PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(From vowel i to Udara)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

I - Indu ( words like Ikshu/sugarcane, Ikshwaaku, Idaa, Indiraa, Indu etc.)

Indra - Indra ( Indra)

Indrakeela - Indradhwaja ( words like Indra, Indrajaala, Indrajit, Indradyumna, Indradhanusha/rainbow, Indradhwaja etc.)

Indradhwaja - Indriya (Indradhwaja, Indraprastha, Indrasena, Indraagni, Indraani, Indriya etc. )

Indriya - Isha  (Indriya/senses, Iraa, Iraavati, Ila, Ilaa, Ilvala etc.)

Isha - Ishu (Isha, Isheekaa, Ishu/arrow etc.)

Ishu - Eeshaana (Ishtakaa/brick, Ishtaapuurta, Eesha, Eeshaana etc. )

Eeshaana - Ugra ( Eeshaana, Eeshwara, U, Uktha, Ukhaa , Ugra etc. )

Ugra - Uchchhishta  (Ugra, Ugrashravaa, Ugrasena, Uchchaihshrava, Uchchhista etc. )

Uchchhishta - Utkala (Uchchhishta/left-over, Ujjayini, Utathya, Utkacha, Utkala etc.)

Utkala - Uttara (Utkala, Uttanka, Uttama, Uttara etc.)

Uttara - Utthaana (Uttara, Uttarakuru, Uttaraayana, Uttaana, Uttaanapaada, Utthaana etc.)

Utthaana - Utpaata (Utthaana/stand-up, Utpala/lotus, Utpaata etc.)

Utpaata - Udaya ( Utsava/festival, Udaka/fluid, Udaya/rise etc.)

Udaya - Udara (Udaya/rise, Udayana, Udayasingha, Udara/stomach etc.)

 

 

 

उदयन

जैमिनीयब्राह्मणे ३.३८६ प्रथमतः द्वादशमासानां उल्लेखमस्ति, तदुपरि प्रायणीयसंज्ञकस्य त्रयोदशस्य मासस्य एवं तदुपरि उदयनीयसंज्ञकस्य चतुर्दशस्य मासस्य। चतुर्दशेन मासेन संवत्सरस्य पूर्णता भवति। यदि प्रायणीयः त्रयोदशः मासः अस्ति, तदा त्रयोदशे, पुरुषोत्तमे मासे, पुरुषोत्तमे क्षेत्रे कानि कृत्यानि संपाद्यन्ते, अयं ध्यातव्यमस्ति (द्र. पुरुषोत्तमोपरि विस्तृत टिप्पणी)। पुराणकथानुसारेण, इन्द्रद्युम्नः पुरुषोत्तमक्षेत्रे गत्वा भगवतः दर्शनाय अश्वमेधयागस्य अनुष्ठानं करोति। यागस्य अन्ते एकस्य वृक्षस्य आविर्भावं भवति। तदनन्तरं विश्वकर्मा तस्य वृक्षस्य स्कन्धस्य तक्षणं करोति एवं अनेन प्रकारेण वासुदेव, संकर्षण, अनिरुद्ध एवं सुभद्राणां मूर्तयः आविर्भवन्ति। शतपथब्राह्मणे ९.५.१.४४ कथनमस्ति यत् प्रायणीयः सावित्रः अस्ति, उदयनीयः वैश्वकर्मणः। परोक्षरूपेण अयं संकेतमस्ति यत् सावित्रकृत्याः मेधतः, अश्वमेधतः संबद्धाः सन्ति, वैश्वकर्मणः उदयनीयतः। पुराणेषु सतीसावित्र्याः आख्यानं अश्वेन सह एव सम्बद्धः अस्ति।  ऋग्वेदे ८.६.१० कथनमस्ति –

अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं सूर्य इवाजनि ॥१०॥

अयं संकेतमस्ति यत् प्रथमतः पितृशक्तिभ्यः मेधायाः संपादनं अपेक्षितं अस्ति। तदनन्तरं अयं मेधा सूर्यस्य रूपं धारयिष्यति। (उषा वा अश्वस्य मेध्यस्य शिरः – शतपथ १०.६.४.१)। तदनन्तरं उदयनीयरूपेण चन्द्रमसः, उदानप्राणस्य आविर्भावं भविष्यति।

     पुराणेषु अष्टवसुषु मध्ये यः सप्तमः वसुः अस्ति, तस्य संज्ञा प्रत्यूषः(प्रति-उषः) अस्ति। तस्य पुत्रः देवलः, प्रत्यक्षरूपेण दैवलः अस्ति। अष्टमः वसुः प्रभासः अस्ति यस्य पुत्रः विश्वकर्मा अस्ति। अयं प्रतीयते यत् प्रायणीये ये सावित्रकृत्यानि कथितानि सन्ति, ते सर्वे दैवलाः, दैवस्य शान्तिकराः सन्ति। तदोपरि पुरुषार्थरूपेण विश्वकर्मणः आविर्भावं भवति। संगीतशास्त्रे दैवतसंज्ञा धैवतस्वररूपे प्रकटयति।

 

टिप्पणी : वैदिक साहित्य में अग्निष्टोम , द्वादशाह आदि यज्ञों के प्रारम्भ में प्रायणीय इष्टि और अन्त में उदयनीय इष्टि का सम्पादन किया जाता है । उदयनीय इष्टि अवभृथ स्नान के पश्चात् होती है । ऐसा प्रतीत होता है कि वत्सराज उदयन की कथा का मूल स्रोत यह उदयनीय इष्टि है और यह कथा उदयनीय इष्टि के अन्तर - रहस्यों को समझने में उपयोगी सिद्ध होगी । ब्राह्मण ग्रन्थों में सार्वत्रिक रूप से उल्लेख आता है ( शतपथ ब्राह्मण ३.२.३.६, ४.५.१.२ ) कि प्रायणीय इष्टि की देवता भी अदिति है और उदयनीय इष्टि की भी । इससे उदयन की कथा को समझने में कोई सहायता नहीं मिलती । जैमिनीय ब्राह्मण ३.३०९ का कथन है कि अग्नि प्रायण है , आदित्य उदयन है । यह कथन उदयन के पितामह शतानीक व पिता सहस्रानीक को समझने की कुञ्जी प्रदान करता है । सूर्य उदय से पूर्व अनीकवती ( रश्मि युक्त ) अग्नि की उपस्थिति होती है ( अथर्ववेद १३.२.३५ , तैत्तिरीय ब्राह्मण १.६.६.२ , शतपथ ब्राह्मण ७.५.२.२७ ) । कथासरित्सागर की कथा के अनुसार शतानीक की असुरों से लडते समय मृत्यु हो जाती है । इससे निष्कर्ष निकलता है कि अग्नि अनीकवती इतनी बलवान नहीं है कि असुरों से जीत सके ।

          उदयन द्वारा घोषवती वीणा प्राप्त करने के संदर्भ में , शतपथ ब्राह्मण ३.२.३.८ आदि में उदयनीय इष्टि के अन्तर्गत विभिन्न दिशाओं में पांच देवताओं के यजन का उल्लेख आता है । सर्वप्रथम उत्तर दिशा में पथ्या स्वस्ति , फिर पूर्व दिशा में अग्नि , फिर दक्षिण दिशा में सोम और पश्चिम में सविता देव का यजन किया जाता है । ब्राह्मण ग्रन्थों में उल्लेख आता है कि वाक् ही पथ्यास्वस्ति है ( शतपथ ब्राह्मण ४.५.१.४ आदि ) । अतः यह कहा जा सकता है कि उदयन को जो घोषवती वीणा प्राप्त हुई है , वह पथ्यास्वस्ति वाक् ही है । उदयन इस वीणा की सहायता से हाथियों को , इरा प्राणों को वश में करने का प्रयत्न कर रहा है। इळा शब्द शीर्षक की टिप्पणी में यह संभावना व्यक्त की गई है कि इळा / इरा अचेतन प्राणों का प्रतीक हो सकता है । डा. फतहसिंह की भाषा में , इरा ऐरावत हाथी अहंकार का प्रतीक हो सकता है क्योंकि जब भी इन्द्र ऐरावत पर आरूढ होकर असुरों से युद्ध करने जाता है , वह हार जाता है । उदयनीय इष्टि में अन्य दिशाओं में अग्नि , सोम , सावित्री आदि देवताओं का यजन उदयन की कथा में किस प्रकार प्रस्फुटित हुआ है , यह अन्वेषणीय है । वासवदत्ता , जिसको उदयन संगीत की शिक्षा देता है , और तत्पश्चात् विवाह करता है , को कथासरित्सागर में गौरी , प्रकृति का अंश कहा गया है ।

संदर्भ

उदयन

अनुहूतः पुनरेहि विद्वानुदयनं पथः।आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥ - अथर्ववेद ५.३०.७

तथेति देवा अब्रुवन्। तवैव प्रायणीयस्तवोदयनीय इति। तस्मादेष आदित्य एव प्रायणीयो भवति -- आदित्य उदयनीयः। इयं ह्येवादितिः। - शतपथ ब्राह्मण ३.२.३.६

स यदादित्यं चरुं प्रायणीयं निर्वपति। यज्ञस्यैव दृष्ट्यै। - - - अथैभ्यः पथ्या स्वस्तिः प्रारोचत। तामयजन्। वाग् वै पथ्या स्वस्तिः। -- - - - -अथैभ्योऽग्निः प्रारोचत। तमयजन्।- - -यद्वै शुष्कं यज्ञस्य तदाग्नेयम्। - - - - --अथैभ्यः सोम प्रारोचत। तमयजन्।- -- - - अथैभ्यः सविता प्रारोचत। तमयजन्। पशवो वै सविता।- - - - (विभिन्न दिशाओं में पांच देवताओं के यजन का वर्णन)। - मा.श.३.२.३.७

शिरो वै यज्ञस्यातिथ्यम्। बाहू प्रायणीयोदयनीयौ। अभितो वै शिरो बाहू भवतः। तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च। तदाहुः - यदेव प्रायणीय क्रियेत - तद् उदयनीये क्रियेत। यदेव प्रायणीयस्य बर्हिर्भवति - तदुदयनीयस्य बर्हिर्भवतीति। - मा.श.३.२.३.२०

य एव प्रायणीयस्यर्त्विजो भवन्ति - त उदयनीयस्यर्त्विजो भवन्ति। - - - - स वै पञ्च प्रायणीये देवता यजति, पञ्चोदयनीये। तस्मात् पञ्चेत्थादङ्गुलयः, पञ्चेत्थात्। - मा.श.३.२.३.२२

आतिथ्येष्टिः : शिरो वै यज्ञस्यातिथ्यम् - बाहू प्रायणीयोदयनीयौ। अभितो वै शिरो बाहू भवतः। तस्मादभितः आतिथ्यमेते हविषी भवतः - प्रायणीयश्चोदयनीयश्च। - मा.श.३.४.१.१

उदयनीयेष्टिः : आदित्येन चरुणोदयनीयेन प्रचरति। तद् यदादित्यश्चरुर्भवति - यदेवैनामदो देवा अब्रुवन् - तवैव प्रायणीयः, तवोदयनीय इति। - - - स यदमुत्र राजानं क्रेष्यन्नुपप्रैष्यन्यजते - तस्मात्प्रायणीयं नाम। अथ यदत्रावभृथादुदेत्य यजते - तस्मादेतदुदयनीयं नाम। तद्वाऽएतत् समानमेव हविः - अदित्याऽएव प्रायणीयम् - अदित्याऽउदयनीयम्। इयं ह्येवादितिः। स वै पथ्यामेवाग्रे स्वस्तिं यजति। - - - - -सोऽग्निमेव प्रथमं यजति, अथ सोमम्, अथ सवितारम्, अथ पथ्यां स्वस्तिम्, अथादितिम्। - मा.श.४.५.१.१

चित्रं देवानामुदगादनीकम् - इति। असौ वा आदित्य एष पुरुषः। तदेतच्चित्रं देवानामुदेत्यनीकम्। चक्षुर्मित्रस्य वरुणस्याग्नेः - इति।- - - -मा.श.७.५.२.२७

सुत्याह कर्म : तं हैके - प्रायणीय एवातिरात्रे युञ्जन्ति, उदयनीये विमुञ्चन्ति। संस्थारूपं वा एतत् - यद्विमोचनम्। - मा.श.९.४.४.१५

१० अथो यथा प्रायणीयेऽतिरात्रे सामिधेनीरनूच्य ब्रूयात् - उदयनीयऽएवातोऽनुवक्ताऽस्मीति - तादृक् तत्। - मा.श.९.४.४.१६

११ देविकाहवींषि :समिष्टयजूंषि हुत्वा, अवभृथं यन्ति। अवभृथादुदेत्य, उदयनीयेन चरित्वा, अनूबन्ध्यस्य पशुपुरोडाशमनु देविकानां हवींषि निर्वपति। - मा.श.९.५.१.३४

१२ वैश्वकर्मणहोमः : यद्वेव वैश्वकर्मणानि जुहोति। प्रायणं च ह्यग्नेरुदयनं च। सावित्राणि प्रायणम्, वैश्वकर्मणान्युदयनम्। स यत्सावित्राण्येव जुहुयात्, न वैश्वकर्मणानि, यथा प्रायणमेव कुर्यान्नोदयनं - तादृक् तत्। अथ यद्वैश्वकर्मणान्येव जुहुयात्, न सावित्राणि, यथोदयनमेव कुर्यात्, न प्रायणम् - तादृक् तत्। उभयानि जुहोति - प्रायणं च तदुदयनं च करोति। अष्टावमूनि भवन्ति। एवमिमानि। तद्यथा प्रायणं तथोदयनं करोति। स्वाहाकारोऽमीषां नवमो भवति। एवमेषाम्। तद् यथा प्रायणं तथोदयनं करोति। आहुतिरमीषां दशमी भवति। एवमेषाम्। तद् यथा प्रायणं तथोदयनं करोति - मा.श. ९.५.१.४४

१३ दीर्घसत्रं वा एष उपैति। यो ब्रह्मचर्यमुपैति। स यामुपयन् समिधमादधाति ,सा प्रायणीया। यां स्नास्यन्, सोदयनीया। अथ या अंतरेण सत्र्या एवास्य ताः। - मा.श.११.३.३.२

१४ एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः। सत्यमवभृथः। स्वर्गो लोक उदयनम्। - मा.श. ११.५.६.३

१५ तेषां वा उन्नेतोत्तमो दीक्षते। प्रथमोऽवभृथादुदायतामुदैति। प्राणो वा उन्नेता। प्राणमेवैष्वेतदुभयतो दधाति। - मा.श.१२.१.१.११

१६ श्रद्धाया वै देवा दीक्षां निरमिमत। अदित्यै प्रायणीयम्। - - - - अस्माल्लोकात् प्रायणीयमतिरात्रम्॥….संवत्सराद्दशममहः। प्रजापतेर्महाव्रतम्। स्वर्गाल्लोकादुदयनीयमतिरात्रम्। तदेतत्संवत्सरस्य जन्म। - मा.श.१२.१.२.१

१७ अथ यदुदयनीयमतिरात्रमुपयन्ति। संवत्सरमेव तदाप्त्वा स्वर्गे लोके प्रतितिष्ठन्ति। - मा.श.१२.१.३.२२

१८ अध्यात्मविद्ब्राह्मणम् : पुरुषो वै संवत्सरः। तस्य पादावेव प्रायणीयोऽतिरात्रः। - - - - - -अङ्गानि दशरात्रः। मुखं महाव्रतम्। हस्तावेवोदयनीयोऽतिरात्रः। हस्ताभ्यां ह्युद्यन्ति। - मा.श.१२.१.४.३

१९ सम्वत्सरे समुद्रप्रतरणोपासनम् :तस्य तीर्थमेव प्रायणीयोऽतिरात्रः। तीर्थेन हि प्रस्नांति। - - - - -तीर्थमेवोदयनीयोऽतिरात्रः। तीर्थेन ह्युत्स्नान्ति। तद्यदुदयनीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नाय तीर्थेनोत्स्नायुः। तादृक्तत्~। - मा.श.१२.२.१.५

२० अथ वा अतोऽह्नामभ्यारोहः। प्रायणीयेनातिरात्रेणोदयनीयमतिरात्रमभ्यारोहन्ति। - मा.श.१२.२.३.१०

२१ अथ वा अतोऽह्नां निवाहः। प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति। - - - -दशरात्रो महाव्रताय। महाव्रतमुदयनीयायातिरात्राय। उदयनीयोऽतिरात्रः स्वर्गाय लोकाय प्रतिष्ठायाऽअन्नाद्याय। - मा.श.१२.२.३.११

२२ गवामयनीय संवत्सरस्य पुरुषविधोपासनम् : मुखं महाव्रतम्। उदान एवोदयनीयोऽतिरात्रः। उदानेन ह्युद्यंति। स एष संवत्सरोऽध्यात्मं प्रतिष्ठितः। - मा.श.१२.२.४.१६

२३ उदयनीयायां संस्थितायाम्, एकविंशतिं वशा अनूबन्ध्या आलभते। - - - -मा.श.१३.५.४.२५

२४ पुरुषमेधः : उदयनीयायां संस्थितायाम्, एकादश वशा अनूबंध्या आलभते - मैत्रावरुणीः, वैश्वदेवीः, बार्हस्पत्याः। - मा.श.१३.६.२.१६

२५ एषा उ ह जीवानां दिगंतरेण। सप्तर्षीणां चोदयनम्। आदित्यस्य चास्तमयनम्। अमृतमेव तज्जीवेषु दधाति। - मा.श.१३.८.१.९

२६ स्वर्गं वा एतेन लोकमुपप्रयन्ति यत्प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वम्। प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति समानौ हि प्राणोदानौ प्राणानां क्लृप्त्यै प्राणानां प्रतिप्रज्ञात्यै। - ऐतरेय ब्राह्मण १.७

२७ ते (देवाः) ऽब्रुवन्नदितिं त्वयेमं यज्ञं प्रजानामेति सा तथेत्यब्रवीत्सा वै वो वरं वृणा इति वृणीष्वेति सैतमेव वरमवृणीत मत्प्रायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो वरवृतो ह्यस्याः। अथो एतं वरमवृणीत मयैव प्राची दिशं प्रजानाथाग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमिति। (पथ्यास्वस्ति आदि देवताओं का वर्णन) - - - - -ऐ.ब्रा. १.७

२८ प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभिनिर्वपेद्यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय। अथो खलु यस्यामेव स्थाल्यां प्रायणीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव यज्ञः संततोऽव्यवच्छिन्नो भवति। - - - - - - - -याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद्या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात्तद्व्यतिषजत्युभयोर्लोकयोर्ऋद्ध्या - - - - - - - - - -आदित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनद्ध्यै यज्ञस्याप्रस्रंसाय - - - - - -एवमेवैतद्यज्ञस्योभयतोऽन्ततोरप्रस्रंसाय बर्सौ नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः। पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति। -  ऐ.ब्रा.१.११

२९ स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। - - - - - - -ऐ.ब्रा.३.४३

३० यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। - ऐ.ब्रा.३.४३

३१ यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः - ऐ.ब्रा.४.१४

३२ यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनम्। - ऐ.ब्रा.४.१४

३३ यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः - ऐ.ब्रा.४.१४

३४ तद्यच्चतुर्विंशेऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते सा विमुक्तिः। - ऐ.ब्रा.६.२३

३५ सूयते ह वा अस्य क्षत्त्रं यो दीक्षते क्षत्त्रियः सन्स यदाऽवभृथादुदेत्य अनूबन्ध्ययेष्ट्वोदवस्यति अथैनमुदवसानीयायां संस्थितायां पुनरभिषिञ्चन्ति। - ऐ.ब्रा.८.५

३६- - - आदित्येभ्यस्तृतीयसवनं, वरुणादवभृथम्, अदितेरुदयनीयां, मित्रावरुणाभ्यामनूबन्ध्यां, - - - -गोपथ ब्राह्मण१.४.७

३७ अथ यदुदयनीयया यजन्ते, अदितिमेव तद् देवीं देवता यजन्ते। - गो.ब्रा.१.४.८

३८ अहोरात्राभ्यां वै देवा प्रायणीयमतिरात्रं निरमिमत, - - - - -प्रजापतेर्महाव्रतं, स्वर्गाल्लोकादुदयनीयमतिरात्रम्। तद् वा एतत् संवत्सरस्य जन्म। - गो.ब्रा.१.४.९

३९ अथ यत् प्रायणीयमतिरात्रमुपयन्ति, अहोरात्रावेव तद् देवौ देवते यजन्ते। - - - - - -अथ यदुदयनीयमतिरात्रमुपयन्ति, स्वर्गमेव तल्लोकं देवं देवतां यजन्ते। - गो.ब्रा.१.४.१०

४०- - - -महाव्रतादुदयनीयो ऽतिरात्रः। उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै। - गो.ब्रा.१.४.१४, १.४.२२

४१ समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते। तेषां तीर्थमेव प्रायणीयोऽतिरात्रः। तीर्थेन हि प्रतरन्ति। - - - - -तेषां तीर्थमेवोदयनीयोऽतिरात्रः। तीर्थेन ह्युद्यन्ति। तद् यथा समुद्रं तीर्थेनोदेयुस्तादृक् तत्। - गो.ब्रा.१.५.२

४२ पुरुषो वाव संवत्सरः। तस्य पादावेव प्रायणीयो ऽतिरात्रः। - - - - - -तस्य हस्तावेवोदयनीयो ऽतिरात्रः। हस्ताभ्यां ह्युद्यन्ति। - गो.ब्रा.१.५.३

४३ पुरुषो वाव संवत्सरः। तस्य प्राण एव प्रायणीयो ऽतिरात्रः। प्राणेन हि प्रयन्ति। - - - - - मुखं महाव्रतम्। तस्योदान एवोदयनीयोऽतिरात्रः। उदानेन ह्युद्यन्ति। - गो.ब्रा.१.५.४

४४ सकृद् ध्य् एव परस्तात् त्रिवृते हिंकुवन्ति यत् प्रायणं तद् उदयनम् असद् इति। - जैमिनीय ब्रा.१.२३१

४५ यदि द्वयह उभयोर् अह्नोर् अहिंकृतां गायेत्। प्रायणं हि तयोर् अन्यतरद् उदयनम् अन्यतरत्। - - - - - - - - -अथो अन्नं वै हिंकारः -- अन्नेन वै गर्भो ऽभिवर्धते -- अभिवृद्ध्या एवेति। ताम् उदयने गायेद् यत् प्रायणं तद् उदयनम् असद् इति। - जै.ब्रा.१.३१५

४६ अस्मिन्न् एव लोके प्रायणीयेनातिरात्रेण प्रतिष्ठाय प्रयन्ति। अमुष्मिन् लोक उदयनीयेनातिरात्रेण प्रतिष्ठायोद्यन्ति। - जै.ब्रा.२.४४

४७ इम एव दश प्राणा दशरात्रः। मन एव महाव्रतीयम् अहः। उदान एवोदयनीयो ऽतिरात्रः। - जै.ब्रा.२.५८

४८ अथ यां क्रीते राजनि सुब्रह्मण्याम् आह्वयति -- - - - - - - -। अथो यत् प्रायणं तद् उदयनम् असद् इति। - जै.ब्रा.२.८०

४९ अवभृथाद् उदेत्य श्मश्रूण्य् एव वपते न केशान्। - जै.ब्रा.२.२०४

५० वैश्वानरः प्रायणीयोऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः। - - - - - अथैष पृष्ठ्यष् षडहो भवति। - - - - - -तत् त्व् एतस्य परिचक्षते यद् आरभमाणा एवं पृष्ठ्यं षडहम् आरभन्ते वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः। - जै.ब्रा.२.३३६, ३३७

५१ त्रिर् एवाश्विनं शस्तव्यम् इति, प्रायणतो, मध्यत उदयनतः। एतद् ध वै समृद्धम् आश्विनं यद्रथन्तरेण संपद्यते। यद्य् एकेन संपद्येत रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि द्वाभ्यां रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि त्रिभी रथन्तरम् एव प्रायणतो मध्यत उदयनतो, न चतुर्भिस् संपद्यते, नो एव पञ्चभिः। - जै.ब्रा.२.३६८

५२ पुरुषं वावैतद् आसते यत् संवत्सरम्। - - - - -इमे त्रय स्वरसामान इमे त्रयो ऽयं विषुवान् इदं महाव्रतीयम् अहर् अयम् उदयनीयो ऽतिरात्रः। - जै.ब्रा.२.४२७

५३ अयम् एव लोकः प्रायणीयो ऽतिरात्रः। - - - - - - - -प्रजापतिर् एव महाव्रतीयम् अहर्, असाव् एव लोक उदयनीयो ऽतिरात्रः। - जै.ब्रा.२.४२९

५४ ते यां प्रायणीयम् अतिरात्रम् उपेत्य वसन्त्य् अस्मिन्न् एव तां लोके वसन्ति। तद् यद् अस्मिन् लोके ऽन्नाद्यं तद् एव तेनावरुन्धते। - - - - -अथ याम् उदयनीयम् अतिरात्रम् उपेत्य वसन्त्य् अमुष्मिन्न् एव ता लोके वसन्ति। तद् यद् अमुष्मिन् लोक ऽन्नाद्यं तद् एव तेनावरुन्धते। - जै.ब्रा.२.४३०

५५ इयम् एव दिक् प्रायणम्, इयम् उदयनम्। तस्माद् असाव् आदित्य इतो ऽस्तम् एतीत उदेति। एतद् एव प्रायणं चोदयनं चानुसंचरति। - जै.ब्रा.३.३०८

५६ इदम् एव प्रायणम्, इदम् उदयनम्। तस्माद् इत एव प्रयन्त्य् अत उद्यन्ति। अग्निर् एव प्रायणम्, आदित्य उदयनम्। - जै.ब्रा.३.३०९

५७- - - -नाक एव दशमम् अहः। इदम् एव प्रायणम् अद उदयनम्। ते हैते लोका एवैतानि द्वादशाहस्याहानि। - जै.ब्रा.३.३४७

५८ प्रायणीयेनातिरात्रेण त्रयोदशं मासम् उपाप्नुवन्त्य्, उदयनीयेन संवत्सरं चतुर्दशम्। - - - - - - - - -माघो द्वादशं, प्रायणीय एवातिरात्रस् त्रयोदशो मास, उदयनीयस् संवत्सरश् चतुर्दशः। - जै.ब्रा.३.३८६

५९ असौ वा आदित्योऽग्निरनीकवान्। तस्य रश्मयोऽनीकानि। साकँ सूर्येणोद्यता निर्वपति। साक्षादेवास्मा अनीकानि जनयति। - तैत्तिरीय ब्राह्मणम् १.६.६.२

६० हविषः याज्या : चित्रं देवानामुदगादनीकम्। चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्षम्। सूर्य आत्मा जगतस्तस्थुषश्च। - तै.ब्रा.२.८.७.३

६१ तयोरेतौ वत्सो। अग्निश्चाऽऽदित्यश्च। रात्रेर्वत्सः। श्वेत आदित्यः। अह्नोऽग्निः। ताम्रो अरुणः। ता अविसृष्टौ। दंपती एव भवतः। - - - - -प्रजयिष्णुः प्रजया च पशुभिश्चत भवति। य एवं वेद। एतमुद्यन्तमपियन्तं चेति। आदित्यः पुण्यस्य वत्सः। - तैत्तिरीय आरण्यक १.१०.५

 

६२ पृष्ठ्यषडहस्य प्रथमे - षष्ठे अहनि : त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति सर्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते। - ताण्ड्य ब्रा.३.६.३

६३ षडहे विभक्तेर्नानात्वं : येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति यस्मादेषा समाना सतीन्द्रविभक्तिर्न्नानारूपा तस्माद्यथर्त्वोषधयः पच्यन्ते। - तां.ब्रा.१०.८.१

६४ पवमानस्य ते वयमिति बहिष्पवमानस्यान्त्यं तृचं : तृच उत्तमो भवति। येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। तां.ब्रा.११.६.९

६५ तृतीयेऽहनि बहिष्पवमाने : तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। - तां.ब्रा.१२.१.१०

६६ तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्त्येकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति। - तां.ब्रा.१२.७.१०

६७ माध्यन्दिन पवमानः : (पुनानो अक्रमीदिति) गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्च्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। - तां.ब्रा.१२.९.२३

६८ बहिष्पवमानस्य स्तोत्रम् (यास्ते धाना मधुश्चुत इति) : तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्टः। - तां.ब्रा.१३.१.१२

६९ माध्यन्दिनस्य पवमानस्य स्तोत्रीयास्तृचः : गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्च्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। - तां.ब्रा.१३.३.२५

७० बहिष्पवमानस्यान्त्यं तृचं : तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। - तां.ब्रा.१३.७.१५

७१ माध्यन्दिन पवमानः : इहवद्वामदेव्यं भवति - - - - - गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्च्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। - तां.ब्रा.१३.९.२८

७२ सप्तमम् अहःसु उक्थस्तोत्रेषु : ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्य्या उदयनता इति। उदयनत एव कार्य्या: पुरुषो वै द्विपदाः प्रतिष्ठायै। - तां.ब्रा.१३.१.२२

७३ सप्तमे अहनि माध्यन्दिन पवमाने : प्रवद्भार्गवं भवति। प्रवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्। - तां.ब्रा.१४.३.२४

७४ माध्यन्दिनस्य पवमानस्य स्तोम क्लृप्तिः : उद्वद्भार्गवं भवति। प्रवता वै देवा स्वर्गं लोकं प्रायन्नुद्वतोदायन्। - तां.ब्रा.१४.९.३९

७५ माध्यन्दिन पवमानः : तदु संवदित्याहुः संवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्। - तां.ब्रा.१५.३.३६

७६ दशमे अहनि तृतीयस्य पृष्ठस्तोत्रीयं तृचं : उदुत्ये मधुमत्तमा इत्युद्वत्य उदयनीयेऽहन्येतदाशिषो ह्येवैतर्हि। - तां.ब्रा.१५.१०.३

७७ सप्तदशस्तोमकम् अग्निष्टोमसंस्थमेकाहम् : चतुःषष्टिमष्टाविंशतिशतमानानि उदयनीयायामिष्टौ- - - - - तां.ब्रा.१८.३.२

७८ पक्षाख्यः क्रतुः (आद्यन्तौ स्तोमौ) : त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत्प्राणेनैव प्रैति प्राणमभ्युदेति। - तां.ब्रा.१९.१०.१४

७९ बहिष्पवमानस्य सन्धिस्तोत्रगतौ स्तोमौ : त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत्प्राणेनैव प्रैति प्राणमभ्युदेति। - तां.ब्रा.२०.१.६

८० अवभृथ प्रकरणम् : प्रागुदयनीयादतिरात्रादप्सुषोमान्तमहः सत्रेषु - द्राह्यायण श्रौत सूत्र ६.४.१३

८१ दीक्षणीया इष्टिः : नेदमादिषु मार्जनमर्वागुदयनीयायाः। - आश्वलायन श्रौ.सू. ४.२.६

८२ अयमेवैकाहोऽतिरात्र आदौ प्रायणीयः। एषोऽन्त्य उदयनीयः। अव्यक्तो मध्ये। - आश्व.श्रौ.सू.११.१.२

८३ दृतिवातवतोरयनम् (सत्रम्) : प्रायणीयोऽतिरात्रः। - - - - उदयनीयोऽतिरात्रः। - आश्व.श्रौ.सू.१२.३.६

८४ प्रायणीयोदयनीययोरतिरात्रयोः समस्तानालभेरन्नैन्द्राग्नमन्तर्धौ वा।- - - - - - -वैश्वकर्मणमृषभं महाव्रते आग्नेयमुदयनीयातिरात्रे। - आश्व.श्रौ.सू.१२.७.७

८५ ज्योतिष्टोमेऽवभृथकर्मप्रकरणम् : प्रायणीययोदयनीया व्याख्याता। विपर्यासो याज्यापुरोनुवाक्यानां स्विष्टकृतः परिहाप्य। पथ्यां स्वस्तिं चतुर्थीं यजति। तृतीयं सवितारम्।- - - - शांखायन श्रौत सूत्र ८.१२.१

८६ पुरस्तादेव कतिपयाहेन होता प्रेङ्खफलकमुत्पाटयति। तिष्ठत एवोदुम्बरस्य। पुरस्तादादित्यस्योदयनत। - शाङ्खायन श्रौत सूत्र १७.१.४

८७ महाव्रत प्रकरणे अवभृथ कर्म : अथ प्रातरुदयनीयमतिरात्रमुपयन्ति। य एवासौ प्रायणीयः स उदयनीयः। तद्वा सर्वान्करस्नान्संबाध्य प्रेष्यति मैत्रावरुणः। - - - -शां.श्रौ.सू.१८.२४.२

८८ आज्यग्रहणकाले ऽननूयाजे प्रायणीये चतुर्जुह्वां गृह्णाति चतुरुपभृति समानयनार्थम्। अप्रयाज उदयनीये न जुह्वां गृह्णाति। चतुरुपभृत्यनूयाजार्थम्।- - - - - - - - पत्नीस्तु न संयाजयेत्। ता उदयनीये संयाजयेत्। समे वा कार्ये। धारयति ध्रौवमाज्यम्। प्राग्वंशे बर्हिः स्थालीमनिष्कसितां मेक्षणमित्युदयनीयार्थं निदधाति। - आप.श्रौ.सू.१०.२१.८

८९ उदेत प्रजामायुर्वर्चो दधाना अध स्यामसुरुभयोर्गृहेषु - - -अहते वसानावुदितः। - आप.श्रौ.सू.१३.२२.१

९० प्रायणीयवदुदयनीया। - आप.श्रौ.सू.१३.२३.१

९१ वीणागणकिनो देवैरिमं यजमानं संगायतेति। एवं सदौपवसथात्। प्रजापतिना सुत्यासु अवभृथोदयनीयानूबन्ध्योदवसानीयास्विति। देवैरन्ततः। - आप.श्रौ.सू.२०.८.१६

९२ प्रायणीयवदुदयनीयमुपयन्ति। नात्राहीनसंततयो भवन्ति। यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ता अहीनसंततयः।- - - - - अथ ग्रहक्लृप्तिः। प्रायणीयोदयनीययोर्दशमे ऽहन्निति पृश्निप्राणग्रहान्गृह्णाति। - आप.श्रौ.सू.२१.१३.१

९३ त्र्यनीकां व्याख्यास्यामः। ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः। - - - - -व्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ। - - - - -आग्नेयमुदयनीये। ऐन्द्राग्नं वा। - - - - अग्निष्ठ उदयनीये पशुमुपाकरोति। - आप.श्रौ.सू.२१.१४.१

९४ व्याख्यात उदयनीयः पृष्ठ्यशमनीयश्च। अथ ग्रहक्लृप्तिः। - आप.श्रौ.सू.२१.२१.१

९५ उपालम्भनम् : प्राजापत्यमृषभं तूपरं महाव्रते। आग्नेयमुदयनीये। इति पालिङ्गायनिकाः। अथ काठकाः। ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते। - आप.श्रौ.सू.२१.२३.४

९६ हिरण्यस्रजमुद्गात्रे षट्पुष्करां द्वादशपुष्करां वा यज्ञायज्ञीयस्य स्तोत्रे ऽवभृथेष्ट्यामुदयनीयायाम् अनूबन्ध्यायामुदवसानीयायां च। - आप.श्रौ.सू.२२.१०.१

९७ अमावास्यायां प्रायणीयो ऽष्टम्यां महाव्रतं पौर्णामास्यामुदयनीयः। एतद्वा विपरीतम्। - आप.श्रौ.सू. २३.२.३

९८ आदित्यानामयनम् : महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः पूर्यते। एतेनाङ्गिरसामयनं व्याख्यातम्। -- - - - - - - - -महाव्रतोदयनीयाभ्यामिति द्व्यूनो मासः पूर्यते। - आप.श्रौ.सू.२३.९.९

९९ अग्निष्टोम प्रातसवनम् : अथ परिकर्मिणः सँशास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीf सक्षामकाषामेतन्मेक्षणमेतं वेदमेतद्बर्हिश्चतुष्टयमुदयनीयाय निधत्तादिति - - - - -बौधायन श्रौत सूत्र ६.१२

१०० अग्निचयने अवभृथं कर्म : समुन्नय वयुनाय सिन्धूनां पतये नम इति प्रसिद्धो ऽवभृथ उदयनीयेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति - - - - - -बौ.श्रौ.सू.१०.५९

१०१ राजसूयः : - - - -प्रसिद्धो ऽवभृथ उदयनीयेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति। - बौ.श्रौ.सू.१२.१६

१०२ राजसूयः : शालामध्यवसाय मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः संतिष्ठत एष उदयनीयो ऽग्निष्टोमश्चतुष्टोमः सहस्रदक्षिण उदवसानीयान्तो - बौ.श्रौ.सू.१२.२०

१०३ औपानुवाक्यम् :उक्तमादित्यग्रहस्योद्धूननमुक्ता प्रायणीयस्य स्रुवाहुतिरुक्तोदयनीयस्योक्तं यूपस्योपस्थानम्। - बौ.श्रौ.सू.१४.२१

१०४ गवामयनम् : प्रायणीयोदयनीयावभितो मध्ये ऽग्निष्टोमास्तद्द्वितीयं प्रजापतेरयनँ - बौ.श्रौ.सू.१६.१६

१०५ गवामयनम् : तद्धैतदेके सारस्वतवैष्णवौ ग्रहौ गृह्णन्ति प्रायणीयादेवाग्रे ऽतिरात्रादोदयनीयाद्वाग्वै सरस्वती यज्ञो विष्णुः - - - - - बौ.श्रौ.सू.१६.१६

१०६ आ समुदितादिहावभृथेन प्रचरत्यथामुत्रेहोदयनीयामिष्टिं निर्वपति - बौ.श्रौ.सू.१८.५०

१०७ प्रायश्चित्तानि :उदयनीयस्य बर्हिषः सँस्कार इति। असिदादानप्रभृतीन्मन्त्रान्साधयेदिति बौधायनः शुल्बप्रभृतीनिति शालीकि: संभरणप्रभृतीनित्यौपमन्यवः। उदयनीयस्य निर्वपण इति। स्रुचि वावधाय क्षामकाषँ स्थाल्यां वा सक्षामकाषायां निर्वपेदिति। पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः। उदयनीयस्य श्रपण इति। पयसि श्रपयेदिति बौधायनो ऽप्स्विति शालीकि:। - - - -उदयनीयस्यासादन इति। षड्ढौत्रासादयेदिति बौधायनस्तूष्णीमिति शालीकि:। उदयनीयस्य चर्याया इति। सूत्रं बौधायनस्याहवनीय एवोदयनीयेन चरेदिति शालीकि:। - बौ.श्रौ.सू.२१.२५

१०८ - - -तस्यै सह सवनीयैर्वत्सापाकरणँ सह सायंदोहमुदयनीयेन चरित्वा पाणी संमृशीत - - - -बौ.श्रौ.सू.२५.२६

१०९ अथ मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः संतिष्ठत एष उदयनीयो अग्निष्टोमः सहस्रदक्षिणो - - - -बौ.श्रौ.सू.२६.२