पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Gangaa - Goritambharaa) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
गिरा असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयमपश्यंस्तेषां यज्ञायज्ञा वो अग्नय इत्यग्निहोत्रमवृञ्जत गिरागिरा च दक्षस इति दर्शपूर्णमासौ प्रप्र वयममृतं जातवेदसमिति चातुर्मास्यानि प्रियं मित्रं न शंसिषमिति सौम्यमध्वरम्। तां ८, ६, ३ ।। अत्र कथनमस्ति यत् गिरागिरा च दक्षस अयं वाक्यं दर्शपूर्णमासयागस्य सारभूतः अस्ति। गिरा किमस्ति, अस्मिन् संदर्भे स्व. डा. फतहसिंहस्य कथनमस्ति यत् गॄ – विज्ञाने। यदा विज्ञानमयकोशस्य शक्तिः मनोमयादिकोशेषु अवतरति, सा गिरा भवति। डा. गोपालकृष्णभट्टस्य शोधप्रबन्धानुसारेण ऋग्वेदे गीः शब्दः स्वरूपेभिः सहितः ३८०वारः प्रयुक्तः अस्ति। वैदिकनिघण्टुमध्ये गीः शब्दस्य वर्गीकरणं वाङ्नामेषु अस्ति। गिरायाः भरणस्य किमुपयोगं अस्ति। एकः उपयोगः पापानां गिरणमस्ति। अनुमानमस्ति यत् अमावास्यादिवसे यस्य गिरायाः भरणं भवति, तत् पापानां गिरणाय अस्ति। पुराणेषु सार्वत्रिकरूपेण कथनमस्ति यत् अमावास्या मोक्षप्राप्त्याः साधनमस्ति, पूर्णिमा सगुण भक्त्याः प्राप्त्याः। अस्य कथनस्य व्यावहारिकरूपः किं अस्ति। अमावास्यायाः महत्त्वं गयाक्षेत्रे सर्वाधिकं भवति। तत्र देवाः गयासुरस्य देहोपरि यागं कर्तुं इच्छन्ति। किन्तु गयासुरस्य देहः स्थिरं न भवति। यदा विष्णुः गदां धारयित्वा गयासुरस्य देहोपरि स्थितः अभवत्, तदैव तस्य देहः कम्पनरहिता अभवत्। अस्य निहितार्थं अस्ति यत् ये देहस्य सुख-दुःखाः सन्ति, तेभ्यः आत्मा क्षोभग्रस्ता न भवेत्। एषा स्थितिः केन प्रकारेण प्रापणीया अस्ति। उत्तरं अस्ति – यदा विष्णुः गदा गृह्णाति। गदायाः कार्यं हृदयस्य परितः ये नाड्यः सन्ति, येषु प्राणः विश्रामं करोति, तेषां व्यवस्थापनं गदा द्वारा भवति। अथवा, गदा व्याधितः, गदतः मुक्तिं ददाति। पौर्णमास्यादिने यस्य गिरायाः भरणं भवति, तत् अपक्वस्य पक्वने(श्रद्धायाः पक्वने) अस्ति। – युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम्। गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात्॥ १०.१०१.०३ ऋग्वेदे १.१०.३ मध्ये उल्लेखमस्ति – युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा। अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर॥ १.०१०.०३ अस्य मन्त्रस्य विनियोगं दीक्षाकाले अस्ति। अत्र यजमानाय निर्देशमस्ति यत् सः स्वरथे केशिनः हरयोः योजनं करोतु। तदा उपश्रुतिरूपेण गिरायाः प्राकट्यं भविष्यति। दीक्षाकाले केशिना हरी कौ स्तः, न स्पष्टं अस्ति। सोमयागस्य अवसाने (हारियोजनं) अयं स्पष्टं भवति यत् एतौ ऋक् – सामौ स्तः। सिन्धुघाटीपुरातत्वान्वेषस्य परिणामरूपेण तात्कालिकमुद्राणां यः संग्रहः अस्ति, तस्मिन् संग्रहे केषांचित् मुद्राणामुपरि प्रस्तृतहस्तस्य मनुष्यस्य चित्रः अस्ति यः स्वहस्ताभ्यां सिंहयोः नियन्त्रणं करोति। (अयं चित्रः डा. कल्याणरामणस्य लेखतः गृहीतमस्ति) एकासु मुद्रासु पुरुषोपरि चक्रः विद्यमानः अस्ति। अनुमानमस्ति यत् अयं चक्रवर्ती राज्ञः प्रदर्शनमस्ति। वर्तमानकाले अस्य किं निर्वचनं भवितुं शक्यते।
अधोदर्शिते चित्रे अध्वर्युणा स्वहस्ताभ्यां यज्ञपात्रयोः ग्रहणं दर्शितमस्ति। यदि आहुतिपात्रेण कापि आहुतिः अग्नौ प्रदातव्या अस्ति, तर्हि तत्कार्यं एकेनैव हस्तेन न कर्तव्यमस्ति, अपितु हस्ताभ्यां। अनेन प्रकारेण तुलायाः सृजनं भवति (अथर्ववेदः १.७.२ सायणभाष्यम्) । यदि दक्षिणे हस्ते जुहूपात्रमस्ति, वामहस्ते उपभृतपात्रं भविष्यति, इत्यादि।
अपि च, प्रस्तृतहस्तयोः प्रदर्शनं अग्निचयने श्येनस्य प्रस्तृतपक्षाभ्यां दर्शनीयमस्ति-
अयं चित्रः माघशुक्लदशमी, विक्रमसंवत् २०७१ तिथौ गार्गेयपुरम्, कर्नूल मध्ये ज्योतिअप्तोर्यामसोमयागे श्री राजशेखरशर्मणः संग्रहतः प्राप्तमस्ति।
अयं चित्रः माघशुक्लदशमी, विक्रमसंवत् २०७१ तिथौ गार्गेयपुरम्, कर्नूल मध्ये ज्योतिअप्तोर्यामसोमयागे श्री राजशेखरशर्मणः संग्रहतः प्राप्तमस्ति।
सिन्धुघाट्याः मुद्रायां पुरुषस्य पार्श्वे श्वेत-कृष्णौ सिंहौ विद्यमानौ स्तः। सोमयागे अग्निचयने प्रातः-सायंकाले श्वेत-कृष्णौ अश्वौ श्येनचितेः परिक्रमणं कुर्वन्तः। एकः विशिष्ट अवसरः अस्ति यदा एकस्मिन् काले श्वेत-कृष्णौ अश्वौ सकृदेव परिक्रमां कुरुतः। वैदिकवाङ्मये कथनमस्ति यत् यत्किंचित् करणीयमस्ति, तस्य प्रेरणा सवितादेवतातः प्राप्तव्या अस्ति – सवितुः प्रसविताभ्यां अश्विनोर्बाहुभ्यां पूष्णोः हस्ताभ्यां। अत्र सवितादेवतः या प्रेरणा प्राप्तव्या अस्ति, तस्याः संज्ञा गिरा भवितुं शक्यते। किन्तु दक्षिण-सव्य हस्तानामुपरि गिरायाः प्राकट्यं केन प्रकारेण भविष्यति, अयं अन्वेषणीयः। पुराणेषु सार्वत्रिकरूपेण बाहुराज्ञः आख्यानं वर्णितमस्ति। आख्याने कथनमस्ति यत् बाहु राजा प्रजासु असूयां करोति, येन कारणेन तस्य राज्यतः निष्कासनं अभवत्। कालान्तरे बाहुराज्ञः पुत्रः सगरः अभवत् यः गरेण गृहीतः आसीत्। सगरस्य षष्टिसहस्रपुत्राः आसन् ये कपिलमुनेः क्रोधतः भस्माः अभवन्। गंगया तेषां उद्धारमभवत्। अत्र असूया शब्दः संकेतमस्ति यत् सवितादेवतः या सूया अपेक्षिता अस्ति, तत् बाहुराज्ञा न प्राप्ता।
|