवत् एवं सा नहुषस्य भार्या अभवत्।  कुञ्जल, उज्ज्वल, विज्वल, कपिञ्जल एषु चत्वार्येषु अपि ज्वलनम् महत्त्वपूर्णमस्ति। कपिञ्जल शब्दस्य परोक्षरूपं कपिञ्ज्वलनम् भवितुमर्हति। यः कपिं ज्वालयति, सः कपिञ्जलः अस्ति। पुराणेषु कपि शब्दस्य तात्पर्यं जडे पदार्थे कंपनोत्पन्नम् अस्ति। जडे पदार्थे जीवनस्य संचारम्। अतः यः जड पदार्थे जीवनस्य संचरणस्य प्रक्रियां उज्वालयति, सः कपिञ्जलः अस्ति। सूक्ष्म दृष्ट्या जडे द्रव्ये जीवनस्य संचारं केन - केन प्रकारेण भवितुं शक्यते। यदा वयं  अन्येषां जीवानां दुःखेभ्यः द्रवीभूता भवन्ति, अयं स्थिति अपि कपि शब्दान्तर्गतं भवति। अतः अन्येषां जीवानां दुःखानां अनुभवं वयं कति सीमातः कर्तुं शक्नुमः, अयं कपिञ्जल शब्दस्य भावं भविष्यति। कपिञ्जलरूपी इन्द्रस्य सूक्तं गृत्समदस्य सूक्तेषु अन्तिमं - अनन्तिमं अस्ति(ऋग्वेदः २.४२ )। अयं संकेतमस्ति यत् पद्मपुराणे कुञ्जल शुकस्य उज्ज्वल, समुज्ज्वल एवं विज्वल पुत्रत्रयेभ्यः द्रष्टानि अपूर्वाणि गृत्समदस्य दृष्टेषु अन्येषु सूक्तेषु कथितानि भवन्ति।

पद्मपुराणे कपिञ्जलेन दृष्टे अपूर्वाख्याने यः कामोदा स्त्री अस्ति, सा सात्त्विकगुणयुक्ता प्रकृतिः भवितुं शक्यते। तस्याः यानि अश्रूणि नद्याः जले पतित्वा रक्त एवं श्वेत पुष्कराणि भवन्ति, अयं संकेतमस्ति यत् यदा वयं शोकस्य अथवा हर्षस्य अनुभवं कुर्वामः, तत् शोकं अथवा हर्षं व्यर्थं न भवेत्। तत् चेतनाप्रवाहस्य जले पतित्वा पुष्कररूपं धारयेत् एवं अन्ततोगत्वा तत् ईश्वरारर्पणं कर्तुं योग्यं भवेत्।

व्यवहारे परेषां दुःखानां ज्ञाने कः प्रक्रिया भवितुं शक्यते, अस्मिन् संदर्भे कपिवरस्य हनुमानस्य कथा पर्याप्तं भविष्यति। हनुमानः सूक्ष्मशरीरं धारयित्वा सुरसायाः मुखं प्रविशति, तदनन्तरं बहिरागच्छति(वा.रामायणम् ५.१.१४५)। सूक्ष्मशरीरस्य धारणप्रक्रिया शुनक, शौनक शब्दान्तर्गतं भवति, अयं प्रतीयते। यथा शौनकोपरि टिप्पण्यां उल्लिखितमस्ति -

अथ यस्माच्छुनासीर्येण यजेत । या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माच्छुनासीर्येण यजते – शतपथ २.६.३.[२]

चातुर्मास्य कर्मकाण्डानुसारेण शुनम्, शून्या अवस्थात् अग्रिमं स्थितिः सीरं अस्ति। संवत्सरस्य स्थितिः चेतनायाः व्यापनस्य स्थितिः प्रतीयते। योगादृष्ट्या अस्मिन् संदर्भे श्रीरजनीश महोदयस्य कुण्डलिनी और सात शरीर व्याख्यानमाला पठनीयमस्ति।

पद्मपुराणे २.८५ उल्लेखमस्ति यत् कुञ्जलशुकस्य चत्वार्येभ्यः स्वपुत्रेभ्यः साकं संवादं ओंकारक्षेत्रे अभवत्। अयं संकेतमस्ति यत् कपिञ्जलस्य सम्बन्धं ओंकारस्य चतुर्थ मात्रा, यस्य नामोल्लेखं ग्रन्थेषु अर्धमात्रा भवति, सह भवितुं शक्यते। चतुर्थमात्रायाः गुणं अस्ति यत् अस्मिन् काले प्रकृत्याः विकासं तां स्थितिं प्रापयति यत्र प्रकृतिः पुरुषस्य नियन्त्रणे समर्थं भवति। अन्यथा, सार्वत्रिक रूपेण पुरुषः एव प्रकृत्याः नियन्त्रणं करोति।

 

 

संदर्भाः 

अथ होवाच । गोतमो राहूगणः कथं नु न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति स होवाचाग्निर्मे वैश्वानरो मुखेऽभूत्स नेन्मे मुखान्निष्पद्यातै तस्मात्ते न प्रतिश्रौषमिति श. १.४.१.[१८]

तदु कथमभूदिति । यत्रैव त्वं घृतस्नवीमह इत्यभिव्याहार्षीस्तदेव मे घृतकीर्तावग्निर्वैश्वानरो मुखादुदज्वालीत्तं नाशकं धारयितुं स मे मुखान्निरपादीति – श. १.४.१.[१९]

अथाग्नये शुचये निर्वपति । वीर्यं वै शुचि यद्वा अस्यैतदुज्ज्वलत्येतदस्य वीर्यं शुचि वीर्यमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधाति यदा ह्येवास्मिन्नेतामाहुतिं जुहोत्यथास्यैतद्वीर्यं शुच्युज्ज्वलति – श. २.२.१.[८]

स वै शमीमयीं प्रथमामादधाति । एतद्वा एष एतस्यामाहुत्यां हुतायाम्प्रादीप्यतोदज्वलत्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति त एतां शमीमपश्यंस्तयैनमशमयंस्तद्यदेतं शम्याऽशमयंस्तस्माच्छमी तथैवैनमयमेतच्छम्या शमयति शान्त्या एव न जग्ध्यै – श. ९.२.३.[३७]

याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ति मनुष्यलोकमेव ताभिर्जयत्यतीव हि मनुष्यलोको या हुता अधिशेरते पितृलोकमेव ताभिर्जयत्यध इव हि पितृलोकः – श. १४.६.१.[१०]

अहिम् बुध्न्यम् शंसति । अग्निर् वा अहिर् बुध्न्यः । तम् एतया उज्ज्वलयति । अथो धिष्ण्यान् एव एतया अनुशंसति । - कौशीतकि ब्राह्मणम् १६.८

==

तस्माद् आहवनीयम् समीद्ध्वम् आग्नीध्रियम् गार्हपत्यम् धिष्ण्यान्त् समुज्ज्वलयत इति भाषेरन् । (सोम षोडशिन् । अतिरात्र)- कौशीतकि ब्राह्मणम् १७.९

तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन् – गोपथ ब्रा. २.५.५