पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Gangaa - Goritambharaa)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Gangaa - Gangaa ( words like Grihapati, Grihastha/householder etc. )

Gangaa - Gaja (Gangaa, Gaja/elephant etc.)

Gaja - Gajendra (Gaja, Gaja-Graaha/elephant-crocodile, Gajaanana, Gajaasura, Gajendra, Gana etc.)

Gana - Ganesha (Ganapati, Ganesha etc.)

Ganesha - Gadaa (Ganesha, Gandaki, Gati/velocity, Gada, Gadaa/mace etc. )

Gadaa - Gandhamaali  ( Gadaa, Gandha/scent, Gandhamaadana etc. )

Gandharva - Gandharvavivaaha ( Gandharva )

Gandharvasenaa - Gayaa ( Gabhasti/ray, Gaya, Gayaa etc. )

Gayaakuupa - Garudadhwaja ( Garuda/hawk, Garudadhwaja etc.)

Garudapuraana - Garbha ( Garga, Garta/pit, Gardabha/donkey, Garbha/womb etc.)

Garbha - Gaanabandhu ( Gavaaksha/window, Gaveshana/research, Gavyuuti etc. )

Gaanabandhu - Gaayatri ( Gaandini, Gaandharva, Gaandhaara, Gaayatri etc.)

Gaayana - Giryangushtha ( Gaargya, Gaarhapatya, Gaalava, Giri/mountain etc.)

Girijaa - Gunaakara  ( Geeta/song, Geetaa, Guda, Gudaakesha, Guna/traits, Gunaakara etc.)

Gunaakara - Guhaa ( Gunaadhya, Guru/heavy/teacher, Guha, Guhaa/cave etc. )

Guhaa - Griha ( Guhyaka, Gritsamada, Gridhra/vulture,  Griha/home etc.)

Griha - Goritambharaa ( Grihapati, Grihastha/householder etc.)

 

 

 

 

 

 

 

 

अथ गंगामंत्रप्रयोगः ।। मंत्रमहोदधौ मंत्रो यथा-ॐ नमः शिवायै नारायण्यै दशहरायै गंगायै स्वाहा ।। इति विंशत्यक्षरो मंत्रः ।। अस्य विधानम्-अस्य मंत्रस्य वेदव्यास ऋषिः। कृतिश्छंदः । गंगा देवता । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।। ॐ वेदव्यासऋषये नमः शिरसि १ । कृतिच्छंदसे नमो मुखे २ । गंगादेवतायै नमो हृदि ३ । विनियोगाय नमः सर्वाङ्गे ४ ।। इति ऋष्यादिन्यासः ।। ॐ नमः अंगुष्ठाभ्यां नमः १ । शिवायै तर्जनीभ्यां नमः २ । नारायण्यै मध्यमाभ्यां नमः ३ । दशहरायै अनामिकाभ्यां नमः ४ । गंगायै कनिष्ठिकाभ्यां नमः ५ । स्वाहा करतलकरपृष्ठाभ्यां नमः ६ ।। इति करन्यासः ।। ॐ नमो हृदयाय नमः १ । शिवायै शिरसे स्वाहा २ । नारायण्यै शिखायै वषट् ३ । दशहरायै कवचाय हुम् ४ । गंगायै नेत्रत्रयाय वौषट् ५ । स्वाहा अस्त्राय फट् ६ ।। इति हृदयादिषडंगन्यासः ।। इति न्यासं कृत्वा ध्यायेत् ।। अथ ध्यानम्-उत्फुल्लामलपुंडरीकरुचिरा कृष्णेशविंध्यात्मिका कुंभेष्टाभयतोयजानि दधती श्वेतांबरालंकृता ।। हृष्टास्या शशिशेखराऽखिलनदीशोणादिभिः सेविता ध्येया पापविनाशिनी मकरगा भागीरथी साधकैः ।। १ ।। इति ध्यात्वा मानसोपचारैः पूजयेत् ।। ततः पीठादौ रचिते सर्वतोभद्रमंडले मंडूकादिपरतत्त्वांतपीठदेवताः संस्थाप्य ' ॐ मं मंडूकादिपरतत्त्वांतपीठदेवताभ्यो नमः' इति पीठदेवताः संपूज्य नव पीठशक्तीः पूजयेत् ।। तद्यथा-पूर्वादिक्रमेण ॐ जयायै नमः १ । ॐ विजयायै नमः २ । ॐ अजितायै नमः ३ । ॐ अपराजितायै नमः ४ । ॐ नित्यायै नमः ५ । ॐ विलासिन्यै नमः ६ ।ॐ दोग्ध्र्यै नमः ७ । ॐ अघोरायै नमः ८ । मध्ये ॐ मंगलायै नमः ९।। इति पूजयेत् ।। ततः स्वर्णादिनिर्मितं यंत्रं मूर्ति  वा ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारा जलधारां च दत्त्वा स्वच्छवस्त्रेण प्रोञ्छ्य ॐ गंगायै पुष्पासनायै नमः' इति पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनर्ध्यात्वा मूलेन मूर्तिं प्रकल्प्य आवाहनादिपुष्पांतैरुपचारैः संपूज्य देव्याज्ञया आवरणपूजां कुर्यात् ।। तद्यथा पुष्पांजलिमादाय - ॐ संविन्मये परे देवि परामृतरसप्रिये ।। अनुज्ञां देहि गंगे त्वं परिवारार्चनाय मे ।। १ ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इत्याज्ञां गृहीत्वा आवरणपूजामारभेत ।। तद्यथा--षट्कोणकेसरेषु आग्नेयादिचतुर्दिक्षु मध्ये दिक्षु च  ॐ नमः हृदयाय

 

 

 

 नमः1 । हृदयश्रीपादुकां पूजयामि तर्पयामि नमः १ ।। इति सर्वत्र ।। ॐ शिवाय शिरसे स्वाहा2 । शिरःश्रीपादुकां पूजयामि तर्पयामि नमः २ । ॐ नारायण्यै शिखायै वषट्3 । शिखाश्रीपादुकां पूजयामि तर्पयामि नमः ३ । ॐ दशहरायै कवचाय4 हुम् । कवचश्रीपादुकां पूजयामि तर्पयामि नमः ४ । ॐ गंगायै नेत्रत्रयाय वौषट्5 । नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः ५ । ॐ स्वाहा अस्त्राय फट्6 । अस्त्रश्रीपादुकां पूजयामि तर्पयामि नमः ६ ।। इति षडंगानि पूजयेत् ।। ततः पुष्पांजलिमादाय ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।। भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।। १ ।। इति पठित्वा पुष्पांजलिं च दत्त्वा पूजितास्तर्पिताः संतु इति वदेत् ।। इति प्रथमावरणम् ।। १ ।। ततोऽष्टदले पूज्यपूजकयोरंतरालं प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य प्राचीक्रमेण1 ॐ रुद्राय नमः7 । रुद्रश्रीपादुकां पूजयामि तर्पयामि नमः १ । ॐ विष्णवे नमः8 । विष्णुश्रीपादुकां पूजयामि तर्पयामि नमः २ । ॐ ब्रह्मणे नमः9 । ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः ३ । ॐ सूर्याय नमः10 । सूर्यश्रीपादुकां पूजयामि तर्पयामि नमः ४ । ॐ हिमाचलाय नमः11 । हिमाचलश्रीपादुकां पूजयामि तर्पयामि नमः ५ । ॐ मैनाकाय नमः12 । मैनाकश्रीपादुकां पूजयामि तर्पयामि नमः ६ । ॐ भगीरथाय नमः13 ।। भगीरथश्रीपादुकां पूजयामि तर्पयामि नमः ७ । ॐ उमापतये नमः14 । उमापतिश्रीपादुकां पूजयामि तर्पयामि नमः ८ ।। इत्यष्टौ पूजयित्वा पुष्पांजलिं दद्यात् ।। इति द्वितीयावरणम् ।। २ ।। ततोऽष्टदलाग्रेषु रुद्रादिसमीपे ॐ मीनाय नमः15 १ । ॐ कूर्माय नमः16 २ । ॐ मंडूकाय नमः17 ३ । ॐ मकराय नमः18 ४ । ॐ हंसाय नमः19 ५ । ॐ चक्रवाकाय नमः20 ६ । ॐ बकाय नमः21 ७ । ॐ सारसाय नमः22 ८ ।। इत्यष्टौ पूजयित्वा पुष्पांजलिं दद्यात् ।। इति तृतीयावरणम् ।। ३ ।। ततो भूपुरे पूर्वादिक्रमेण इन्द्रादि दश दिक्पालान्(23-32) वज्राद्यायुधानि(33-42) च संपूज्य पुष्पांजलिं दद्यात् ।। इत्यावरणपूजां कृत्वा धूपादिनमस्कारांतं संपूज्य जपं कुर्यात् ।। अस्य पुरश्चरणं लक्षजपः । तिलाज्येन दशांशतो होमः । एवं कृते मत्रः सिद्धो भवति ।। सिद्धे मंत्रे मंत्री प्रयोगान् साधयेत् । तथा च- लक्षं जपेद्दशांशेन जुहुयात्सघृतैस्तिलैः । एवं संसाधितो मंत्रोऽभीष्टं यच्छति मंत्रिणाम् ।। १ । ज्येष्ठशुक्ल दशम्यां तां विशेषेण भजेद्बुधः ।। दद्याद्दशभ्यो विप्रेभ्यो दशप्रस्थमितांस्तिलान् ।। २ ।। जप्त्वा सहस्रं हुत्वा चोपोष्य तत्र विकल्मषः ।। सर्वभोगसमायुक्तो जायते मानवो भुवि ।।३।। इति विंशत्यक्षरगंगामंत्रप्रयोगः ।। मंत्रभेदो यथा मंत्रमहोदधौ - ॐ नमो भगवति ऐं हिलिहिलि मिलिमिलि गंगे मां पावय पावय स्वाहा ।। इति सप्तविंशत्यक्षरो मत्रः ।। ॐ नमो हृदयाय नमः १ । भगवति शिरसे स्वाहा २ । ऐं हिलि २ मिलि २ । शिखायै वषट् ३ । गंगे मां पावय २ कवचाय हुम् ४ । स्वाहा अस्त्राय फट् ५ । इति पंचांगेषु न्यसेत् ।। १ ।। अन्यः-ऐं हिलि २ मिलि २ गंगे मां पावय २ स्वाहा ।। इति विंशत्यक्षरो मंत्रः ।। ऐं हिलि २ हृदयाय नमः १ । मिलि २ शिरसे स्वाहा २ गंगे मां शिखायै वषट् ३ । पावय कवचाय हुम् ४ । पावय नेत्रत्रयाय वौषट् ५ । स्वाहा अस्त्राय फट् ६ ।। इति षडंगेषु न्यसेत् ।। २ ।। अन्यः- हिलि २ मिलि २ गंगे देवि नमः ।। इति पञ्चदशाक्षरो मंत्रः ।। ॐ हिलि हृदयाय नमः १ । ॐ हिलि शिरसे स्वाहा २ । ॐ मिलि २ शिखायै वषट् ३ । ॐ गंगे कवचाय हुम् ४ । ॐ देवि नेत्रत्रयाय वौषट् ५ । ॐ नमः अस्त्राय फट् ६ ।। इति न्यसेत् ।। । अन्यः- ॐ ह्रीं श्रीं नमो भगवति गंगे दयिते नमो हुंफट्।। इत्यष्टादशाक्षरो मंत्रः।। ॐ ह्रीं श्रीं हृदयाय नमः १ । नमः शिरसे स्वाहा २। भगवति शिखायै वषट् ३ । गंगे दयिते कवचाय हुम् ४ । नमो नेत्रत्रयाय वौषट्

 ५ । हुंफट् अस्त्राय फट् ६ ।। इति न्यसेत् ।। ४ ।। ध्यानपूजादिकं सर्वं पूर्ववत् ।। 'एषां चतुर्णां मंत्राणामुपास्तिः पूर्ववन्मतां इति वचनात् ।। इति गंगामंत्रप्रयोगः ।। । (मंत्र महार्णव से साभार)

प्रयजेत्केसरेष्वंगं दले रुद्रं हरिं विधिम्।। सूर्यं हिमाचलं मेनां भगीरथमपां पतिम्।। दलाग्रतो मीनकूर्ममंडूकान्मकरानपि। हंसान् कारंडवांश्चक्रवाकान् सारसकान् यजेत्।।