पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Kaamanaa - Kumaari)

RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR

Index

Kaamanaa - Kaampilya  (Kaamanaa/desire,  Kaamaruupa, Kaamaakshi, Kaamaakhyaa, Kaameshwari, Kaamodaa, Kaampilya etc.)   

Kaampilya - Kaartaveerya (Kaampilya, Kaamboja, Kaayastha, Kaayaavarohana, Kaarana/cause, Kaaru, Kaaruusha, Kaartaveerya etc.)

Kaartaveerya - Kaartikeya  (Kaartaveerya, Kaartika, Kaartikeya etc.)  

Kaartikeya - Kaarshni  ( Kaartikeya, Kaarpaasa/cotton, Kaarya/action etc.)  

Kaala - Kaalaa  (Kaala/time )  

Kaalaa - Kaalanaabha ( Kaalakaa, Kaalakuuta, Kaalakeya, Kaalachakra, Kaalanjara, Kaalanaabha etc.)

Kaalanaabha - Kaalaraatri  (Kaalanemi, Kaalabhairava, Kaalayavana, Kaalaraatri etc. )    

Kaalaraatri - Kaalindi ( Kaalasuutra, Kaalaagni, Kaalikaa, Kaalindi etc.)     

Kaalindi - Kaavya  (kaaliya, Kaali, Kaaleya, Kaaveri, Kaavya etc. )

Kaavya - Kaashmeera  ( Kaavya, Kaasha, Kashiraaja, Kaashi etc. )  

Kaashmeera - Kaasaara  ( Kaashmeera, Kaashya, Kaashyapa, Kaashthaa, Kaashtheelaa etc.)  

Kimdama - Kiraata (Kitava/gamble, Kinnara, Kimpurusa, Kiraata etc.)   

Kirichakra - Keertimati (Kireeta, Kishkindhaa, Keekata, Keeta, Keerti etc.)

Keertimati - Kuksheyu (Keertimaan, Keertimukha, Kukkuta/hen, Kukshi/belly etc.)    

Kukhandikaa - Kutilaaksha   (Kumkuma, Kuja/mars, Kujambha, Kunjara/elephant, Kutilaa etc.)   

Kutilaaksha - Kundala  (Kutumba, Kuthaara, Kunda, Kundala/earring etc.)  

Kundalaa - Kunda  ( Kundalini, Kundina, Kutupa, Kutsa, Kunti, Kuntee etc. )    

Kunda - Kubera  ( Kunda, Kundana/gold, Kubera etc.)   

Kubera - Kumaari (Kubjaa, Kubjaamraka, Kumaara, Kumaari etc. )

 

 

कीर्ति

स्कन्दपुराणे २.५.१५.२ सहमासे(मार्गशीर्षे) कीर्तियुक्त केशवस्य पूजायाः  निर्देशमस्ति। इतः पूर्वं कार्तिकमासे कृत्तिकानां, यत्र पापानां कृन्तनं अपेक्षितमस्ति, प्राधान्यमासीत्। अतः परं मार्गशीर्षमासे पुण्यकर्मणां सम्पादनं अपेक्षितमस्ति, अयं प्रतीयते। कीर्ति अर्थात् कृत्ति, सर्वश्रेष्ठ क्रिया। ऋग्वेदे १०.१३१ सूक्तस्य ऋषिः सुकीर्तिः अस्ति। कर्मकाण्डे अयं सूक्तं मैत्रावरुण एवं ब्राह्मणाच्छंसी ऋत्विग्भ्यां सम्बद्धः अस्ति। एतयोः ऋत्विजोः यानि वैशिष्ट्यानि सन्ति, तेषां उपयोगं कीर्तेः अभिगमने अपेक्षितमस्ति।

 

संदर्भ

तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।

उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥१.१०३.

यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।

तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥१.११६.

इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना।

अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः॥ २.०२८.०१

तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम्।

प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र॥ १०.०५४.०१

१०.१३१ सुकीर्तिः काक्षीवतः। दे. इन्द्रः, ४-५ अश्विनौ। त्रिष्टुप्, ४ अनुष्टुप्

अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व।

अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम॥ १०.१३१.०१

 

*संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी ।

श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥ शौ.अ. ५.२०.९

*की॒र्तिं च॒ वा ए॒ष यश॑श्च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ शौ.अ. ९.८.५

*यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥१७॥

यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥ ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन् जा॒तवे॑दसि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ क॒न्यायां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन् य॒ज्ञ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन् प॑रमे॒ष्ठिनि॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥ शौ.अ. १०.३.१७-२५

*आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च - - - - तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य। - शौ.अ. १२.६.३

*की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ शौ.अ. १३.५.१

*ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ शौ.अ. १३.६.१

*श्र॒द्धा पुँ॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(आग्नेयी दिशा?) - शौ.अ. १५.२.८

*उ॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अ॒मा॒वा॒स्या च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (नैर्ऋत दिशा?) - शौ.अ. १५.२.१६

*इरा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(वायव्य दिशा?) - शौ.अ. १५.२.२४

*वि॒द्युत् पुंश्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दो मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (ईशान दिशा?) शौ.अ. १५.२.३२

*स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् । आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्। मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम्॥ - शौ.अ. १९.७१.१

*वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन्। मह्य॒मायु॑र्घृतं पयः॑॥ - शौ.अ. २०.४८.३

*तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। तद् द्वादशाहं हुत्वा कीर्तिं यशः प्रजापतिम् अमृतं तद् उदाजहार। - जै.ब्रा. १.३७

*यो ह वा एतस्मात् साम्न इयाद् दुश्चर्मा वा स्यात् पापी वैनं कीर्त्तिर् अभिवदेत्। - जै.ब्रा. १.१६९

*अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। - जै.ब्रा. १.२६४

*स होवाचाषाढ आम् आरुणे यत् सहैव ब्रह्मचर्यम् अचराव ……यद् इदं त्वम् इयत्प्रियः कीर्त्तेर् इयत्प्रियश् चक्षुष इयत्प्रियस् सनेर् असि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। प्रियम् इति। - जै.ब्रा. १.२७१

*अथ होचुर् इन्द्रद्युम्नं भाल्लवेयं यद् इदं तवोपर्युपर्य् अन्यान् कीर्त्तिश् चरति विवचनम् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। कि त्वं तद् धूर्षूपास्स इति। यश इति। - जै.ब्रा. १.२७१

*आरुणिः उवाच -- प्राणो वै गायत्री प्राणो वै प्रियम्। - - - प्रिय एव प्राण आत्मन एवं प्रिय एव स कीर्त्तेर् एवं प्रियश् चक्षुष एवं प्रियस् सनेर् भवतीति। - जै.ब्रा. १.२७२

*तद् उ होवाचारुणिर् गायत्रीं वा अहं सर्वाणि सवना निवहन्तीं वेद तस्मान् म आ जरसं यशः कीर्त्तिर् न व्येतीति। - जै.ब्रा. १.२८९

*प्राणो वै गायत्रः। - - - -तस्मात् त्रिवृतैव शीर्ष्णा प्रतिपद्यम् अथ पञ्चदशेन पक्षेणाथ सप्तदशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना। तद् ऊर्ध्वाः कीर्तिम् ऊर्ध्वा श्रियम् ऊर्ध्वा स्वर्गं लोकं रोहन्ति। - जै.ब्रा. २.१८

*ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। - - - -क्षत्रम् एव तद् ब्रह्मन् प्रतिष्ठापयन्ति।... अजय्यां ह वै कीर्तिम् अजय्यां श्रियम् अजय्यं स्वर्गं लोकं जयति य एवं वेद। - जै.ब्रा. २.१३३

*अथ श्रुधीयं कीर्तिमत् साम। पुण्यैनं कीर्तिर् उत्तस्थिवांसम् अनूत्तिष्ठाद् इति। - जै.ब्रा. २.१९५

*स यो हास्य एतद् अत्यायु नाम पदं वेदात्य् एवान्यान् प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। - जै.ब्रा. २.२५८

*स यो हास्या एतत् पृश्नि शबलं पदं वेद पृश्निर् एव प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। - जै.ब्रा. २.२५९

* न ह खलु वा एषाक्षमारमते यद् गायत्री। ऊर्ध्वा ह वा एष सह यजमानेन स्वर्गं लोकम् एति। ऊर्ध्वा हैवास्य कीर्तिर् ऊर्ध्वा श्रीर् ऊर्ध्वं स्वर्गं लोकम् एति य एवं वेद। - जै.ब्रा. २.३५२

*तं होचुस् सुपर्णाविदो गा इति। का कीर्तिश् चिद् गवाम् इति होवाच। एषैव कीर्तिर् गवाम् इति तस्य हेन्द्रो गलम् उत्पीळयन्न् उवाच गोष्व् एवाहं किल तवोषुषो मुखम् इति। - जै.ब्रा. २.४४०

यो वा एवं धुरो विद्वानथासां व्रतं चरत्यागमिष्यतोऽस्य पूर्वेद्युः पुण्या कीर्त्तिरागच्छति ॥षड्विंशब्रा. २.३.

*पशवो हाध्वर्य्युमनुकीर्तिर्होतारँ योगक्षेमो ब्रह्माणमात्मा च प्रजा चोद्गातारम्(अनु)। ...थ यद्येनं पापिका कीर्त्तिरनूदियाद्धोता म इदमकरिति विद्याद षड्.ब्रा. ३.१.१०

तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः

-    गोब्रा १.४.२०

अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [पै.सं. १९.१६.८अ, शौ.अ. २०.१२५.१, सकलपाठ अत् २.६.४]> इति देवयोनिर् वै सुकीर्तिः स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति – गोब्रा २.६.१२

अथ चतुर्थी जुहोति । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेत्येषा ह नेदीयो यज्ञस्यापां हि कीर्तयत्यापो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति लोकानां हि कीर्तयति- माश ३.१.४.१५

वि श्लोक एतु पथ्येव सूरेरिति(वा.सं. ११.५) यथोभयेषु देवमनुष्येषु कीर्ति श्लोको यजमानस्य स्यादेवमेतदाह – माश ६.३.१.१७

तदेतद्यजुरुपांश्वनिरुक्तम्  प्राणो वै यजुरुपांश्वायतनो वै प्राणः....... तस्य ह य एतमेवं निरुक्तमाविर्भावं वेदाविर्भवति कीर्त्या यशसा ब्रह्मवर्चसेन – माश १०.३.५.१५

स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयेत्। एताभ्यस्त्वा देवताभ्य आवृश्चामः इत्येनं ब्रूयुः। स पापीयान् भवति। श्रेयांस आत्मना॥माश १२.१.३.२२॥

 

स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयति। एते हास्य देवचक्रे शिरश्छिंतः। दशरात्र उद्धिः। पृष्ठ्याभिप्लवौ चक्रे॥माश १२.२.२.२॥

तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद – माश १४.४.२.१८]

य एवमिन्द्रं श्रेष्ठं देवतानामुपदेशनाद्वेद । वसिष्ठः समानानां भवति । तस्माच्छ्रेष्ठमायन्तं प्रथमेनैवानुबुध्यन्ते । अयमागन् । अयमवासादिति । कीर्तिरस्य पूर्वागच्छति जनतामायतः । अथो एनं प्रथमेनैवानुबुध्यन्ते । अयमागन् । अयम-वासादिति तैब्रा २.३.१.

वायोरुपासनम् - स यां दिश सनिमेष्यन्त्स्यात् । यदा तां दिशं वातो वायात् । अथ प्रवेयात् । प्र वा धावयेत् । सातमेव रदितं व्यूढं गन्धमभि प्रच्यवते । आस्य तं जनपदं पूर्वा कीर्तिर्गच्छति । दानकामा अस्मै प्रजा भवन्ति । य एवं वेद तैब्रा २.३.९.

विष्णुर्वा अकामयत । पुण्य श्लोक शृण्वीय । न मा पापी कीर्तिरागच्छेदिति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् । ततो वै स पुण्य श्लोकमशृणुत । नैनं पापी कीर्तिरागच्छत् । पुण्य ह वै श्लोक शृणुते । नैनं पापी कीर्तिरागच्छति । य एतेन हविषा यजते । - तैब्रा ३.१.५.७

यदश्वमेधः समृद्ध्यै । पुण्यनाम देवयजनमध्यवस्यति । पुण्यामेव तेन कीर्तिमभिजयति । - तैब्रा ३.८.१.२

देवानां पूर-योध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । - तैआ १.२७.३

यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति – तैआ २.१५.१

घर्म इति दिवा चक्षीत । संराडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा २ प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः । गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानु व्यभवन् । प्रवर्ग्येणाप्नुवन् । यच्चतुर्वि शतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु वि भवति । गायत्रीमाप्नोति । पूर्वास्य जनं यतः कीर्तिर्गच्छति । - तैआ ५.११.३

कीर्तिः पृष्ठं गिरेरिव । तैआ ७.१०.१

यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन, इति । - तैआ ६.१०.२