पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Gangaa - Goritambharaa)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Gangaa - Gangaa ( words like Grihapati, Grihastha/householder etc. )

Gangaa - Gaja (Gangaa, Gaja/elephant etc.)

Gaja - Gajendra (Gaja, Gaja-Graaha/elephant-crocodile, Gajaanana, Gajaasura, Gajendra, Gana etc.)

Gana - Ganesha (Ganapati, Ganesha etc.)

Ganesha - Gadaa (Ganesha, Gandaki, Gati/velocity, Gada, Gadaa/mace etc. )

Gadaa - Gandhamaali  ( Gadaa, Gandha/scent, Gandhamaadana etc. )

Gandharva - Gandharvavivaaha ( Gandharva )

Gandharvasenaa - Gayaa ( Gabhasti/ray, Gaya, Gayaa etc. )

Gayaakuupa - Garudadhwaja ( Garuda/hawk, Garudadhwaja etc.)

Garudapuraana - Garbha ( Garga, Garta/pit, Gardabha/donkey, Garbha/womb etc.)

Garbha - Gaanabandhu ( Gavaaksha/window, Gaveshana/research, Gavyuuti etc. )

Gaanabandhu - Gaayatri ( Gaandini, Gaandharva, Gaandhaara, Gaayatri etc.)

Gaayana - Giryangushtha ( Gaargya, Gaarhapatya, Gaalava, Giri/mountain etc.)

Girijaa - Gunaakara  ( Geeta/song, Geetaa, Guda, Gudaakesha, Guna/traits, Gunaakara etc.)

Gunaakara - Guhaa ( Gunaadhya, Guru/heavy/teacher, Guha, Guhaa/cave etc. )

Guhaa - Griha ( Guhyaka, Gritsamada, Gridhra/vulture,  Griha/home etc.)

Griha - Goritambharaa ( Grihapati, Grihastha/householder etc.)

 

 

 

 

 

 

 

वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥१.६५.४

गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥१.७०.३

क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥
१.९५.४

प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥
१.१०१.१

यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
१.१४८.५

अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥
१.१५२.३

अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
३.२९.२

गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥
४.२७.१

कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान ।
पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥
५.२.२

अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥
५.४५.३

चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥ ऋ०
५.४७.४

गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
सीदन्नृतस्य योनिमा ॥
६.१६.३५

अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः ।
चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥
७.९.३

अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
गर्भे सञ्जायसे पुनः ॥
८.४३.९

प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
मातुर्गर्भे भरामहे ॥
८.८३.८

सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः ।
यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥
९.६८.५

स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥
१०.१.२

मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् ।
स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥
१०.८.२

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
१०.१०.५

बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥
१०.२७.१४

प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः ।
घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥
१०.३०.८

विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।
वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥
१०.४५.६

गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया ।
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥
१०.५३.११

द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् ।
अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥
१०.७३.२

तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥
१०.७९.४

परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।
कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
१०.८२.५
तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥
१०.८२.६

ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥१॥
यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥
१०.१६२.२

आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः ।
घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥
१०.१६८.४

पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
१०.१७७.२

यन् मे गर्भे वसतः पापम् उग्रम् यज् जायमानस्य च किंचिद् अन्यत् ।
जातस्य च यच् चापि च वर्धतो मे तत् पावमानीभिर् अहम् पुनामि । ऋग्वेदः खिल अध्यायः ३

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।
मखस्य शिरोऽसि ॥वासं.
११.५७

प्रजापतिश् चरति गर्भे ऽअन्तर् अजायमानो बहुधा वि जायते ।

तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥३१.१९

एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥
३२.४

चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥
१.११.२

हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥
१.३३.१
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥

एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
 तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥
३.१०.१२

आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥
३.२३.२

आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।
यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥
४.२.६

ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।
वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥
५.१७.७

पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।
शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥
५.२५.१
यथेयं पृथिवी मही भूतानां गर्भमादधे ।
एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।
यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।
वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।
अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥

वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।
योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥
६.१२१.४

दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् ।
अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥
७.४०.१

यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥
८.६.१८

प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥
१०.८.१३

अपानति प्राणति पुरुषो गर्भे अन्तरा ।
यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥
११.६.१४

आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥शौअ
११.७.३

ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥
११.७.७

अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥
१३.१.१६

सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
१३.३.२०

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
१८.१.५ 

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
स मम यः पापस्तद्द्विषते प्र हिण्मः ।
मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥
१९.५७.३

ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
२०.९६.११
यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥

 निरुक्तोपनिषत् १.१० अनुसारेण, यदा गर्भे शुक्रस्य स्थापना भवति, तदा पंचरात्रि पर्यन्तं तस्य संज्ञा बुद्बुदं भवति, सप्तरात्रि पर्यन्तं पेशी, चत्वारिंशत् रात्रि पर्यन्तं अर्बुदं एवं पंचविशति रात्रि पर्यन्तं घनं भवति। 

 

 

गर्भ-

१. अनश्नन्तो गर्भाः प्राणन्ति । कौ २,२ ।

२. उत्तानेव वै योनिर्गर्भ बिभर्त्ति । माश ३,,,२९ ।

३. एष वै गर्भो देवानां य एष (सूर्यः ) तपत्येष हीद सर्वं गृह्णात्येतेनेद सर्वं गृभीतम् । माश १४, , ,

४. गर्भः प्राजापत्यः - तैआ १,१३,३ ।

तद्वा आत्मैवोखा । योनिर्मुञ्जाः शणा जरायूल्बं घृतं गर्भः समित् - माश ६.६.२.१५

५. गर्भाः पञ्चवि‍शः (स्तोमः) । तै ४, , , ; मै २,,

६. गर्भाः पञ्चविश इति दक्षिणतोऽन्नं वै पञ्चविशः । काठ २०, १३ ।

७. गर्भा जायमानाः पर्यावर्तन्ते । जै २, ३८१ ।

८. अभ्य् एव रथन्तरेण क्रन्दति, रेत एव बृहता सिञ्चति, गर्भान् एव वैरूपेण दधाति, जनयत्य् एव वैराजेन, वर्धयत्य् एव शक्वरीभिर्, अन्नाद्यम् एव रेवतीभिः प्रदीयते। । जै ,

९. गर्भान्वो वृञ्जे पाङ्क्तेन छन्दसा । मै ४,,११ ।

१०. गर्भो ( + वै [क ३०, ८ ] ) दीक्षितः । काठ १९, १०, २३, ; क ३५, , माश ३,, ,२८ ।

११. तस्मात्पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते । तां १५, , १६ ।

१२ . तस्य (मनुष्यस्य) वै सम्भविष्यतः प्राणा अग्रे प्रविशन्त्यथ रेतः सिच्यते । जै ,१७

१३. दशमास्या गर्भा योनेश्च्यवन्ते प्रजात्यै । जै ३,२९

१४. दशमे मासि गर्भा हिताः प्रजायन्ते । काठ २८,६ ।

१५. तद् वाचो ऽनुष्टुभो मध्ये निधनं भवति। रेतस्सिक्तिर् एव सा। तत् सहिंकारं भवति। नाभिर् वै हिंकारः। नाभ्यो ह वै धृता गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते, नाभिधृता ह वै गर्भाः । जै ,३०६

१६.  गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्यक्नाङ्गुलय (मुष्टीकरणेन सङ्कुचितांगुलि) इव हि गर्भाः । मा , , ,

१७. पञ्चमे मासि गर्भा विक्रियन्ते । जै १, २६७ ॥

१८. पुरुष उ गर्भः । जैउ ३, , ,३ ।

१९. प्रजा वै पशवो गर्भः । माश १३, , , , तै ३, , , ४ ।

२०. प्रादेशमात्रो वै गर्भो विष्णुः । मा, , , ,  , , १२,  , , , १४ ।

२१. गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भाः उल्बेनेव जरायुणेव । माश , , , १६

२२. यदा वै गर्भः समृद्धो भवति प्रजननेन वै स तर्हि प्रत्यङ्ङेति । माश ४, , , ३ ॥

२३. एजतु दशमास्यो गर्भो जरायुणा सहेति स यदाहैजत्विति प्राणमेवास्मिन्नेतद्दधाति यदा वै गर्भः समृद्धो भवत्यथ दशमास्यः । माश , , ,

२४. यावद्वा जातो गर्भो मातुर्वैव तावत्प्राणमनु प्राणिति । काश १, , , ६ ।

२५. यो वै षण्मास्यो जायते यस्सप्तमास्यः प्र वै स मीयते । काठ ३३, ८ ।

२६. वायव्या गर्भाः । तै ३, , १७, ५ ।

२७. यस्यै ते यज्ञियो गर्भ इति । अयज्ञिया वै गर्भास्तमेतद्ब्रह्मणैव यजुषा यज्ञियं करोति...विषुरूपा इव हि गर्भाः । माश , , , १२

स योऽसंवत्सरभृतं चिनुत एतानि ह स सर्वाणि भूतानि गर्भं भूतं निर्हते यो न्वेव मानुषं गर्भं निर्हन्ति माश , , ,

२८. षण्मास्या वा अन्तमा गर्भा जाता जीवन्ति । माश , , , ६३

२९. संवत्सरे वृद्धा गर्भाः प्रजायन्ते । मै १, , १२ ।

३०. योनिश्चतुर्विंश इति ।...संवत्सरो वाव योनिश्चतुर्विंशस्तस्य ...संवत्सरो वाव गर्भाः पञ्चविशस्तस्य चतुर्विशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चवि शस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वऽर्तून्प्रविशति । माश , , , १९ ॥ [र्भ - अन्न - १९; आयु - ३; इन्द्रिय- १; उल्ब - ५द्र . ] ।