पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Gangaa - Goritambharaa) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
गायत्रीमन्त्रस्य एका संभावितव्याख्या
तत् सवितुर्वरेण्यं-- यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ श्वेताश्वतरोपनिषत् ४.१८ ॥ लिङ्गपुराणे २.१४.७ एवं शिवपुराणे ७.२.३.७ ईशान, तत्पुरुष, अघोर, वामदेव, सद्योजातसंज्ञकानां शिवप्रतिमानां लक्षणानि सन्ति। किं तत् शब्दस्य व्याख्या तत्पुरुषशिवस्य लक्षणानां आधारे कर्तुं शक्यन्ते। कथनमस्ति यत् ईशानः भोक्ता अस्ति, तत्पुरुषः भोग्यः अस्ति। तत्पुरुषः प्रकृतिः, स्पर्शतन्मात्रात्मकः अस्ति। ईशानः आकाशतन्मात्रात्मकः अस्ति। अतएव, तत् शब्दस्य व्याख्या श्वेताश्वरोपनिषदानुसारेण ईशानदेवस्य लक्षणानां अनुसारे एव कर्तुं शक्यमस्ति। किन्तु गायत्रीमन्त्रस्य पादानां वर्धनं (परोक्षरूपेण) सूक्ष्मतः स्थूलतररूपेषु क्रमिकरूपेण भवति। अयं क्रमः कः अस्ति, अस्य व्याख्या ईशान, तत्पुरुष, अघोर, वामदेव एवं सद्योजातसंज्ञाभिः कर्तुं शक्यन्ते। सरलभाषायां, एते समाधितः व्युत्थानस्य स्थितयः शब्दः, स्पर्शः, रूपः, रसः, गन्धः सन्ति ।
भर्गः देवस्य धीमहि- गर्भः दैवस्य इधीमहि। यथा उदयशब्दोपरि टिप्पण्यां कथितमस्ति, सर्वे कर्मफलाः गर्भरूपे प्रतीक्षन्ते। ते उदयहेतु उपयुक्तकालं प्रतीक्षन्ते। यदा भर्गस्य/भगस्य /भाग्यस्य उदयं भविष्यति, तदा अस्य विस्तारं केन प्रकारेण भविष्यति, अयं गोपथ ब्राह्मणे कथितमस्ति
गायत्र्येव भर्गः त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्। प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्। वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्। त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्। ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्। होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्। वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥।। गो १, ५, १५। भर्गस्थित्याः प्रथमः विकासः महस्थित्यां भवति। कथनमस्ति (ब्रह्माण्डपुराणम् ३.४.२.४२) यत् महर्लोकनिवासिनः पञ्च लक्षणा मानसी सिद्धिना युक्ता भवन्ति। अनुमानमस्ति यत् अयं कल्पवृक्षस्य स्थितिः अस्ति। अतःपरं यशः पदमस्ति। अनुमानमस्ति यत् यशः यक्षशब्दस्य बृहद्रूपमस्ति( द्र. यक्षशब्दोपरि टिप्पणी)। शतपथब्राह्मणस्य कथनमस्ति ते हैते ब्रह्मणो महती यक्ष्ये। स यो हैते ब्रह्मणो महती यक्ष्ये वेद महद्धैव यक्ष्यं भवति तयोरन्यतरज्ज्यायो रूपमेव यद्ध्यपि नाम रूपमेव तत्स यो हैतयोर्ज्यायो वेद ज्यायान्ह तस्माद्भवति यस्माज्ज्यायान्बुभूषति - ११.२.३.[५] सरस्वतीरहस्योपनिषदि ३.२३ कथनमस्ति यत् अस्ति, भाति, प्रियं इत्येतेषां त्रयाणां सम्बन्धः अन्तर्जगतेन सह अस्ति, नामरूपयोः बाह्यजगततः। अतएव, यदा यक्षसाधना नाम-रूपं गृह्णाति, तदा सा यशः भवति। पुराणेषु यशः कीर्त्याः पुत्रः अस्ति। लौकिकरूपेण कथनमस्ति यत् जीवितियां यशः, मरणोपरि कीर्तिः। कीर्तिशब्दस्य निर्वचनं कॄत् संशब्दे अनुसारेण कुर्वन्ति। किन्तु अत्र कीर्तिशब्दस्य निर्वचनं कृतशब्दस्याधारे उपयुक्तं प्रतीयते। कर्मकाण्डे यजमानः सभ्याख्ये खरे कृतसंज्ञकेभिः अक्षेभिः धनार्जनं करोति। द्यूतक्रीडायां ये अक्षाः सन्ति, तेभिः जयापजयस्य पूर्वानुमानं शक्यं नास्ति। कृतप्रकारेभिः अक्षेभिः अहं जेष्यामि, अस्य निश्चयं भवति। कृतं यथा कृतयुगः। यदा भूलोकतः कीर्त्याः नाशं भवति, तदा स्वर्गतः पतनं भवति। अतएव, कीर्त्याः साम्यं पुण्येभिः अस्ति। अयं जगती छन्दः, वैश्यस्य स्थितिः प्रतीयते। ब्राह्मणग्रन्थेषु यशःशब्दस्य सम्बन्धं अनुष्टुप् छन्देन सह (जै.ब्रा. १.२७२), अच्छावाक् ऋत्विजेन सह (तां.ब्रा. २५.१८.४)। अपि कथितं अस्ति। द्र. यशशब्दोपरि वैदिकसंदर्भाः। यशस्य एकं गुणं कृकलं, कर्क, प्रतिध्वनिः प्रतीयते। शरीरे ये कोशएककाः भवन्ति, तेषां सर्जनं कर्केणैव भवति। प्रेम, मैत्री, कृपा, उपेक्षा।
धियो यो नः प्रचोदयात् दैव, भाग्यस्य विवेचनं द्वितीये पादे अभवत्। तृतीयपादे पुरुषार्थस्य विवेचनमस्ति। पुरुषार्थस्य पराकाष्ठा विश्वकर्मा अस्ति। लिङ्ग २.४८.५ (प्रचोदना के संदर्भ से २२ गायत्री भेदों का कथन )
तत्पुरुषाय विद्महे वाग्विशुद्धाय धीमहि।। गायत्र्याः त्रयः प्रकाराः भवन्ति। गयाक्षेत्रे एकादश्यां यदा श्राद्धं कुर्वन्ति, तदा प्रातःकाले गायत्री देवता भवति यस्य स्वरूपं गौरूपं, ज्ञानरूपं अस्ति। माध्यन्दिनकाले गायत्र्याः स्वरूपं सावित्री प्रकारा, अश्वप्रकारा अस्ति यस्य परिणामं मेधा, अश्वमेधः अस्ति। सायंकाले गायत्र्याः स्वरूपं सरस्वती, प्रज्ञा प्रकारा अस्ति (वास्तुसूत्रोपनिषत् टीका ६.२१टीका)। श्वेताश्वरोपनिषदे गायत्र्याः केवलं प्रज्ञारूपमेव उल्लिखितमस्ति। लक्ष्मीनारायणसंहितायां प्रज्ञा श्रद्धायाः पुत्री अस्ति। वैदिकवाङ्मये बहवः देवताः सन्ति इन्द्रः, सविता, वरुणः इत्यादि। तदा केन कारणेन अत्र सवितुः चयनमेव अस्ति। अस्मिन् संदर्भे प्रथमः तर्कः हृदयमेवेन्द्रः। यकृत् सविता। क्लोमा वरुणः । श० १२ । ९ । १ । १५ ॥ देहे यकृतस्य कार्यं सुवर्णनिर्माणमस्ति। द्वितीयः तर्कः तस्या ( श्रियः) अग्निरन्नाद्यमादत्त सोमो राज्यं वरुणः साम्राज्यं मित्रः क्षत्रमिन्द्रो बलं बृहस्पतिर्ब्रह्मवर्चसं सविता राष्ट्रं पूषा भगं सरस्वती पुष्टिं त्वष्टा रूपाणि। श० ११।४।३।३॥ तृतीयः तर्कः - उदीचीमेव दिशम् पथ्यया स्वस्त्या ....प्राचीमेव दिशम् । अग्निना ....दक्षिणामेव दिशम् सोमेन ....प्रतीचीमेव दिशम् सवित्रा प्राजानन्नेष वै सविता य एष तपति तस्मादेष प्रत्यङ्ङेति प्रतीचीं ह्येतेन दिशं प्राजानन्प्रतीची ह्येतस्य दिक्। ऊर्ध्वामेव दिशम् । अदित्या प्राजानन्नियं श ३.२.३.[१८] प्रतीची दिक् सत्यानृतविवेकस्य, श्मशानस्य, स्वपापानां दहनस्य अस्ति। चतुर्थः तर्कः मन एव सविता वाक् सावित्री यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति एते द्वे योनी एकं मिथुनम् अग्निर् एव सविता पृथिवी सावित्री यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति एते द्वे योनी एकं मिथुनम् वायुर् एव सवितान्तरिक्षं सावित्री यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति एते द्वे योनी एकं मिथुनम् चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति एते द्वे योनी एकं मिथुनम् अहर् एव सविता रात्रिः सावित्री यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति एते द्वे योनी एक मिथुनम् उष्णम् एव सविता शीतं सावित्री यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति एते द्वे योनी एकं मिथुनम् अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति एते द्वे योनी एकं मिथुनम् विद्युद् एव सविता स्तनयित्नुः सावित्री यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति एते द्वे योनी एकं मिथुनम् प्राण एव सवितान्नं सावित्री यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति एते द्वे योनी एकं मिथुनम् वेदा एव सविता छन्दांसि सावित्री यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति एते द्वे योनी एकं मिथुनम् यज्ञ एक सविता दक्षिणाः सावित्री यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति एते द्वे योनी एकं मिथुनम् गो १.१.३३ यावत् समाधिअवस्था अस्ति, तावत् सवितुः रथः एकचक्रीयः अस्ति(एकचक्रेण सविता रथेनोर्जोभागं पृथिव्या यात्यापृणन् । मै २,७,१२ )। यदा समाधितः व्युत्थानं भवति, सविता सह सावित्र्याः अपि प्रादुर्भावं भवति, तदा सूर्यस्य रथः द्विचक्रीयः भवति।
गायत्र (साम) ३१. प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एतेनैव साम्ना प्राणम् अदधात्। प्राणो वै गायत्रम्। ......तम् (ताः [जै.) एतदेव (गायत्रम् ) साम गायन्नत्रायत । यद्गायन्नत्रायत तद्गायत्रस्य गायत्रत्वम् । जै १, १११; जैउ ३,६,९,४ । ३६. प्राणो (+ वै जै १.१११: जैउ.) गायत्रम । जै १.१११, ११२: २.२६. तां ७.१.९: ३.७, जैउ १,१२,३,७ (तु. जै २,१८)। ३८. गायत्रं साम भवत्य् - अयातयाम वै गायत्रम् - अयातयामताया एव। अथो मनो वै गायत्रम् । जै ३,३०५। मनो हिङ्कारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ छाउ २.११.१ ॥ ४. गायत्रं साम भवत्य् - अयातयाम वै गायत्रम् - अयातयामताया एव। अथो मनो वै गायत्रम्। मनसैवैनत् तत् समृद्धयन्ति, मनसोपावर्तयन्ति, मनसा हिंकुर्वन्ति, मनसा प्रस्तौति, मनसादिम् आदत्ते, मनसोद्गायति, मनसा प्रतिहरति, मनसोपद्रवति, मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै। यद् वै देवा यज्ञस्य वाचा न समाप्नुवंस् तद् अस्य मनसा समाप्नुवन्। । जै ३,३०५ । ६. इमे वै लोका गायत्रम् (साम) त्र्यावृद्गेयं त्रयो हीमे लोका। तां ७,१, १ प्राणो गायत्रं न व्यवान्यात् प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति तां ७.१.९ ८. गायत्रेणैव प्रातस्सवनं प्रायच्छत् सामभिर् माध्यंदिनं सवनं तृतीयसवनं च। .....एकं वाव किल सामास, गायत्रमेव । जै १,३२१ । १७. गायत्रमेव हिंकारः । जै २, ४३३ ।
गायत्रं (छन्दः) १. अग्निर्गायत्रः । माश १६,१,१,१५ । २. अध्वर्युस्त्रिवृता शीर्ष्णा गायत्रेणोद्गायति । इदं तच् छिरः प्रतिदधाति । जै २, ४०६,४०७ । ३. विष्णोः क्रमो ऽस्य् अभिमातिहा , गायत्रं छन्द आरोह, पृथिवीमनुविक्रमस्व । तैसं ४, २,१,१ । ५. इदमहं गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्नाग्निना देवतया तेजस्ते वर्च आददेऽसौ । काठ ३६,१५ । ७. उशिक्त्वं देव सोम । गायत्रेण च्छन्दसाग्नेः पाथ उपेहि । काठ ३०,६ । ९. अन्तर्यामपात्रेण सावित्रम् आग्रयणाद् गृह्णाति .एष वै गायत्रो देवानां यत् सविता । तैसं ६,५,७,१। १०. गायत्रं वाऽअग्नेश्छन्दः । माश १,३,५,४ (तु. कौ १०,५, १४,२, २८,५)। ११. गायत्रं वै (हि [गो.) प्रातःसवनम् (रथन्तरम् [तां ५,१,१५])। ऐ ६,२, ९; गो २,३,१६; तां ५,१,१५, ६,३,११; ष १,४ (तु. तैसं २,२,९,५, ३,२,९,१; जै १,१४१, ३,५७; जैउ ४,२,१,२)। १२. गायत्रं वै व्रतस्य शिरः, तद्धि ब्रह्म । जै २,४१५।। १३. प्राणो वै गायत्री, गायत्रं हविर्धानं- मै ३,४,४; काठ २१,१२; जैउ १,१,१,८ । १४. शिरो गायत्र्यः .....गायत्रं हि शिरः । ... उरस्त्रिष्टुभः...... श्रोणी जगत्यः.... सक्थ्यावनुष्टुभः...... पर्शवो बृहत्यः..... ग्रीवा उष्णिहः..... पक्षौ पङ्क्तयः.... उदरमतिच्छन्दाः - माश ८,६,२,६ (तु. जै १,२९२, २,१८)। १५. गायत्रः (+उ वै [कौ., तै.)) प्राणः । कौ ८,५; जै २,२४२; तां २०,१६,५; तै ३,३,५,३ । १६. गायत्रं चक्षुः । तैसं ४,१,१०,५; मै २,७,८; काठ १६,८ । १८. गायत्रः सप्तदशः स्तोमः । तां ५,१,१५। १९. तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । ..... गायत्रो वै पर्णः । गायत्राः पशवः । तै ३,२,१,१ । २०. गायत्रेण रथन्तरम् (समर्धय)। तैसं ३,१,१०,१ । २१. गायत्रेऽस्मिँल्लोके गायत्रोऽयमग्निरध्यूढः । कौ १४,३ । २२. गायत्रोऽयं (भू-) लोकः । कौ ८,९। २३. गायत्रो यज्ञः । गो १.४,२४; जै २,४३१ । २४. गायत्रो वै देवानां सविता । मै ४,७,१। २५. अथातश्छन्दांस्येव व्यतिषजति..... गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः । ऐ ४,३; त्रिष्टुभः सतीर्गायत्रीरिवान्वाह २ गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति । सन्ततमन्वाह । प्राणानामन्नाद्यस्य सन्तत्यै ।- तैआ ५,४,३। २६. गायत्रो वै बृहस्पतिः ( मैत्रावरुणः [तां.)। जै २,१३१; तां ५,१,१५ । २७. गायत्रो वै (हि ।तैसं., मै.1) ब्राह्मणः । तैसं ५,१,४,५; मै ३,१,५, ऐ १,२८; जै २,१०२ । २८. अष्टाश्रिः कार्यो , गायत्र्या रूपं , गायत्रो हि यूपः । मै ३,९,३ ।।
२९. घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा १ घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्म या ते पृथिव्याँ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा तैआ ४,११,१। ३०. ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु। अग्निर् एव रथन्तरस्य वायुर् वामदेव्यस्यादित्यो बृहतश् चन्द्रमा गायत्रस्य विद्युद् यज्ञायज्ञीयस्य। (ज्योतिः)। जै १,२९२, २, ४३३ । ३२. तस्य (महाव्रतस्य) गायत्रꣳ शिरः । तां १६,११,११ । ३३. नमस्ते गायत्राय यत्ते शिर इति । ऐआ ५,१,२ । ३४. पृथिव्यां विष्णुर्व्यक्रꣳस्त । गायत्रेण छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मः। माश १,९,३,१० (तु. काठ ५,५,५)। ३५. प्राणा एव सप्तममहर्गायत्रम् । जै ३,३१९ । यत् त एतन् नवमम् अक्षरं तद् उदूहस्वेति। तत् किं भविष्यति। यद् एवास्ति तद् भविष्यतीति। तथेति। तद् उदौहत। स एव प्रणवो ऽभवत्॥जै 3.321॥ ३७. रेतो वा एतद् अग्रे प्रविशति यद् गायत्रम्। ततो ऽन्यान्य् अंगानि विक्रियन्ते। प्राणो वा एष प्रविशति यद् गायत्रम् (छन्दः) । जै २,१८ । ४०. रोहिणीर्वो वृञ्जे गायत्रेण छन्दसा । मै ४,२,११।। ४१. वसवस्त्वा गायत्रेण छन्दसा संमृजन्तु । तां १,२,७ । ४२. वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसा । मै १,१,१०; क ३९,२ । ४३. वसवस्त्वा पुनन्तु (प्रोहन्तु [जै १,७८]) गायत्रेण छन्दसा । जै १,७३, ७८ ।। ४४. वसवस्त्वा संमृजन्तु (पुरस्तादभिषिञ्चन्तु तै.) गायत्रेण छन्दसा । जै १, ८१; तै २,७,१५,५। ४५. सावित्रं तृतीयसवने गृह्णाति ॥ ....सविता हि देवानां गायत्रः। काठ २८,७; क ४४,७ । ४६. सुवर्णं गायत्रम् (छन्दः) । शांआ ११, ७।। ४७. गायत्रमुखो वै प्रथमस् त्रियहः। तस्माद् अयम् अग्निर् ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्रियहः। तस्माद् अयं वायुस् तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्रियहः। तस्माद् असाव् अर्वाङ् आदित्यस् तपति।......सोऽयास्य आङ्गिरसस्त्रिरनवानं गायत्रमगायत् । तेनेमांश्च लोकान् समजयत् प्राणापानव्यानांश्च समिमांश्च लोकाञ् जयति प्राणापानव्यानांश्च य एवं विद्वांस्त्रिरनवानं गायत्रं गायति । जै ३,२८१ ॥ मृदःखननपूर्वकं चर्मपत्रयोः संभरणम् -- अष्टाभिः सम् भरत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तꣳ सम् भरति तैसं ५.१.४.६, गार्हपत्यचयनम् अष्टाव् उप दधाति । अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निः तं चिनुते । अष्टाव् उप दधाति । तैसं ५.२.३.५, कौ १.१, ३.२, ९.२, १९.४, तै १.१.५.३ गायत्रो ह्यग्निः - मै ३.९.५, जै १.१४२ द्वादशरात्रकथनम् -- गायत्रो वा ऐन्द्रवायवः। गायत्रम् प्रायणीयम् अहर् । तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते तैसं ७.२.८.१, काठ ३०.२, क ४६.५ (तु. मै ४.८.८) यो जानुदघ्नस्स गायत्रचिद्यो नाभिदघ्नस्स त्रिष्टुप् चिद्यः पुरुषमात्रस्स जगच्चिच्छ्येनचितं पक्षिणं चिन्वीत स्वर्गकामः। काठ २१,४ । गायत्र-छन्दस् १. गायत्रं वै रथन्तरं गायत्रछन्दः । तां १५, १०,९। २. गायत्रछन्दा अग्निः ( ह्यग्निः [तां ७, ८, ४.])। तां ७,८,४; १६. ५,१९ । ३. गायत्रछन्दा वै ब्राह्मणः । तै १, १, ९, ६ । ४. प्रातःसवने बहिष्पवमाने उद्गातारमन्वरभासै। श्येनोऽसि गायत्रच्छन्दा ..... माध्यन्दिने पवमाने उद्गातारमन्वारभासै। सुपर्णोऽसि त्रिष्टुप्छन्दा ..... तृतीयसवन आर्भवे पवमान उद्गातारमन्वारभासै। ऋभुरसि जगच्छन्दा। माश १२, ३, ४,३ । ५. यस्ते राजन् वरुणद्रुहः पाशो गायत्रच्छन्दाः पृथिवीमन्वाविवेश ब्रह्मणि प्रतिष्ठितः। काठ १७, १९। ६. पवमानग्रहत्रयम्.. श्येनो ऽसि गायत्रछन्दाः... सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे । तैसं ३, २, १, १ । गायत्र-पार्श्व ( सामन्-) १. अहर्वा एतदव्लीयत तद्देवा गायत्रपार्श्वेन समतन्वꣳस्तस्माद्गायत्रपार्श्वम् । तां १४,९,२६ । २. इमे वै लोका गायत्रपार्श्वम् । जै ३,२१४ । ३. ते ऽब्रुवन् ( देवाः) स्वर्गं लोकं गत्वा गायत्रं वाव नो ऽस्य साम्नः पक्षावभूतामिति । तदेव गायत्रपक्षस्य गायत्रपक्षत्वम् । गायत्रपक्षं ह वै नामैतत् । तद् गायत्रपार्श्वमित्याख्यायते। जै ३, २१४। गायत्र-मुख- यस्माद्गायत्रमुखः प्रथमः (त्रिरात्रः) तस्मादूर्ध्वोऽग्निर्दीदाय । तां १०, ५, २ गायत्री- गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। ...... त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। ...... जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति।.......जै १.१०२ १. सप्तममहः-- आग्नेयम् एतद् अहर् यद्गायत्रम्। अग्निर्हि गायत्री । जै ३, १८४; ३.१९१ । २. अथ गायत्री एकपदां द्विपदामक्षरपंक्तिं विष्टारपक्तिं विराजमतिच्छन्दसममितं छन्द इत्येतानि मृगच्छन्दसानि प्राजायत । सैषा स्तोमानां च छन्दसां च प्रजापतिः । जै ३.३२४ । ३. अथ माध्यन्दिनस्य पवमानस्य गायत्री। योऽयमवाङ् प्राणः (पायुः) एष एव सः ।....अथ बृहती। यो ऽयं प्राङ् प्राण एष एव सः।...अथ त्रिष्टुप्। नाभिर् एव सा। जै १, २५४। ४. अथ यान्यष्टावहानि सा गायत्री । तया देवा स्वर्गं लोकमायन् । जै ३, ९ । ५. अयं वै (पृथिवी-) लोको गायत्री तृचाशीतिः । ऐआ १, ४,३ । ६. अयमेव ( भूलोकः) गायत्री । तां ७, ३, ९। ७. अयं पुरो भूस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती, गायत्र्या गायत्रं, गायत्रादुपाꣳशुरुपाꣳशोस्त्रिवृत् त्रिवृतो रथन्तरं, वसिष्ठ (ฐष्ठा [मै.) ऋषिः । मै २,७,१९; काठ १६,१९। ८. अष्टाक्षरा (+वै [माश.]) गायत्री। ऐ २,१७, ३, १२; कौ ९, २; १९, ४; गो १,४,२४; ३,२,१०; जै १,११२, ३,१४१; २४२, तां ६, ३, १३; तै १, १,५,३; माश १,४,१,३३, जैउ १,१,८। ९. अष्टौ वसवो ऽष्टाक्षरा गायत्री । तैसं ३,४, ९,६-७ । १०. अस्कन्नमेव तद्यत् प्रयाजेष्विष्टेषु स्कन्दति, गायत्र्येव तेन गर्भं धत्ते, सा प्रजां पशून् यजमानाय प्र जनयति । तैसं २, ६, १, ७ । ते देवा गायत्रीं व्यौहन् पञ्चाक्षराणि प्राचीनानि त्रीणि प्रतीचीनानि ततो वर्म यज्ञायाभवद् वर्म यजमानाय यत् प्रयाजानूयाजा इज्यन्ते वर्मैव तद् यज्ञाय क्रियते - तैसं २, ६, १, ७ ११. अस्मादेवैनान् (असुरान् देवाः पृथिवी- ) लोकाद् गायत्र्या ऽन्तरायन् । जै १, ९९ १२. इमे वै लोका गायत्री । तां १५, १०, ९ ॥ १३. इयं [इयमेव [जैउ.J (पृथिवी)] वै गायत्री । मै १, ५, १०, ३, १,२; काठ १९, १; क २९,८; जै १,३३९,२,१९; तां ७, ३, ११, १४,१,४; जैउ १, १७, ३, ३ । १४. एतद्धि (गायत्री ) छन्द आशिष्ठम् । माश ८, २, ३, ९। १५. एते वाव छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप् च । तां २०, १६, ८ । १६. एते ह खलु वै छन्दसां वीर्यतमे यद् विराट् च गायत्री च । जै २,३३५ । १७. एषा वै गायत्री ज्योतिष्पक्षा तयैव स्वर्गं लोकमेति । काठ २१, १०, २२,६; क ३४, १ । १८. एषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद् द्वादशाहस्तस्य यावभितो ऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी ये ऽष्टौ मध्य उक्थ्याः स आत्मा। ऐ ४, २३ । १९. गायत्रींल्लोमभिः प्रविशामि त्रिष्टुभं त्वचा प्रविशामि जगतीं माँसेन प्रविशाम्यनुष्टुभमस्थ्ना प्रविशामि पङ्क्तिं मज्ज्ञा प्रविशामि ॥ काठ ३८, १४ । २०. गायत्रीं सर्वाणि छन्दांस्यपियन्ति । जै १,२९० । २१. गायत्री गायतेः स्तुतिकर्मणः । दै ३, २। २२. गायत्री छन्दसाम् ( मुखम् )। तां ६, १, ६।
२३.
तदाहुः किं छन्दः का देवताग्नेः शिर इति गायत्री छन्दोऽग्निर्देवता शिरः
।
किं छन्दः का देवता ग्रीवा इत्युष्णिक्छन्दः सविता देवता ग्रीवाः २।
२४. गायत्री छन्दोभिः (अवतु ) । तैसं ७, ४, १२, १; काठ ४४, १। २५. गायत्रीं छन्दः (प्रजापतिः शीर्षत एव मुखतोऽसृजत ) । जै १, ६८ । २६. गायत्री त्वा छन्दसावतु त्रिवृत्स्तोमो रथन्तरं सामाग्निर्देवता ब्रह्म द्रविणम् । काठ १५,७ । २७. गायत्री देवेभ्यो ऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानुव्यभवन् । प्रवर्ग्येणाप्नुवन् । यच्चतुर्विꣳ शतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु वि भवति । गायत्रीमाप्नोति - तैआ ५,११,३। २८. गायत्री पक्षिणी भूत्वा स्वर्गं लोकमपतत् । काठ २१, ४; क ३१, १९ । २९. गायत्री ब्रह्मवर्चसम् । (वाक् [मै1) । मै ४,३,१; जै १, ९३; तां ५,१,९; तै २,७,३,३। ३०. गायत्रीभिः पुरस्तात् सादयति । मै ३, ३, २ । ३१. गायत्रीमेव प्रातस्सवनं संपद्यते, त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् । जै २,१०१। ३२. गायत्री वसूनां , त्रिष्टुब् रुद्राणां , जगत्यादित्यानामनुष्टुब् मित्रस्य, विराड् वरुणस्य, पङ्क्तिर् विष्णो , र्दीक्षा सोमस्य ॥ (पत्नी)। मै १, ९, २; काठ ९, १०, गो २, २, ९ (तु. तैआ ३,९,१)।
३३. अनुयाजाः--
स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक
ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती
तज्जगतीं प्रथमामकुर्वन्
।
अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा
अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै
तदाहुस्तस्मादन्तरिक्षं नराशंसोऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं
द्वितीयामकुर्वन्
। ३४. गायत्री वाऽ इयं ( पृथिवी ) । माश ४, ३, ४, ९, ५, २, ३, ५ ( तु. तैसं ५, २, १, १; मै ४,३,१)। ३५. गायत्री वाव सर्वाणि छन्दाꣳसि । तां ८, ४, ४ । ३६. गायत्री वै छन्दसामग्रं ज्यैष्ठ्यम् । जै २, २२७॥ ३७. गायत्री वै छन्दसामयातयाम्नी । जै ३,३०५। ३८. तृतीयाचितिः--छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रिष्टुब्दक्षिणा जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा । माश ८, ३, १, १२।। ३९. गायत्री वै प्राणः । माश १, ३, ५, १५। ४०. गायत्री वै प्रातःसवनं वहति, गायत्री माध्यन्दिनं सवनं, गायत्री तृतीयसवनम् । जै १,२८९ । ४१. गायत्री वै यज्ञस्य प्रमा। काठ ३२, ४ । ४२. गायत्री वै रथन्तरस्य योनिः । तां १५, १०, ५। . ४३. गायत्री वै रेवती। तां १६, ५, १९। .. ४४. गायत्री वै श्येनः सोमभृत् । मै ३, ७, ९। ४५. गायत्री वै सोममपाहरच्छ्येनो भूत्वा तस्य सोमरक्षिरनुविसृज्य नखमच्छिनत्, ततो यो ऽꣳशुरमुच्यत स पूतीको ऽभवदूतीका वै नामैते यदूतीकानभिषुण्वन्त्यूतिमेव यज्ञाय कुर्वन्ति । काठ ३४, ३ । ४६. गायत्रीषु शिरो भवति । जै २, ४७ । ४७. गायत्री सुवर्गं लोकमञ्जसा वेद । तैसं ५, २, ३, ५; काठ २०,१; क ३१,३ । ४८. गायत्र्ययातयाम्न्यभिनिवर्तꣳ सर्वाणि सवनानि वहति । काठ २७, ९ । ४९. गायत्र्या एष लोके सोमो गृह्यते यदाग्रायणः । मै ४, ७, १। ५०. गायत्र्या छन्दाꣳसि ( अन्वाभवत् )। काठ ३५, १५, ४३, ४ । ५१. गायत्र्यां प्रस्तुतायां प्राणेन वायुं सन्दध्यात् । जै १, २७० । ५२. गायत्र्या वसवः (अन्वारभ्यन्त)। काठ ७,६। . ५३. गायत्र्या वा एते लोके सर्वे सोमा गृह्यन्ते, ता वा एतत् सर्वाणि सवनान्यभिप्रतिधावन्ति । मै ४, ६, ४। ५४. गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन् । तां १६, १४, ४ । ५५. गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत । ऐ २, १७। ५६. गायत्र्या वै पतन्त्या यत्र पर्णं परापतत् , ततः पर्णोऽजायत । मै ३. ९.३ । ५७. गायत्र्युदपतत् , तामनुष्टम्माता प्रत्यन्वैक्षत । जै १. २८८। ५८. गायत्र्येव भर्गः त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्।प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्। वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्। त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्। ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्। होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्। वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥।। गो १, ५, १५ (तु. माश १२.३.४.६)। । ५९. गायत्र्यैव तच्छन्दसा प्रजापतिश्चेन्द्रश्च वसुषु देवेषु प्रातस्सवने ऽध्यपचितिमगच्छताम् । जै २,१०१। ६०. चतुर्विंशत्यक्षरा (+वै !ऐ., जै., माश.]) गायत्री । तैसं २,५, १०, ३; मै १,६, १०; ऐ ३, ३९; कौ १२, ३; जै १, ३०, २,२६६; ३०८, ३,६; माश ३,५,१,१०; जैउ १,४,३,२ । ६१. छन्दाꣳसि वा अमुष्माल्लोकात् सोममाहरन् , गायत्री श्येनो भूत्वा । काठ २४,१। ६२, ज्यैष्ठ्यं वै गायत्री । जै २, ३४६, ३५३ । ६३. ज्योतिर्वै गायत्री (+छन्दसाम् ।तां.) । तैसं ७,५,१,५; कौ १७,६; तां १३, ७,२ । ६४. तस्य ( यज्ञस्य ) गायत्र्येव प्रतिष्ठा (त्र्येवोधः)। जै १,११९। ६५. तस्य (प्राणस्य) त्वग्गायत्री । ऐआ २, १, ६ । ६६. तस्या (गायत्र्यै) अग्निस्तेजः प्रायच्छत् . सोऽजोऽभवत् । मै १.६.४ । ६७. तानीमानि छन्दांस्यब्रुवन्नियं (गायत्री) वाव नश् श्रेष्ठेयं वीर्यवत्तमा या सोममाहार्षीत् । जै १,२८९ । ६८. ता वा एता गायत्र्यो यत्त्रिपदाः। तां १६, ११, १०। ६९. तृतीयस्याꣳ वै दिवि सोम आसीत्, तं गायत्री श्येनो भूत्वाहरत् , तस्य (श्येनस्य) पर्णमछिद्यत, ततः पर्णोऽजायत । मै ४,१,१ (तु. तैसं ३,५,७,१; तै १,१,३,१०, ३,२,१,१)। ७०. तेजसा वै गायत्री प्रथमं त्रिरात्रं दाधार पदैर्द्वितीयमक्षरैस्तृतीयम् । तां १०,५, ३ । ७१. तेजो (+वै । ऐ., गो., जै १,२३२; ऐआ.]) ब्रह्मवर्चसं गायत्री। ऐ १, ५, २८; कौ १७,२, ९; गो २,५,५; जै १,१३१; तां १५,१,८; ऐआ १,१,३; (तु. मै ३,२,६; ४,२,११)। ७२. तेजो वै गायत्री (+छन्दसाम् [तां..) । तैसं ३,२, ९,३; ५,१, ३, ५, ३, ८,१; काठ १९,३; गो २,५,३; जै २,८९,३४६,३५३; तां १५,१०,७; तै ३,९,४,६ ।। ७३. तेजो वै गायत्री, तमः पाप्मा रात्रिः, तेन तेजसा (गायत्रीरूपेण) तमः पाप्मानं (रात्रिरूपम् ) तरन्ति । गो २,५,३। ७४. तेषां (असुराणां देवाः) प्राणमेव गायत्र्याऽवृञ्जत । जै १,९९ । ७५. त्रीणि वा एतानि सम्यञ्चि सन्धीयन्ते। गायत्रीछन्दश् चतुर्विंशस्तोमो रथन्तरं साम । जै ३,२९२ । ७६. त्रिपदा गायत्री । जै ३,६; तां १०,५,४ । ७७. त्रियविर्वयो (त्र्यवि॰ [क.]) गायत्री छन्दः । काठ १७,२; क २६,१ । ७८. त्रिवृद्वै गायत्र्यास्तेजः । तां १०,५,४ । ७९. त्र्यवयो गायत्र्यै । मै ३,१३,१७ । ८०. दविद्युतती वै गायत्री । जै १,९३; तां १२,१,२ । ८१. दिवि सोम आसीत् , तं गायत्र्याऽहरत् , तस्य पर्णमच्छिद्यत, तत् पर्णोऽभवत् । ८२. देवाश्च वा असुराश्च संयत्ता आसꣳस्तान् गायत्र्यन्तरातिष्ठदोजो वीर्यमन्नाद्यं परिगृह्य संवत्सरो वावैनान् सोऽन्तरातिष्ठच्चतुर्विꣳशतिर्गायत्र्या अक्षराणि चतुर्विꣳशतिस्संवत्सरस्यार्धमासास्तेऽविदुर्यतरान् वा इयम् ( गायत्री) उपावर्त्स्यति त इदं भविष्यन्तीति तां व्यवह्वयन्त दाभीत्यसुरा अह्वयन् विश्वकर्मन्निति देवास्ता नान्यतराꣳ श्चनोपावर्तत ते देवा एतद्यजुरपश्यन्नोजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुस्सर्वमसि सर्वायुरभिभूरिति, सा (गायत्री) देवानुपावर्तत, ततो देवा अभवन् परा असुरा अभवन् आग्नेयमष्टाकपालं निर्वपेद् भ्रातृव्यवान् वा स्पर्धमानो वा तमासाद्यैतैर्यजुर्भिरभिमृशेदोजो वै वीर्यं संवत्सर ओज एव वीर्यं भ्रातृव्यस्य वृङ्क्ते, स निर्वीर्यः पराभवति, गायत्री नामेष्टिरथो आहुः क्षत्रस्य संवर्ग इति । काठ १०, ७ ॥ ८३. देवासुराः संयत्ता आसन् , तेषां गायत्र्योजो बलमिन्द्रियं वीर्यं प्रजां पशून्त्संगृह्याऽऽदायापक्रम्यातिष्ठत् , तेऽमन्यन्त यतरान् वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति । तैसं २,४,३,१। ८४. नवाक्षरा वै गायत्र्यष्टौ तानि यान्यन्वाह प्रणवो नवमः । माश ३, ४, १, १५ । ८५. पञ्चाविर्वयो गायत्री छन्दः । तैसं ४,३, ५,१; मै २,८,२ । ८६. पशवो गायत्री । जै २,३११। ८७. पुंसो वा एतद्रूपं यद् बृहत् , स्त्रियै गायत्री । जै ३,१८९। ८८. सौमिकवेदिकरणम् -- चतुर्विंशत्यक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री । माश ३, ५, १, १०, अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य माश ३,६, ४, २० ८९. पूषा षडक्षरया गायत्रीमुदजयत् , चतुर्धा ह्येतस्याः (हि तस्याः [काठ..) षट् षडक्षराणि । मै १, ११, १०; काठ १४, ४ । ९०. प्राचीमारोह गायत्री त्वावतु, रथन्तर साम, त्रिवृत्स्तोमो, वसन्त ऋतुर्ब्रह्म द्रविणम् । माश ५, ४,१,३। ९१. प्राण एव गायत्री । जै २,५८ । ९२. प्राणं गायत्र्या (समीरयति)। जै १, २५३ । ९३. प्राणो (+ हि [जै १,२३२]) गायत्री । क ४६,५; जै १,२६९; २,१८१, ४२५; तां ७, ३, ८; १६,३,६; माश ६, २,१,२४, ६,२,५, १०,३,१,१ (तु, तां १६, १४, ५, १६, ७, १९, ५,९; ७, ७)। ९४. प्राणो वै गायत्री (गायत्र्यः [कौ.) । मै २,४,४, ३,४, ४, ४,६,६; काठ २८, १; कौ १५, २; १६,३, १७,२; जै १,१०२, २,८९, ३११; ३४६, ३५३; माश ६,४,२,५; ष ३,७ । । ९५. प्रेति च वा एति च गायत्र्यै रूपम् । जै ३, १२ । ९६. बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत् । तैसं १, ७, ११, १। ९७. ब्रह्म गायत्री (+ क्षत्रं त्रिष्टुप् [माश १, ३, ५, ५])। मै ३,४, ४; माश १, ३,५, ४, ५, ४,४, १, १८ (तु. जैउ १,१,१,८)। ९८. ब्रह्मवर्चसं (यज्ञो [माश.J) वै गायत्री । तैसं २, ५, १०, २; माश ४,२,४,२०।। ९९. ब्रह्म वै (हि (तां.1) गायत्री । मै ४, ७, ३; ऐ ४, ११; कौ ३,५; जै १,२६३, २,८९, १३१; तां ११, ११, ९; ऐआ १, १,१; ३। १००. मयूखो वा एष वा धरुणो यद् गायत्री। तस्यां द्वादशाहो धृतो ऽसंव्याथाय (असंसर्पाय जै ३,७])। जै ३,६; ७। १०१. मुखं गायत्री (+छन्दसाम् [जै २, १३.)। जै २, १३; तां ७, ३, ७; १४, ५, २८; १९,११, ४ (तु. कौ ११,२)। १०२. मैत्रावरुणं वृणीते, गायत्रीं तच्छन्दसां वृणीते । काठ २६, ९; क ४१, ७ (तु. मै ३,९, ८)। १०३. यदष्टमे ऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । तैआ ५, १२, २ । १०४. यदेवादस्सोममाहरत् तस्माद् गायत्री यज्ञमुखं, तस्मात्तेजस्वितमा। काठ २३,१०; क ३७,१ । १०५. यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः । माश ३, ४, १, १२ । १०६. यातयामान्यन्यानि छन्दाꣳस्ययातयामा गायत्री । तां १३,१०,१ (तु. जै ३,१५४) । १०७. या द्यौः साऽनुमतिः सो एव गायत्री । ऐ ३,४८।। १०८. यावग्निष्टोमौ तौ पक्षौ येऽन्तरेऽष्टावुक्थ्याः स आत्मैषा वै गायत्री ज्योतिःपक्षा ज्योतिषा भासा सुवर्गं लोकमेति । तैसं ७,२,९,२-३ । १०९. या वै सा गायत्र्यासीदियं वै सा पृथिवी । माश १, ४,१, ३४ । ११०. या हि का च गायत्री सा रेवती । तां १६,५,२७ ।। १११. यो वा अत्राग्निर्गायत्री स निदानेन । माश १,८,२, १५। ११२. यत्प्रजापतिः प्राणयत्तस्मादु प्रजापतिः प्राणो यो वै स प्राण एषा सा गायत्री अथ यत्तदन्नमेष स विष्णुर्देवता । माश ७,५,१, २१ । ११३. यो ह वै गायत्रीं ज्योतिष्पक्षां वेद, ज्योतिष्मता भासा स्वर्गं लोकमेति, या अतिरात्रौ तौ पक्षौ, या अग्निष्टोमौ ते ज्योतिषी, येऽष्टा अन्तर उक्थ्यास्स आत्मैषा गायत्री ज्योतिष्पक्षा। काठ ३४,८। ११४. रेतो वै गायत्र्यै रथन्तरं, योनिर्वै रथन्तरस्य गायत्री । जै ३, २९२ । ११५. वषट्कारोऽभ्यय्य गायत्र्याश् शिरोऽच्छिनत् । काठ १३,८ । ११६. वसवो गायत्री समभरन् । जैउ १,४,४,४ । ११७. वाग्वै गायत्री (+ शताक्षरा मै.])। मै १,४,१३; काठ २३, ५; क ३६,२। । ११८. वीर्यं (+वै [तो.]) गायत्री । जै १,३०९; तां ७.३, १३; माश १,३,५,४, ९,१,१७ । ११९. शिरो गायत्री (गायत्र्यः [माश.]) । मै ३,३,५; माश ८,६,२,३; ष २,३ । १२०. श्येनो वै भूत्वा गायत्र्यमुं लोकमपतत् स्वर्गस्य लोकस्य समष्ट्यै ! मै ३, ४, ७ । १२१. संवत्सरो वै गायत्री । तैसं २,४,३,२; मै २,१,११। १२२. स त्रिवृता स्तोमेन गायत्रीमध्यैत् । ततो वसूनसृजत । जै ३,३६३ । १२३. समिधमातिष्ठ, गायत्री त्वा छन्दसामवतु त्रिवृत्स्तोमो रथन्तरꣳ सामाग्निर्देवता ब्रह्म द्रविणम् । तैसं १,८,१३,१; मै २,६,१० । १२४. स यच्चतुर्जुह्वां गृह्णाति, गायत्र्यै तद् गृह्णाति । माश १,३,२,१६ । १२५. सा गायत्री गाथयाऽपुनीता । जैउ १,१८,२,१। १२६. परिधिपरिधानम्-- स मध्यममेवाग्रे परिधिमुपस्पृशति तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्निं प्रत्यक्षं समिन्धे । सोऽभ्यादधाति । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वर इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे सा गायत्री समिद्धान्यानि छन्दाꣳसि समिन्धे । माश १, ३,४,६ । १२७. सा वै गायत्रीयं (पृथिवी) । माश १,७,२, १५ । सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता - माश १४.८.१५.५ १२८. गायत्रब्रह्मोपासनाब्राह्मणम्-- सा हैषा (गायत्री) गयांस्तत्रे । प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । माश १४,८,१५,७ । १२९. अभूद्वा इयं प्रतिष्ठेति । तद्भूमिरभवत्तामप्रथयत्सा पृथिव्यभवत्सेयं सर्वा कृत्स्ना मन्यमानाऽगायद्यदगायत्तस्मादियं गायत्र्यथो आहुरग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायद्यदगायत्तस्मादग्निर्गायत्र इति। माश ६,१,१,१५ । [त्री- अभि- ४७५, ५८५; अज, जा- २१, २३, ४७, ४८; अनुमति- ९,१४; आग्रयण ८; आग्रायण- २, ५; उत्तरारणि- १; खदिर- ४, ५ द्र.] ।
स शीर्षत एव मुखतस् त्रिवृतं स्तोमम् असृजत गायत्रीं छन्दो
रथन्तरं सामाग्निं देवतां ब्राह्मणं मनुष्यम् अजं पशुम्। तस्माद् ब्राह्मणो
गायत्रीछन्दा आग्नेयो देवतया। तस्माद् उ मुखं प्रजानाम्। मुखाद् ध्य् एनम् असृजत॥
सो ऽकामयत प्रैव जायेयेति। स बाहुभ्याम् एवोरसः पञ्चदशं स्तोमम् असृजत त्रिष्टुभं
छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यम् अश्वं पशुम्। तस्माद् राजन्यस्
त्रिष्टुप्छन्दा ऐन्द्रो देवतया। तस्माद् उ बाहुभ्यां वीर्ये करोति। बाहुभ्यां ह्य्
एनम् उरसो वीर्याद् असृजत॥ सो ऽकामयत प्रैव जायेयेति॥जै
१.६८॥ गायत्री-मात्र- गायत्रीमात्रो वै स्तोमः । कौ १९,८ । संवत्सरे सावित्रीमन्वाह त्रिरात्रेऽन्वक्षं वा १ गायत्रीं ब्राह्मणायानुब्रूयात् २ त्रिष्टुभं क्षत्रियाय ३ जगतीं वैश्याय ४ सावित्रीं त्वेव ५ उत्तरेणाग्निमुपविशतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरः ६ वैश्वामित्रीं गायत्रीं सावित्रीं भो अनुब्रूहि इतीतरः ७ तत्सवितुर्वरेण्यम् इत्येतां सप्रणवां सव्याहृतीं पच्छोऽर्धर्चशोऽनवानम्- कौशीतकिगृह्यसूत्रम् २.३.१ सोम आभिप्लव षडह द्वितीयमहः-- चातुर्विंशिकम् तृतीय सवनम् विश्वो देवस्य नेतुर् इत्य् एका तत् सवितुर् वरेण्यम् इति द्वे आ विश्व देवम् सप्ततिम् इति तु वैश्वदेवस्य प्रतिपद् अनुचरौ । आश्व.श्रौ.सू. ७.६.६ सोम पृष्ठ्य षडह षष्ठम् अहः प्रातःसवनम् -- अभि त्वं देवं सवितारमोण्योरित्येका तत् सवितुर्वरेण्यमिति द्वे आश्व.श्रौ.सू. ८.१.१८ यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ श्वेताश्वतरोपनिषत् ४.१८ ॥ अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गवो भवन्तु नः । स्वः स्वाहा । सर्वां च सावित्रीमन्वाह । सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति । - बृहदारण्यकोपनिषत् ६.३.६
|