PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(From vowel i to Udara)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

I - Indu ( words like Ikshu/sugarcane, Ikshwaaku, Idaa, Indiraa, Indu etc.)

Indra - Indra ( Indra)

Indrakeela - Indradhwaja ( words like Indra, Indrajaala, Indrajit, Indradyumna, Indradhanusha/rainbow, Indradhwaja etc.)

Indradhwaja - Indriya (Indradhwaja, Indraprastha, Indrasena, Indraagni, Indraani, Indriya etc. )

Indriya - Isha  (Indriya/senses, Iraa, Iraavati, Ila, Ilaa, Ilvala etc.)

Isha - Ishu (Isha, Isheekaa, Ishu/arrow etc.)

Ishu - Eeshaana (Ishtakaa/brick, Ishtaapuurta, Eesha, Eeshaana etc. )

Eeshaana - Ugra ( Eeshaana, Eeshwara, U, Uktha, Ukhaa , Ugra etc. )

Ugra - Uchchhishta  (Ugra, Ugrashravaa, Ugrasena, Uchchaihshrava, Uchchhista etc. )

Uchchhishta - Utkala (Uchchhishta/left-over, Ujjayini, Utathya, Utkacha, Utkala etc.)

Utkala - Uttara (Utkala, Uttanka, Uttama, Uttara etc.)

Uttara - Utthaana (Uttara, Uttarakuru, Uttaraayana, Uttaana, Uttaanapaada, Utthaana etc.)

Utthaana - Utpaata (Utthaana/stand-up, Utpala/lotus, Utpaata etc.)

Utpaata - Udaya ( Utsava/festival, Udaka/fluid, Udaya/rise etc.)

Udaya - Udara (Udaya/rise, Udayana, Udayasingha, Udara/stomach etc.)

 

 

 

इन्द्र-वायु

सोमयागे बहिष्पवमानकृत्यस्य अन्तिमे चरणे एवं प्रातःसवनस्य आरम्भणतः पूर्वं ऐन्द्रवायवग्रहस्य प्रचरणं भवति। ऐन्द्रवायवग्रहः त्रयेभ्यः द्विदेवत्यग्रहेभ्यः एकः अस्ति। अन्ये द्वौ मैत्रावरुण एवं आश्विन् ग्रहौ स्तः। द्विदेवत्यग्रहेभ्यः अनुवषट्कारं (सोमस्याग्ने वीही वौषट्) न भवति। द्विदेवत्यं यथार्थतः किं अस्ति, अयं अन्वेषणीयमस्ति। ओंकारे देवत्रयी प्रतिष्ठितः भवति – ब्रह्मा आदाने, विष्णुः धारणे, रुद्रः विसर्जने। अथवा पृथिवी, चन्द्रमा एवं सूर्यः, अथवा मनः, प्राणः एवं वाक् परस्परसहयोगं कृत्वा संवत्सरस्य निर्माणं कुर्वन्ति। यदि घटकत्रयाणां सहयोगं संभवं नास्ति, तर्हि द्वि-द्वि घटकयोः सहयोगं अपि स्वागतयोग्यं अस्ति। अयं संभवमस्ति यत् वैदिकवाङ्मयस्य द्विदैवत्यशब्दस्य अयं अभिप्रायः अस्ति। ऐन्द्रवायवग्रहे प्राणस्य सहयोगं वाचा सह भवति येन वाक् दिव्या, देवी भवति। लौकिकव्यवहारे, मनुष्यस्य वागेव व्याकृता अस्ति, अन्येषां जीवानां वाक् अव्याकृता एव अस्ति। वैदिकवाङ्मये दैवी वाक् इन्द्रस्य साहाय्येन आविर्भवति। पौराणिकवाङ्मये देवी वाक्, सरस्वती वाक् यज्ञवराहस्य साहाय्येन आविर्भवति।

     स यस्स आकाश इन्द्र एव सः स यस्स इन्द्रस्सामैव तत् १ तस्यैतस्य साम्न इयमेव प्राची दिग्घिङ्कार इयम्प्रस्ताव इयमादिरियमुद्गीथोऽसौ प्रतिहारोऽन्तरिक्षमुपद्र व इयमेव निधनम् २ तदेतत्सप्तविधं साम स य एवमेतत्सप्तविधं साम वेद यत्किं च प्राच्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं हिङ्कारेणाप्नोति ३ अथ यद्दक्षिणायं दिशि तत्सर्वम्प्रस्तावेनाप्नोति ४ अथ यत्प्रतीच्यां दिशि तत्सर्वमादिनाप्नोति ५ अथ यदुदीच्यां दिशि तत्सर्वमुद्गीथेनाप्नोति ६ अथ यदमुष्यां दिशि तत्सर्वम्प्रतिहारेणाप्नोति ७ अथ यदन्तरिक्षे तत्सर्वमुपद्रवेणाप्नोति ८ अथ यदस्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं निधनेनाप्नोति ९  (जैउब्रा. १.१०.१.१) ।

तैत्तिरीयसंहिता ३.३.१.२ मध्ये कथनमस्ति -  वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु ।

तैत्तिरीयसंहितायाः कथनं संकेतं करोति यति वायोः आधिपत्यं हिंकारोपरि एव अस्ति। हिंकारः किं भवति, अस्मिन् संदर्भे जैब्रा. १.३०६ कथनं बोधगम्यं अस्ति यत् नाभिरेव हिंकारः अस्ति। कारणं, नाभ्या धृतं गर्भः अवाङ् न पतति। अयं संकेतमस्ति यत् यत्र गुरुत्वाकर्षणतः पारं गमने शक्तिः विकसयति, तत् हिंकारमस्ति। जैउब्रा. १.१०.१.१ स्य कथनं संकेतं करोति यत् हिंकारस्य सामर्थ्यं साम्नः साधनायाः उदयमात्रमस्ति। इतः परं प्रस्ताव, उद्गीथ, प्रतिहार, निधनभक्तीनि सन्ति एवं इन्द्रस्य आधिपत्यं एतेषां सर्वेषामुपरि अस्ति।    

अयं प्रतीयते यत् वैदिकवाङ्मये यः हिंकारः अस्ति, पुराणेषु तस्य स्वरूपं हुंकारः अस्ति(द्र. हुंकारोपरि पौराणिकसंदर्भाः)। अपि च, पुराणेषु ह्रां, ह्रीं, ह्रूं, ह्रैं, ह्रौ, ह्रः बीजमन्त्राणां अस्तित्वमस्ति (द्र. पौराणिकसंदर्भाः)। पृथिवी, जल, अग्नि इत्यादि महाभूतानां पृथक् – पृथक् बीजमन्त्राः सन्ति। यः वायुः अस्ति, तत् वायुमहाभूतेन सह सम्बद्धमस्ति। वायुतः अग्रिमं आकाशमहाभूतः अस्ति। (द्र. महाभूतोपरि टिप्पणी)। 

 

 

 

वराहः

व्यवहारदृष्ट्या, ऐन्द्रवायवग्रहस्य अथवा वायोः वाचा सह केन प्रकारेण सम्बन्धः सम्भवमस्ति। ऋग्वेदः ४.४६ सूक्तं इन्द्र-वायुदेवताकः अस्ति। तत्र नियुतसंज्ञकानां वायोः वाहकानां उल्लेखमस्ति। अयं प्रतीयते यत् वैदिकवाङ्मये यः नियुतः अस्ति, पौराणिकवाङ्मये तत् नियतिः अस्ति (द्र. नियतिरुपरि पौराणिकसंदर्भाः) । शिवपुराणे ६.१६.८३ कथनमस्ति यत् नियतिः विभोः शक्तिरस्ति एवं कर्त्तव्यज्ञानदायिनी अस्ति। अन्यत्र नियतिः काल(दैव)स्य शक्तिरस्ति। यत्र कर्त्तव्य-अकर्त्तव्यस्य ज्ञानस्य उल्लेखमस्ति, सैव वाक् अस्ति।

ऋग्वेदे १.१३९.१ ऐन्द्रवायवस्य संदर्भे कथनमस्ति - अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे। अत्र आरम्भः अस्तु श्रौषट्तः अस्ति। यथा श्रौषट्शब्दस्य टिप्पण्यां  कथितमस्ति, कर्मकाण्डे अस्तुश्रौषट् शब्दस्य उच्चारणं आग्नीध्र ऋत्विक् करोति। यदि अभीप्सा दिव्यवर्षणस्य अस्ति, तर्हि अस्तुश्रौषट् उच्चारणं अभ्रं संप्लावयति। अभ्रेभ्यः पूर्वावस्था धूम्रस्य भवति, इति प्रसिद्धः।

  

१. ऐन्द्रवायवग्रहः-- इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि । उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥। तैसं , ,,

२. आग्नेयेनास्मिम्̐ लोके ज्योतिर् धत्त ऐन्द्रेणान्तरिक्षे । इन्द्रवायू हि सयुजौ सौर्येणामुष्मिम्̐ लोके ज्योतिर् धत्ते। तैसं , ,,

३. प्रतिनिर्ग्राह्य मन्त्राः--वाक्षसदसि वाक्पाभ्यां ( इन्द्रवायुभ्याम् ) त्वा... ( गृह्णामि ) । तैसं , , १०,

अग्निर् देवता गायत्री छन्द उपाशोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असीन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रम् असि बृहस्पतिर् देवतानुष्टुप् छन्दो मित्रावरुणयोः पात्रम् अस्य् अश्विनौ देवता पङ्क्तिश् छन्दो ऽश्विनोः पात्रम् असि सूर्यो देवता बृहती  छन्दः शुक्रस्य पात्रम् असि चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रम् असि विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असि। तैसं ,,,

ऐन्द्रवायव

१. अथैन्द्रवायवं वाचे मे वर्चोदा वर्चसे पवस्वेत्यथ मैत्रावरुणं क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्वेत्यथाश्विनं श्रोत्राय मे वर्चोदा वर्चसे पवस्वे। माश , , ,

२. गायत्रो वा ऐन्द्रवायवः । गायत्रम् प्रायणीयम् अहर् । तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते तैसं , , , ; काठ ३०, ; क ४६. ५ ( तु. मै ४,,८)।

३. त एतमैन्द्रवायवमगृह्णस्ततो वृत्रमघ्नन् ( देवाः)। काठ २७, ३ ।

४. पुरोडाशमैन्द्रवायवस्य पात्रेऽवदधाति । काठ २७, ५।

५. द्वादशरात्रकथनम्-- ऐन्द्रवायवाग्रान् गृह्णीयाद् आमयाविनः प्राणेन वा एष व्यृध्यते यस्याऽऽमयति प्राण ऐन्द्रवायवः प्राणेनैवैन समर्धयति। तैसं , ,,;,४ काठ ३०, ; क ४६, ५।

प्राणो वा ऐन्द्रवायवः प्राणो नवमम् अहर् । तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते तैसं ७.२.८.४

७. राथन्तरो वा ऐन्द्रवायवः । राथंतरम् पञ्चमम् अहर् । तस्मात् पञ्चमे ऽहन्
ऐन्द्रवायवो गृह्यते
-  तैसं , , ,

८. वाक् च प्राणाश्चैन्द्रवायवः । काठ २७, ; क ४२, , ऐ २, २६ ।

९. वाग् (+वा [मै ४, , ८]) ऐन्द्रवायवः । स इन्द्रोऽब्रवीत् , मह्यमत्रापि सोमं गृह्णीताहं व एतां वाचं व्यावर्तयिष्यामीति मै , ,,; काठ २७, ; क ४२, ३ ।

१०. वाचं त ऐन्द्रवायवः (ग्रहः ) पातु । मै ४, , ७ ।

११. शितिबाहुरन्यतश्शितिबाहुस्समन्तशितिबाहुस्त ऐन्द्रवायवाः । काठ ४९,३ ।

ऐन्द्रवायवाग्र

१. ऐन्द्रवायवाग्रान् गृह्णीयादामयाविनः । क ४६, ६ ।

२. यो ज्येष्ठबन्धुः स्यात् स ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीत । मै ४, , ९ ।