पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Gangaa - Goritambharaa)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Gangaa - Gangaa ( words like Grihapati, Grihastha/householder etc. )

Gangaa - Gaja (Gangaa, Gaja/elephant etc.)

Gaja - Gajendra (Gaja, Gaja-Graaha/elephant-crocodile, Gajaanana, Gajaasura, Gajendra, Gana etc.)

Gana - Ganesha (Ganapati, Ganesha etc.)

Ganesha - Gadaa (Ganesha, Gandaki, Gati/velocity, Gada, Gadaa/mace etc. )

Gadaa - Gandhamaali  ( Gadaa, Gandha/scent, Gandhamaadana etc. )

Gandharva - Gandharvavivaaha ( Gandharva )

Gandharvasenaa - Gayaa ( Gabhasti/ray, Gaya, Gayaa etc. )

Gayaakuupa - Garudadhwaja ( Garuda/hawk, Garudadhwaja etc.)

Garudapuraana - Garbha ( Garga, Garta/pit, Gardabha/donkey, Garbha/womb etc.)

Garbha - Gaanabandhu ( Gavaaksha/window, Gaveshana/research, Gavyuuti etc. )

Gaanabandhu - Gaayatri ( Gaandini, Gaandharva, Gaandhaara, Gaayatri etc.)

Gaayana - Giryangushtha ( Gaargya, Gaarhapatya, Gaalava, Giri/mountain etc.)

Girijaa - Gunaakara  ( Geeta/song, Geetaa, Guda, Gudaakesha, Guna/traits, Gunaakara etc.)

Gunaakara - Guhaa ( Gunaadhya, Guru/heavy/teacher, Guha, Guhaa/cave etc. )

Guhaa - Griha ( Guhyaka, Gritsamada, Gridhra/vulture,  Griha/home etc.)

Griha - Goritambharaa ( Grihapati, Grihastha/householder etc.)

 

 

 

 

 

 

 

शब्दकल्पद्रुमे गण असुरस्य उत्पत्याः आख्यानं एवंप्रकारेण लिखितमस्ति - दैत्यविशेषः । स तु अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः । यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये ।

अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ ।

पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥

तृषिता सा गुणवती पपौ चाञ्जलिना जलम् ।

यद्वीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥

भार्य्यागुणवती तस्य नवमासादनन्तरम् ।

पुत्त्रं प्रसूताह्नि शुभे दिव्यरूपं गुणाद्भुतम् ॥

ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता ।

कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥

स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् । कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेशमाराधयामास । अथ प्रसन्नेन गणपतिना तद्गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥  

अस्मिन् आख्याने अभिजित् नामाख्यासुरस्य भार्या गुणवती अस्ति। सा गुणवती गणं पुत्रं जनयति। अभिजितस्य किं अर्थं कर्तुं शक्नुमः। अभिजित् अर्थात् यः स्वप्रयत्नैः प्रकृतिं जेतुं प्रयत्नशीलः अस्ति। अयं प्रकृतिः गुणवती अस्ति, किन्तु तेषां गुणानां सम्यक् दर्शनं कठिनमस्ति। अभिधानराजेन्द्रकोषे कथनमस्ति अनुत्तरज्ञानदर्शनादिगुणानां गणं धारयन्तीति गणधराः। शतपथ ब्राह्मणस्य कथनमस्ति - सर्वगणम् इति । अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। ॥१२.८.१.२२

ऋग्वेदे .०५३.११ कथनमस्ति - शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः। अनु क्रामेम धीतिभिः॥ गणस्य निर्माणं सकृदेव संभवं नास्ति। प्रथमतः शर्धस्य निर्माणं भवति। शर्धः किं भवति। डा. फतहसिंहः कथयति यत् शर्धः जनसंकुलः, समूहः (भीड इति लौकिकभाषायां) अस्ति। अस्य कथनस्य पुष्टिः संस्कृत-आङ्ग्लभाषाकोशेषु शर्धशब्दस्य मल्टीट्यूड(multitude) अर्थतः भवति। शर्धतः अग्रिमा अवस्था व्रातः अस्ति। तैत्तिरीयसंहिता १.८.१०.२याः कथनमस्ति - छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन् ..इति। यः ब्रह्मचर्यादिव्रतधारणे समर्थः अस्ति, सः मित्रदेवस्य व्रती अस्ति। यः व्रतधारणे असमर्थः अस्ति, सः वरुणस्य व्रातधर्मस्य पालनं करोति।

गणधरस्थित्याः आकलनं ऋग्वेदे ४.५०.५ एवंप्रकारेण कृतमस्ति - स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण । गणेन वलस्थित्याः, वालस्थित्याः, ऊर्जायाः विरलस्थित्याः भेदनं संभवमस्ति। रुद्राष्टाध्याय्याः आरम्भः एवंप्रकारेण भवति ऊँ गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे इति(वा.सं. २३.१९)। यदा अनुत्तरज्ञानदर्शनाद्युपरि आधिपत्यः भवति, तदोपरि गाणपत्यस्य आवश्यकता भवति। योगशिखोपनिषदादिषु १.११९ कथनमस्ति - वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥ सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव । ये गणाः सन्ति, तेषां सूत्रे मणिगणानां इव ग्रथनस्य आवश्यकता भवति। अस्य सूत्रस्य लब्धिः केन प्रकारेण भवेत्। अश्वमेधे राजमहिषी मृतअश्वतः वीर्यस्य ग्रहणाय ऊँ गणानां त्वा गणपतिं हवामहे इति मन्त्रं उच्चारयति। अश्वमेधस्य यः संज्ञपितः अश्वः भवति, तत् विश्वोपरि जयानन्तरं भवति। अयमुल्लेखनीयमस्ति यत् ओंकारस्य निर्माणं अ, उ, म अक्षराभ्यां भवति। अ अक्षरः ऊर्जायाः आदानेन सम्बद्धः अस्ति, उ ऊर्जायाः सम्यक् उपयोगतः एवं म विरलीभूतायाः ऊर्जायाः घनीकरणतः। घनीकरणस्य कार्यं रुद्रस्य अस्ति।

संदर्भाः 

गणः गण्यते गणयति वा कर्म्मण्यप्। कर्त्तरि अच् वा। - शब्दकल्पद्रुम

इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
आदित्यान्मारुतं गणम् ॥
१.१४.३

वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम्।

अस्मे वृद्धा असन्निह॥ .०३८.१५

घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥
१.६४.१२

 

स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः।

असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः॥ .०८७.०४

हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम्।

ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति॥ .११६.०८

ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
१.११७.३

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
२.२३.१

व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे।

पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः॥ .०२६.०६

गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥
३.३२.२

ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः।

माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र॥ .०३२.०३

व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत।

अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः॥ .०३५.०३

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
४.५०.५

सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा।

उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः॥ .०४४.१२

स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः।

बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः॥ .०५१.१२

य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः।

तमृषे मारुतं गणं नमस्या रमया गिरा॥ .०५२.१३

अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा।

दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत॥ .०५२.१४

तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम्।

अनु प्र यन्ति वृष्टयः॥ .०५३.१०

शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः।

अनु क्रामेम धीतिभिः॥ .०५३.११

अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः।

विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि॥ .०५६.०१

तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम्।

य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः॥ .०५८.०१

त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम्।

मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन्॥ .०५८.०२

यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥
५.७९.५  

इमं च नो गवेषणं सातये सीषधो गणम् ।
आरात्पूषन्नसि श्रुतः ॥  
६.५६.५

अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥
७.९.५

अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् ।
अध श्वित्नेषु विंशतिं शता ॥
८.४६.३१

त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे।

अस्य सोमस्य पीतये॥ .०९४.१२

आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम्।

अत्यो न गोभिरज्यते॥ .०३२.०३

यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥
१०.३४.१२

उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम्।

रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे॥ १०.०३६.०७

नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्।

न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च॥ ऋ. १०.११२.०९

त्रायन्तामिह देवास्त्रायतां मरुतां गणः।

त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥ १०.१३७.०५

 

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥शौअ २०.८८.५

अ ६.११८.१

स ऐक्षत प्रजापतिः । परा मे पूर्वाः प्रजा अभूवन्निमा उ चेदिमे विमथ्नते न ततः किं चन परिशेक्ष्यत इति तेभ्य एतं भागमकल्पयदेतं मारुतं सप्तकपालं पुरोडाशं स एष मारुतः सप्तकपालस्तद्यत्सप्तकपालो भवति सप्त सप्त हि मारुतो गणस्तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति - २.५.१.[१३]

अथ निग्राभ्या आहरति । तास्वेनं वाचयति निग्राभ्या स्थ देवश्रुतस्तर्पयत मा मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति रसो वा आपस्तास्वेवैतामाशिषमाशास्ते सर्वं च म आत्मानं तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति स य एष उपांशुसवनः स विवस्वानादित्यो निदानेन सोऽस्यैष व्यानः - ३.९.४.[७]

मरुतामोजसे स्वाहेति । स यदेव मारुतं रथस्य तदेवैतेन प्रीणाति चत्वारोऽश्वा रथः पञ्चमो द्वौ सव्यष्टृसारथी ते सप्त सप्तसप्त व मारुतो गणः सर्वमेवैतेन रथं प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते - ५.४.३.[१७]

सोऽश्वमुत्क्रमयति । प्रतूर्वन्नेह्यवक्रामन्नशस्तीरिति पाप्मा वा अशस्तिस्त्वरमाण एह्यवक्रामन्पाप्मानमित्येतद्रुद्रस्य गाणपत्यं मयोभूरेहीति रौद्रा वै पशवो या ते देवता तस्यै गाणपत्यं मयोभूरेहीत्येतत्तदेनमश्वेनान्विच्छति - ६.३.२.[७]

स यः स वैश्वानरो ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते ते सप्त सप्तकपाला भवन्ति सप्तसप्त हि मारुता गणाः - ९.३.१.[२५]

तानि वा एतानि सप्त च्छन्दांसि चतुरुत्तराण्यन्योऽन्यस्मिन्प्रतिष्ठितानि सप्तेमे पुरुषे प्राणा अन्योऽन्यस्मिन्प्रतिष्ठितास्तद्यावन्तमेवंविच्छन्दसां गणमन्वाह च्छन्दसश्छन्दसो हैवास्य सोऽनूक्तो भवति स्तुतो वा शस्तो वोपहितो वा - १०.३.१.[९]

स भक्षयति। इदं हविः प्रजननं मे अस्तु इति। प्रजननं हि। यदि पयो यदि सोमः। दशवीरम् इति । प्राणा वै दश वीराः। प्राणानेवात्मन्धत्ते। सर्वगणम् इति । अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। स्वस्तय आत्मसनि इति। आत्मानमेव सनोति। ॥१२.८.१.२२

गणानां त्वा गणपतिं हवामह इति पत्न्यः परियन्त्यपह्नुवत एवास्मा एतदतो न्येवास्मै ह्नुवतेऽथो धुवत एवैनं त्रिः परियन्ति त्रयो वा इमे लोका एभिरेवैनं लोकैर्धुवते त्रिः पुनः परियन्ति षट्सम्पद्यन्ते षड्वा ऋतव ऋतुभिरेवैनं धुवते - १३.२.८.[४]

स नैव व्यभवत्। स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति - १४.४.२.[२४]

पर्यंकविद्याब्राह्मणम् - स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते - १४.५.१.[१०]

षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः. तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥जै.ब्रा. १.४२

किं षष्ठम् इति। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो ऽभूद् इति। ओम् इति होवाच। ममैवैते लोका अभूवन्न् इति। ते केनाभिजय्या इति एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति। स होवाच न वै किलान्यत्राग्निहोत्राल् लोकजित्या अवकाशोऽस्ति। जै.ब्रा. १.४४

तस्य आहुर् दविद्युतत्या रुचेत्य् एव प्रतिपदं कार्याम्। एषा वै गणिनी प्रतिपद् बहुरूपा। गणा इव वै तं सचन्ते य श्रियम् अश्नुत इति। तद् उ वा आहुः पवस्व वाचो अग्रिय, उपास्मै गायता नर इत्य् एते एव प्रतिपदौ कार्ये। एते वाव गणिन्यौ प्रतिपदौ बहुरूपे। - जै.ब्रा. २.१०३

शुम्भन्ति विप्रं मरुतो गणेनेति मरुत्वतीर् भवन्ति। जै.ब्रा. ३.२०५

दैत्यविशेषः । स तु अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः ।

यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये ।

अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ ।

पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥

तृषिता सा गुणवती पपौ चाञ्जलिना जलम् ।

यद्वीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥

भार्य्यागुणवती तस्य नवमासादनन्तरम् ।

पुत्त्रं प्रसूताह्नि शुभे दिव्यरूपं गुणाद्भुतम् ॥

ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता ।

कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥

स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् ।     कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेशमाराधयामास । अथ प्रसन्नेन गणपतिना तद्गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा    कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥ - शब्दकल्पद्रुम

द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति ।- अथर्वशिरउपनिषत्

हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥ अन्नपूर्णोपनिषत् ८॥

उच्चैःपदाय परया प्रज्ञया वासनागणात् । महोपनिषत्

वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः ॥ ११८॥ सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव ।

अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविश्य। गणानां त्वा गणपतिं हवामह इत्यभिमन्त्र्याहं स्यां त्वं स्याः सुरायाः कुलजः .. आप.श्रौ.सू. २०.१८.१