पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Gangaa - Goritambharaa)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Gangaa - Gangaa ( words like Grihapati, Grihastha/householder etc. )

Gangaa - Gaja (Gangaa, Gaja/elephant etc.)

Gaja - Gajendra (Gaja, Gaja-Graaha/elephant-crocodile, Gajaanana, Gajaasura, Gajendra, Gana etc.)

Gana - Ganesha (Ganapati, Ganesha etc.)

Ganesha - Gadaa (Ganesha, Gandaki, Gati/velocity, Gada, Gadaa/mace etc. )

Gadaa - Gandhamaali  ( Gadaa, Gandha/scent, Gandhamaadana etc. )

Gandharva - Gandharvavivaaha ( Gandharva )

Gandharvasenaa - Gayaa ( Gabhasti/ray, Gaya, Gayaa etc. )

Gayaakuupa - Garudadhwaja ( Garuda/hawk, Garudadhwaja etc.)

Garudapuraana - Garbha ( Garga, Garta/pit, Gardabha/donkey, Garbha/womb etc.)

Garbha - Gaanabandhu ( Gavaaksha/window, Gaveshana/research, Gavyuuti etc. )

Gaanabandhu - Gaayatri ( Gaandini, Gaandharva, Gaandhaara, Gaayatri etc.)

Gaayana - Giryangushtha ( Gaargya, Gaarhapatya, Gaalava, Giri/mountain etc.)

Girijaa - Gunaakara  ( Geeta/song, Geetaa, Guda, Gudaakesha, Guna/traits, Gunaakara etc.)

Gunaakara - Guhaa ( Gunaadhya, Guru/heavy/teacher, Guha, Guhaa/cave etc. )

Guhaa - Griha ( Guhyaka, Gritsamada, Gridhra/vulture,  Griha/home etc.)

Griha - Goritambharaa ( Grihapati, Grihastha/householder etc.)

 

 

 

 

 

 

 

गाथा/प्रगाथः

ऐतरेयारण्यके २.२.२ अष्टममण्डलस्य विषये यत्किंचित् कथितमस्ति, तत् अयमस्ति - स इदं सर्वमभिप्रागाद्यदिदं किंच स यदिदं सर्वमभिप्रागाद्यदिदं किंच तस्मात्प्रगाथास्तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्, इति । अतएव, अष्टममण्डलस्य रहस्यं प्रगाथे निहितमस्ति। प्रगाथस्य विषये कथनमस्ति यत् - सो ऽस्याऽदिरिति च्छन्दसः प्रगाथेषु (पाणिनी सूत्रं (अष्टाध्यायी ४.२.५५) । ऋग्द्वयप्रग्रथनात्  साम्नः तृचस्य सर्जनं भवति, अयं कथनं उपलभ्यते एवं आद्या ऋचा यस्मिन् छन्दे अस्ति, तस्यानुसारेण प्रगाथस्य नामकरणं भविष्यति स इति समर्थविभक्तिः। अस्य इति प्रत्ययार्थः। आदिः इति प्रकृतिविशेषनम्। इतिकरणो विवक्षार्थः। छन्दसः इति प्रकृतिनिर्देशः। प्रगाथेषु इति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्य ति षष्ट्यार्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर् भवति, यत् तदस्य इति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति, इतिकरणस् ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्कतः प्रगाथः। आनुष्टुभः। जागतः। आदिः इति किम्? अनुष्टुब्ः मध्यम् अस्य प्रगाथस्य। छन्दसः इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेषु इति किम्? पङ्क्तिरादिरस्य अनुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते। (अष्टाध्यायी ४.२.५५])। अयं कथनं संकेतमस्ति यत् प्रगाथः प्रकृति - पुरुषयोः रूपान्तरणं अस्ति।

प्रगाथशब्दोपरि चिन्तनात् पूर्वं गाथा शब्दोपरि चिन्तनः अपेक्षितमस्ति। कथनमस्ति यत् गाथा वाक् अनृतं भवति (मैत्रायणीसंहिता १.११.५, काठकसंहिता १४.५)। पुराणेषु अनृतवाचः प्रतिस्थापनं सत्यवती वाचा भवति, यथा विश्वामित्रस्य भगिनी एवं ऋचीकस्य भार्या सत्यवतीरस्ति। एवमेव, निषादस्य पालिता कन्यायाः कालान्तरे संज्ञा सत्यवती अस्ति। महाभारते वनपर्व ८५.३० कथनमस्ति यत् ऋचा स्वर-छन्दनियमबद्धा भवति किन्तु गाथा स्वरनियमहीना गद्यवत् मुखान्निस्सरति। ऋग्वेदस्य तृतीयमण्डलस्य ऋषिः गाथी विश्वामित्रः अस्ति। पुराणेषु वैश्वामित्री सृष्टिः विकृतियुक्ता कथ्यन्ते। प्रगाथविषये का स्थितिरस्ति, अयं विचारणीयः।

अयं प्रतीयते यत् गाथायां ये दोषाः सन्ति, तेषां अपनयनं प्रगाथे भवति। पुराणेषु सार्वत्रिकरूपेण कथनमस्ति यत् वसिष्ठऋषेः शक्तिसंज्ञकस्य पुत्रस्य भक्षणं राक्षसेन कृतमासीत्।  जैमिनीय ब्राह्मणतः २.३९२ अयं प्रतीयते यत् प्रगाथस्य कार्यं शक्तेः विस्तारं अस्ति। अतएव, यदा ऋग्वेदस्य वसिष्ठऋषेः सप्तममण्डलस्योपरि काण्वप्रगाथस्य अष्टममण्डलस्य प्रतिष्ठा अस्ति, तत् उचितमेव।

संदर्भाः

यो गाथानाराशँसीभ्यां सनोति न तस्य प्रतिगृह्यमनृतेन हि स तत्सनोति मै १.११.५

आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।

पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥१०.१०.२० {३४}

रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।

सूर्याया भद्रमिद्वासो गाथयैति परिष्कृता ॥अ १४.१.७

स बृहतीं दिशमनु व्यचलत्। [१०]

तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद।।[१५.६.११]

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।

इन्द्रवाहा वचोयुजा ॥२०.१००.३

अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।

अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥२०.१०३.१

मध्वाहुतयो ह वा एता देवानाम्। यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं
गाथा नाराशंस्यः स य एवं विद्वाननुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंसीरित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या मधुकुल्याः पितॄन्त्स्वधा अभिवहन्ति ११.५.६.[८]

अयुध्यतेत्यमुं संग्राममजयदिति राजन्यो युद्धं वै राजन्यस्य वीर्यं वीर्येणैवैनं समर्धयति तिस्रोऽन्यो गाथा गायति तिस्रोऽन्यः षट्सम्पद्यन्ते षडृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति - १३.१.५.[६]

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तं ब्राह्मणम् - १३.४.२.[८]

पारिप्लवाख्यानब्राह्मणम् -- अथ सायंधृतिषु हूयमानासु राजन्यो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययुध्यतेत्यमुं संग्राममजयदिति तस्योक्तम्ब्राह्मणम् - १३.४.३.[५]

इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत ऐ ३.१६

मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। - ऐ ३.१९

प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। - ऐ ३.२४

न्द्र क्रतुं न आ भरेत्यैन्द्रम्प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति....... बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुणः ऐ.ब्रा. ४.१०

न्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम् ऐ ४.२९

इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ ४.३०

न्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपं ऐ. ५.१

न्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमेऽहनि नवमस्याह्नो रूपं ५.२०

पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय-मृक्शस्तृतीयं स पच्छो विहरन्प्रगाथे-प्रगाथ एवैकपदां दध्यात्स वाचः कूटस्ता ६.२८

उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपम् ऐ ८.२

प्रगाथम् शंसति
पशवो वै प्रगाथः
पशूनाम् एव आप्त्यै
अथो प्राण अपानौ वै बार्हतः प्रगाथः
प्राण अपानाव् एव तद् आत्मन् धत्ते । कौब्रा. १५.४

आश्विनशस्त्रम्-- अथ यद् बार्हतीनाम् प्रतिपदाम् प्रथमम् प्रथमम् प्रगाथम् पुनर् आदायम् ककुप् कारम् शंसति
पुनर् आदायम् वै सामगाः स्तुवते । - कौ १८.२

इन्द्र त्रि धातु शरणम् इति त्रिवान् प्रगाथः
त्रि धात्व् इति तत् तृतीयस्य अह्नो रूपम् । - कौ २२.४

षष्ठमहः मरुत्वतीयशस्त्रम्, निष्केवल्यशस्त्रम् -- मा चिद् अन्यद् वि शंसत इति साम्नः प्रगाथः । - कौ २३.७

कद्वन्ति मरुत्वतीयानि भवन्ति
कद्वन्तो निष्केवल्येषु प्रगाथाः (सोम स्वरसामन्) कौ २४.४

विषुवत्कालः - मरुत्वतीयशस्त्रम् पृष्ठं महादिवाकीर्त्यं च-- यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः
तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति
यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः
सूर्यवतश् च प्रगाथान् एतस्य एव अह्नो रूपेण ।- कौ २५.४

देवा वै ब्रह्मणश्चान्नस्य च शमलमपाघ्नन् यद्ब्रह्मणः शमलमासीत् सा गाथा
नाराशँस्यभवत् यदन्नस्य सा सुरा  तैब्रा १.३.२.१

 यावन्तः     वै मृत्युबन्धवस् तेषां यम आधिपत्यम् परीयाय     यमगाथाभिः परि गायति..... तस्माद् गायते न देयम् ।     गाथा हि तद् वृङ्क्ते ।  तैसं ५.१.८.१

<उद् उ त्ये मधुमत्तमा गिरः [ऋ. ८.३.१५, शौ.सं. २०.५९.१]>इति बार्हतः प्रगाथः
पशवो वै प्रगाथः। पशवः स्वरः। पशूनाम् आप्त्यै गो २.४.२

अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते गो २.४.४

शक्तिं ह वासिष्ठं सौदासा अग्नौ प्रासुः। स ह प्रास्यमान उवाचेन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेति। एतावद् धैवास्य व्याहृतम् आस। अथ हैनम् अग्नौ प्रासुः। अथ ह वसिष्ठ आजगाम। स होवाच किं मे पुत्रः प्रास्यमानो ऽब्रवीद् इति। तस्मै होचुर् इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेत्य् (ऋ. ७.३२.२६) एतावद् एवास्य व्याहृतम् आसीद्, अथैनम् अग्नौ प्रास्यन्न् इति। स होवाच शिक्षा णो ऽस्मिन् पुरुहूता यामनि जीवा ज्योतिर् अशीमहीति यन् म एतम् उत्तरम् अर्धर्चं पुत्रः प्राप्स्यन् न चैवैनम् अग्नौ प्रासिष्यन्, सर्वम् उ चायुर् अयिष्यत्। यैव कुरुतमा देवतानाम् अभूत् ताम् उपासरत्। ऋध्नवन् ते सत्रिणो ये म एतेन पुत्रस्य प्रगाथेन स्तवान्ता इति। स एष ऋद्धिप्रागुभितः प्रगाथः। - जै २.३९२

यद् यद् वै देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् यद् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एतेमं त्रयं वेदं गाथया संसृजामेति। ते त्रयं वेदं गाथया संयुक्तं न्यास्यन्। तम् असुरा अब्रुवन् - न वा अयम् अभूद् यं गाथया समस्राक्षुः। एतेमं जहामेति। तम् अजहुः। तस्माद् धीनाद् देवा एतं गाथायै रसं प्रावृहन्त। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहन्त, तत् प्रगाथस्य प्रगाथत्वम्। स हैष रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते। अथ ह वा अग्र ऋक् च गाथा च सदृश्याव् एवासतुर्, तान्यान्याम् अति। ते आजिम् ऐताम्। सैतम् ऋग् गाथायै रसं प्रावृहत। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहत, तद् व् एव प्रगाथस्य प्रगाथत्वम्। - जै ३.४१