पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Pitaa to Puurnabhadra  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Pitaa- Pitriyaana ( words like  Pitaa / father, Pitaamaha / grandfather etc. )

Pitrivartee - Pishangajata ( Pinaaki, Pipeelikaa / ant, Pippalaa, Pippalaada etc.)

Pishaacha - Peevari ( Pishaacha, Pishta / ground, Peetha / chair, Peeta / yellow, Peevari etc.)

Punshchalee - Punyajana ( Punjikasthalaa, Pundareeka, Pundra, Punya etc.)

Punyajani - Punarvasu ( Punyasheela, Putra / son, Putri / Putree / daughter, Punarvasu etc.)

Punnaaga - Pureesha (Pura / residence, Puranjana, Puranjaya, Purandara, Puraana, Pureesha etc. ) 

Puru - Purusha ( Puru, Purukutsa, Purusha / man etc. )

Purusha - Pulaka  ( Purushasuukta, Purushaartha, Purushottama, Puruuravaa, Purodaasha, Purohita etc.)

Pulastya - Pulomaa ( Pulastya, Pulinda, Pulomaa etc.)

Pulkasa - Pushkaradweepa (  Pushkara etc. )

Pushkaraaksha - Pushpa ( Pushkaraavarta, Pushkarini /pushkarinee, Pushkala, Pushti, Pushpa / flower etc.)

Pushpaka - Pushya ( Pushpaka, Pushpadanta, Pushpabhadra, Pushya etc.)

Pushyamitra - Puujaa (Puujaa / worship)

Puutanaa - Puurnabhadra (  Puurana, Puuru /pooru, Puurna / poorna / complete, Puurnabhadra /poornabhadra etc.)

 

 

पुरुष

ऋग्वेद १.६८.१०(वि राय और्णौद्दुरः पुरुक्षुः), ३.२५.२(स नो देवाँ एह वहा पुरुक्षो) इत्यादिषु पुरुक्षु शब्दः प्रकटयति। सायणभाष्यानुसारेण क्षुरिति अन्ननाम,  पुरवः क्षुधोऽन्नानि यस्येति पुरुक्षुः । किं पुरुक्षुः पुरुषशब्दस्य पूर्वरूपमस्ति, अयं विचारणीयः।

सामगाने हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार एवं निधनभक्तीनां व्यवहारः भवति। छान्दोग्योपनिषदानुसारेण हिंकारः सूर्योदयात् पूर्वावस्था, प्रस्तावः उदयात् उत्तरावस्था, उद्गीथः मध्याह्नः, प्रतिहारः अपराह्णः, निधनं अस्तावस्था अस्ति। अजा, अवि, गौ, अश्वः, पुरुषः एतेषां क्रमानुसारेण पशव सन्ति। अनेन प्रकारेण, निधनभक्तिः पुरुषस्य अस्ति। कथासरित्सागर ६.८.६७ मध्ये कथा अस्ति यत् कोपि विप्रः मानववसादीपेन पृथिव्यां निधानस्य अन्वेषणं करोति स्म। यदा तस्य दीपः अपतत्, सः अजानत् यत् अत्रैव निधानमस्ति। आधुनिकचिकित्साविज्ञाने अयं ज्ञातमस्ति यत् देहव्यापारः अस्थिमज्जातः प्रचलति। मज्जायाः कोशिका यदा विभाजिता भवति, तदैव नवीनकोशिकानां जननं भवति। कैंसरसंज्ञकव्याधिचिकित्साकाले मज्जाकोशिकानां विभाजनं रुद्धं भवति। अयं वसादीपस्य पतनमस्ति। यदा एवं भवति, तदा निधानस्य प्राप्तिः भवति।

 

१. अग्निं वै पुरुषस्य प्रमीतस्य मांसानि गच्छन्ति, सोमं रसः, पृथिवीं शरीरमियम्

(पृथिवी ) अदितिरस्यां हि शय एता वै देवता पुरुषस्येशते । काठ ११,८।।

२. अजातो वै तावत् पुरुषो यावदग्निं नाधत्ते, स वै तर्ह्येव जायते यर्ह्यग्निमाधत्ते । मै ,,

३. अथ खलु क्रतुमयो ऽयं पुरुषः स यावत्क्रतुरयम् अस्माल्लोकात् प्रेत्येवंक्रतुर्हामुं लोकं प्रेत्याभिसम्भवति । माश १०, , ,१ ।।

४. अथ यः पुरुषस्स प्राणस्तत् साम तद्ब्रह्म तदमृतम् । जैउ १, ,,१०।।

५. अथ याः पञ्चविंशतिः ( त्रिष्टुभः ), पुरुषस्सः, पञ्चेमाः पञ्चेमाः पञ्चेमाः पञ्चेमाश्चत्वारि प्राङ्गाणि । आत्मा पञ्चविंशः । जै २, ४७ ।

६. अथैतद् ऋतुपात्रं पुनः प्रयुज्यते , अश्वं वा एतत् प्रति , अश्वमेवैतेन दाधार, यदेतत् पुनः प्रयुज्यते तस्मादेतस्याश्वस्येवाधस्ताच् शफो, अथैतदादित्यपात्रं पुनः प्रयुज्यते, गां वा एतत् प्रति, गां एवैतेन दाधार, यद् भूयिष्ठाभिर् ऋग्भिर्भूयिष्ठः सोमो गृह्यते तस्माद् गौर्हन्यमानाद्यमाना पशूनां भूयिष्ठा , अथैतच् शुक्रपात्रं पुनः प्रयुज्यते, पुरुषं वा एतत् प्रति, पुरुषं एवैतेन दाधार , असौ वा आदित्यः शुक्रो , श्मय ऋतवो , अन्तरं ऋतुपात्रम् , शुक्रपात्रं पुनः प्रयुज्यते , अन्तरे ह्यमुष्मादादित्याद्रश्मयो । मै , ,

७. अथैष एव पुरुषो यो ऽयं चक्षुषि । जैउ १, , , २। ।

८. अथैष पुरुषो हिरण्ययो यजमानलोकमेवैष दाधार । मै , , ।।

९. अन्नात्पुरुषः । स वा एष पुरुषो ऽन्नरसमयः । तैआ ८, ,; तैउ २, , १ ।। १०. अपां गर्भः पुरुषः स यज्ञः । गो १, ,३९ । ।

११. शतं हिमा इति शतं वर्षाणि जीव्यासमित्येवैतदाह .....अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति । माश , , , १९

१२. अयज्ञियो वै पुरुषो ऽमेध्य आहनस्याज्जायते । पुरुक्षीरं धयति , हिरण्यं ददाति , आत्मानं एव तेन पुनीते - मै १, , ४ ।

१३. अरातीयन्ति वा अन्ये पुरुषाय नान्ये, येऽरातीयन्ति सा निर्ऋति , र्ये नारातीयन्ति सानुमति, ......अर्धं वै पुरुषस्य निर्ऋतिगृहीतमर्धमनिर्ऋतिगृहीतम् । मै , , ।।

१४. अर्धं वै पुरुषस्याग्नेयमर्धं वारुणम् - अस्थान्याग्नेयानि मांसानि वारुणानि । काठ १३,२।।

१५. अर्धं वै पुरुषस्यात्मनो ऽङ्गान्यर्धमायुः । क ४४, १ ।।

१६. अवछितो ह वै पुरुषः । तस्मादस्य यत्रैव क्व च कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति तस्मिन्नेतां त्वचमधुर्वास एव तस्मान्नान्यः पुरुषाद्वासो बिभर्त्येतां ह्यस्मिंस्त्वचमदधुस्तस्माद् सुवासा एव बुभूषेत् स्वया त्वचा समृध्या ऽ इति तस्मादप्यश्लीलं सुवाससं दिक्षिन्ते स्वया हि त्वचा समृद्धो भवति । माश ३, , , १६ ।

१७. अष्टौ वै पुरुषस्य शफाः । काठ १२, १ ।।

१८. असङ्गो ह्ययं पुरुषः । माश १४, , , १७ ।

१९. अस्मिन् वा अयं ( पुरुषः ) लोके पुण्यं जीवित्वेष्टापूर्तेन तपसा सुकृतेनास्मान् ( देवान् ) अन्वागमिष्यतीति ( देवा अब्रुवन् ) । जै १, ९७ ।।

२०. इमे वै लोका पूरयमेव पुरुषो यो ऽयं (वायुः ) पवते सो ऽस्यां पुरि शेते तस्मात्पुरुषः । माश १३, , , १ ।।

२१. उपोप्ते ऽन्ये ग्रहाः साद्यन्ते, ऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्ये पशवः प्रतितिष्ठन्ति, मांसेन पुरुषः। मै , , ।।

२२. एकादशो वा अयं पुरुषो दश प्राणा आत्मैकादशः । काश ३, , , १ ।

२३. एतावन्तः (७२०) एव पुरुषस्यास्थीनि च मज्जानश्च....., एतावन्तः (१४४०) एव पुरुषस्य स्थुरामांसानि....., एतावन्तः (२८८०) एवं स्नावा बन्ध्याः ....., एतावन्तः (१०८००) एव पुरुषस्य पेशशमराः । गो १,,५।।

२४. एतावद् (प्राणापानौ, चक्षुः, श्रोत्रम्, आयुः, रूपं, वर्णः, प्रजा, ऋतम् , सत्यम् , क्षत्रम् , भूतम् , भव्यम् , पशवः ) वै पुरुषं परितः तदेवावरुन्धे । तैसं ३,,,४ । २५. एतावद् ( व्याममात्रं ) वै पुरुषे वीर्यम् ( +यावदस्य प्राणाः [काठ.] )। तैसं ५, , , ; काठ २५,७ ।

२६. एतावान् पुरुषो यदात्मा प्रजा जाया। तां ३,,, १३,३ ।

२७. एतावान् वै पुरुषो यावदस्य प्राणा अभि, यावानेवास्यात्मा । काठ ११,५।।

२८. काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते । माश १४,,,७ ।

२९. चतुर्विंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि । माश ६,,,२३ ।।

३०. चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रः, स्तेषामेवैनं उद्भेदयति, ततः पञ्चाक्षान् प्रयच्छन्न् ह, दिशो अभ्यभूदयमिति , इमा एवास्मै पञ्च दिशोऽन्नाद्याय प्रयच्छति । मै ,, ।।

३१. तदेवाग्निस्तद् वायुस्तसूर्यस्तदु चन्द्रमाः । तदेव शुक्रं तद् ब्रह्म तदापस्तत् प्रजापतिः । काठसंक १०४ : १-२ ।।

३२. तमेव विदित्वाति मृत्युमेति, नान्यः पन्था विद्यतेऽयनाय । काठसंक १०३ : ४ ।।

३३. तस्मात्पुरुष उपरिष्टात् पशूनधीव तिष्ठति । जै २, ३७६ ।।

३४. तस्मै एतं पाप्मानमन्ववादधुः (देवाः ) स्वप्नं तन्द्रीं मन्युमशनयामक्षकाम्यां स्त्रीकाम्यामिति । एते ह वै पाप्मानः पुरुषमस्मिन् लोके सचन्ते । जै १,९७-९८ । । ॥

३५. ते देवा अब्रुवन् या एवेमा देवताश्छन्दांसि पुरुषे प्रविष्टा एताभिरेवासुरान् धूर्वामैवेति । जै  १,९८।।

३६. त्रीणि पुरुष इन्द्रियाण्यात्मा प्रजाः पशवः । जै १,१८६;,२७७ ।

३७. त्रेधाविहितो वै पुरुषः । तैसं ५,,,; काठ २०,; क ३१,४।।

३८. त्वङ् मांसं स्नायवस्थि मज्जा । एतमेव तत्पञ्चधा विहितमात्मानं वरुणपाशान्मुञ्चति । तै १,,,७ ।

३९. दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्याश्चत्वारि प्राङ्गाण्यात्मा पञ्चविंशष्षडिमानि पर्वाणि षडिमानि षडिमानि षडिमान्यात्मा पञ्चविंशो, द्वादशेमाः परिशवो द्वादशेमा, आत्मैव पञ्चविंशः । जै २, ३५४; ४१४ ।

४०. दश वै पुरुषे प्राणा (+आत्मैकादशः [काठ.J) काठ २९,; गो २, ,२ ।

४१. दश वै पुरुषे प्राणास्स्तनौ द्वादशौ । काठ ३३,३ ।।

४२. दशाक्षरो वै पुरुषः । तैसं ५,,१०,३ ।।

४३. द्वादशो वै पुरुषो द्वे सक्थ्यौ, द्वौ बाहू आत्मा च शिरश्च चत्वार्यङ्गानि, स्तनौ द्वादशौ ।  तैसं ७,,११,३ ।।

४४. नवाहानि । नव वै पुरुषे प्राणाः ।.... अथैतद् वैराजपृष्ठं दशममहर्भवति । नाभिर्ह सा । जै २,३६३ ।।

४५. न वै पुरुषं कपालैराप्तुमर्हत्येकधैवैनमाप्नोति । काठ १२,१ ।

४६. स दशमेनैवाह्ना सर्वां विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठति।.......दश पुरुषे प्राणा, आत्मैकादशः। ....न ह वै गौर्नाश्वो नाश्वतरो विराजमधितिष्ठति । पुरुषो ह वाव विराजमधितिष्ठति । तस्मात् पुरुषः पशूनामत्ता । जै , ३२३ ।।

४७. पञ्चविंशो ह खलु वै पुरुषः। जै २,४१४ ।

४८. पञ्च वै पुरुषे वीर्याणि । काठ ८,२ ।।

४९. इडाया इडामादधाति हस्त्याँ होत्रे पशवो वा इडा पशवः पुरुषः । पशुष्वेव पशून्प्रतिष्ठापयति तै ,,,। ।

५०. पाङ्क्तो  ह्ययं पुरुषः पञ्चधा विहितो लोमानि त्वगस्थि मज्जा मस्तिष्कम् । गो २,,८।

५१. पुरुषं वावैतदासते यत्संवत्सरम् । पुरुषो वै प्रजापतिः, प्रजापतिस्संवत्सरः । जै २, ४२७ ।

५२. पुरुष उभयतश्छिद्रः । क ४०,३ ।

५३. पुरुष एव षष्ठमहः । कौ २३,४।।

५४. पुरुष एव सविता । जैउ ४,१२,, १७ ।

५५. पुरुषः (+वै [जै.! प्रजापतिः । जै २,५६; माश ६,,,२३, , ,,३७ ।

५६. पुरुषमुपदधाति । स प्रजापतिः सोऽग्निः स यजमानः, स हिरण्मयो भवति, ज्योतिर्वै हिरण्यम् । माश ७,,,१५।

५७. पुरुषं प्रथममालभते । पुरुषो हि प्रथमः पशूनाम् । माश ६,,,१८ ।,

५८. पुरुषः सर्वा वाचो वदति । जै १,१९८; ३.३४९।

५९. पुरुषः सुपर्णः । माश ७,,,५।

६०. पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान् विधीयते तस्मात् पुरुषो यज्ञः । माश १, ,, १ ।

६१. पुरुषस्त्वै यज्ञेन सम्मितः । मै ४,,७ (तु. तैसं ५,,,; माश १०,,,२)।

६२. पुरुषेण वै (एव [काठ २७,१]) यज्ञस्संमितः । काठ १९,१।।

६३. पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति, विज्ञातं पश्यति, वेद श्वस्तनं, वेद लोकालोकौ, मर्त्येनामृतमीप्सत्येवं सम्पन्नः । ऐआ २,,२ ।।

६४. पुरुषो जातः संवत्सरे प्रतितिष्ठति । मै ४,,७ ।

६५. पुरुषो ऽन्तरतो विष्यूतः । क ४०,३ ।

६६. पुरुषो यज्ञः ( वाक् (काठ.J)। काठ २४,; माश ३,,,२३ ।

६७. पुरुषो वय इति मध्ये, तस्मात् पुरुषः पशूनामधिपतिः । काठ २०,१०  

६८. पुरुषो वाव (वै [माश.]) संवत्सरः । गो १,,; ; माश १२,,,१ ।।

६९. पुरुषो वाव सुकृतम् (होता (गो.J)। ऐआ २,,; गो २,,६ । ऐउ १,,३ ।।

७०. पुरुषो वै प्रजापतेर्नेदिष्ठम् । माश ४,,,३ ।।

७१. पुरुषो वै यज्ञः । कौ १७,; २५,१२; २८,; गो १,,२४; ,,१२; जैउ ४,, ; तै ३,, २३, ; माश १, ,,, ३,५,,१।।

७२. पुरुषो वै यज्ञः । तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातःसवनम् । •••अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनम्..... अथ यान्यष्टाचत्वारिंशतं वर्षाणि तत्तृतीयसवनम् अथ स (महिदास ऐतरेयः) षोडशशतं (२४+४४+४८=११६) वर्षाणि जिजीव। जैउ ४,,१-११।

७३. असौ वा आदित्यः शुक्रः, पुरुषो वैश्वदेवः, यच् शुक्रपात्रेण वैश्वदेवं गृह्णाति तस्मात् पुरुष एवामुं प्रत्यक् । मै ,,

७४. पुरुषो वै संवत्सरः माश १२,,,१ ।

७५. पुरुषो वै समुद्रः । जै ३,,,५।

७६. पुरुषो वै सहस्रस्य प्रतिमा । माश ७,,,१७ ।

७७. पुरुषो वै सुभूतम् । जै २,२७ ।।

७८. पुरुषो हि प्रजापतिः । माश ७,,,१५ ।

७९. पूर्णः पुरुषः कामैरूनस्समृद्धिभिः । काठ ८,११; क ७,८।।

८०. प्रजापतये पुरुषम् । काठ ९,; तैआ ३,१०,२।

८१. प्रजापतये पुरुषान् हस्तिना आलभते । मै ,१४,। ।

८२. प्रजापतिः पुरुषः । जै २,४७।

८३. प्राजापत्यः (प्राजापत्यो वै [तैसं., तै.J) पुरुषः । तैसं २,,,; मै ४,,; तै २,,,३ ।।

८४. प्राण एष स पुरि शेते सं पुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते । गो१,,३९ ।

८५. बार्हतः पुरुषः । मै ३,,१ ।

८६ स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां वीर्यवत्तम इति मनो वै सर्वे प्राणा मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव इति। माश ,,,

८७. यस्मात्परं नाऽपरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । तै १०,१०,१।।

८८. यावान् पुरुष ऊर्ध्वबाहुस्तावान् भवत्येतावद् वै पुरुषे वीर्यम् । तैसं ५, ,,१। (तु. मै ३, २,४)

८९. विंशो वै पुरुषो दश (+हि [त.J) हस्त्या अङ्गुल्यो (ङ्गुलयो [तैसं.J) दश पाद्याः

( पद्याः [तैसं.]) । तैसं ७,,,; तां २३, १४,५।।

९०. विदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते । ऐ ४,२२ । ९१. वैराजः (वैराजो वै [तां., तै. ) पुरुषः। काठ ३३, ; तां २, , ; १९, , ; तै ३,,,२।

९२. वैराजो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्याः दश प्राणाः । मै १,१०,१३ । ९३. वैश्वकर्मणं पुरुषं (आलिप्सत प्रजापतिः ) । माश ६,,,५ ।

९४. वैष्णवाः पुरुषाः । माश ५, ,,२ । ।

९५. व्यतिषक्तो वै पुरुषः पाप्मभिः । जै २,२८७ । ।

९६. व्याममात्री (अभ्रिः ) कार्यैतावद्वै ( भवत्येता° [तैसं.J) पुरुषे वीर्यं वीर्यसंमिता (+ क्रियते एतावान् वै पुरुष महिमा मै.)। तैसं ५, , ,; मै ३,,२ ।।

९७. व्याममात्रीं कुर्यात् । एतावद्वै पुरुषे वीर्यम् । काठ १९,; क २९,८ ।

९८. व्याममात्रो वै पुरुषः पुरुषः प्रजापतिः प्रजापतिरग्निः। माश ,,,३७

९९. शतायुः पुरुषः शतेन्द्रियः । तैसं २, , ११,; तै १, ,,; , , ; , ; १०,६ ।।

( तु. मै ४,,; कौ ११,७ ) ।।

१००. शतायुर्वाऽयं पुरुषः शततेजाः शतवीर्य्यः । माश ५,,,१३ (तु. माश ४,,,३) । १०१. त एक शतम् प्रयाज अनुयाजा भवन्ति शतायुर्वै पुरुषः शतपर्वा शतवीर्य्यः शतेन्द्रिय उप य एकशतमः स आत्मा । तद् एतद् अङ्गिरसाम् अयनम्

कौ १८, १०।।

(एकशतमी . ऋक् ! से यजमानलोकः [कौ २५,७])

१०२. शतायुर्वै पुरुषः शतवीर्यः । मै १,,; ११;,५  २,,७  ३,९  ४,,;; काठ ९,; ११,; तै ३,,१५, ; १६,; तां ५,,१३।।

१०३. शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रियः। ऐ २, १७; , १९; ,२ (तु. जै २, ९८; ९९; ४१८)।

शतायुर्वै पुरुषः शतवीर्यः आत्मैकशतः – तैब्रा १.७.६.४

१०४. शरीरपुरुष इति यमवोचाम य एवायं दैहिक आत्मा तस्यैतस्य योऽयमशरीरः प्रज्ञात्मा स रसः । शाँआ ८,३।।

१०५. षड्विधो वै पुरुषः षडङ्गः । ऐ २,३९ ।

१०६. षोडशकलः पुरुषो लोमेति द्वे अक्षरे त्वगिति द्वे असृगिति द्वे मांसमिति द्वे स्नाय्विति द्वे अस्थीति द्वे मेद इति द्वे मज्जेति द्वे ताः षोडश सम्पद्यन्ते । काठसं २२: ३-५ ।।

१०७. षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कला एव तद् द्विषन्तं पाप्मानं भ्रातव्यम् अवाञ्चम् अपवहन्ति श्रियम् आत्मनाश्नुते। । जै , १३२; ३३१; जैउ ३,,,१ तै १, , , ; माश ११,,, ३६ (तु. काठ २१, ८)।

षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कलाश एव तद् यजमानम् एतस्यां देवयोन्यां सिञ्चति। - जै १.३३१

१०८, षोढाविहितो वै पुरुष आत्मा च शिरश्च चत्वार्यङ्गानि । तैसं ५,,,१-२ । । १०९. संवत्सरे पुरुषः ( प्रतितिष्ठति ) । क ४२,२ ।।

११०. स एष पुरुषः समुद्रः .... स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः । ऐआ ,,

१११. स एष पुरुषः समुद्रः । ऐआ २, ,३ ।।

११२. सप्तदशः पुरुषः ( पुरुषो वै [काठ.J) प्राजापत्यश्चत्वार्यङ्गानि शिरोग्रीवमात्मा, वाक् सप्तमी, दश प्राणाः....। मै १,११,; काठ १४,६ ।

११३. सप्तदशो वै पुरुषो दश प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदशो ग्रीवाः षोडश्यः शिरः सप्तदशम् । माश ६,,,९।।

११४, स यत् पूर्वो ऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः । माश १४,,,।।

११५. सर्वो वै पुरुषो ऽग्निमान् । क २९,८।।

११६. सर्वो हि पुरुष आर्तस्सर्वो बुभूषति । मै ,,; काठ १२,१० ।

११७. इदं वै तन्मधु।......पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः। पुरः स पक्षी भूत्वा पुरः पुरुष आविषदिति स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किं चनानावृतं नैनेन किं चनासंवृतम्। माश १४,,५.१८

११८. सौम्यो वै देवतया पुरुषः । तैसं २,,,; ,१०,; तै १,,,३ ।

११९. हिरण्मयं पुरुषमुपदधाति यजमानलोकस्य विधृत्यै । तैसं ५,,,२।।

१२०. हिरण्यगर्भस्समवर्तताग्र इति पुरुषं हिरण्ययमुपदधाति, यजमानलोकमेवैतेन दधार (दाधार [क.J) । काठ २०,५. क ३१,७ (तु. तैसं ५,,,; मै ३,,६) ॥

पुरुषो वाऽक्षितिः ।.....त्रीण्यात्मनेऽकुरुतेति। मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति माश १४.४.३.७

पुरुष एवाग्निर्वैश्वानरः – जै १.४५

तौ यौ ताविन्द्राग्नी एतौ तौ रुक्मश्च पुरुषश्च रुक्म एवेन्द्रः पुरुषोऽग्निः – माश १०.४.१.६

पुरुषो वा अग्निर्गौतम। तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति – माश १४.९.१.१५

सप्त मा पुरुषा उप जीवानिति वा अग्निश्चीयते। त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तमः – तैसं ५.५.२.३

अमृतं पुरुषः – तैआ १.२५.१

मेखला भवत्य् ऊर्जम् एवाव रुन्द्धे मध्यतः सं नह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान् मध्यत ऊर्जा भुञ्जते । ऊर्ध्वं वै पुरुषस्य नाभेर् मेध्यमवाचीनममेध्यम् – तैसं ६.१.३.४, मै  ३.६.७, काठ २३.४, क ३६.१

स एवायमन्तरिक्ष आकाश एष एव स पुरुषः – जै २.५६

आत्मा  वै  पुरुषः – क ३१.७

आत्मा वै पुरुषस्य मधु। यन् मध्व् अग्नौ जुहोत्य् आत्मानम् एव तद् यजमानो ऽग्नौ प्र दधाति – तैसं २.३.२.९

सप्तपुरुषो ह्ययं पुरुषो यच्चत्वार आत्मा त्रयः पक्षपुच्छानि – माश ६.१.१.६

श्रीश्च ते लक्ष्मीश्च ते पत्न्या अहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् – काठसंक १०३.९

स यश्चायं पुरुषे यश्चासावादित्ये । स एकः। - तैआ ९.१०.४, तैउ ३.१०.४

आनुष्टुभः पुरुषस्तस्मात् पुरुषः सर्वा वाचो वदति – मै ४.७.५

पुरुष उद्गीथः(षो होद्गीथः – जैउ ४.७.१.१ ) जैउ १.११.१.९., ४.७.१.१

एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशः – काठ २२३.१,  १.१९, माश १३.५.१.६ ( तु. मै ३.६.३, जै ३.३१९)

एकविंशो वै पुरुषः – तैसं ५.१.८.१, काठ २०.८, क ३१.१०, तै ३.३.७.१

शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते ।.....एष वै शुक्रो य एष तपत्येष उ एवेन्द्रः पुरुषो वै पशूनामैन्द्रस्तस्मात् पशूनामीष्टे – माश ४.५.५.७

औष्णिहो वै पुरुषः – ऐ ४.३

पयो वै पुरुषः पय एतस्यामयति, पयसैवास्य पयो निष्क्रीणाति, - मै २.३.१

पयसि पुरुषमुपदधाति । पशवो वै पयो यजमानं तत्पशुषु प्रतिष्ठापयति – माश ७.५.२.१७

अबध्नन् पुरुषं पशुम् (देवाः) – काठसंक १०१.११

एषा ह वा अग्रे पशूनां त्वगास या पुरुषस्य (अस्ति), या पशूनां (अस्ति) सा पुरुषस्य (आस) – जै २.१८२

पशुर्वै पूरुषः – काठ १२.१

पुरुष उपरिष्टात्पशूनधीव तिष्ठति – जै ३.१६६

पुरुष उभयीं वाचं वदति या च राथन्तरी या च बार्हती। ते ये राथन्तराः पशवो राथन्तरीमस्य (पुरुषस्य ) ते वाचं पश्यन्त उपतिष्ठन्ते, ये बार्हता बार्हतीं ते। पुरुषो वै बृहद्रथन्तरयोस् संक्रोशः। – जै १.२९५

व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिम्̇हो वय इत्य् उत्तरे      पक्षयोर् एव वीर्यं दधाति  पुरुषो वय इति मध्ये तस्मात् पुरुषः पशूनाम् अधिपतिः ॥ – तैसं ५.३.१.६, काठ २०.१०, क३१.१२ (तु तां ६.२.७)

पुरुषो वै पशुः – जै २.४२

सप्तदशभिरस्तुवत, पशवोऽसृज्यन्त, बृहस्पतिरधिपतिरासीत् – तैसं ४.३.१०.२, मै २.८.६

पाङ्क्तः पुरुषः – तैसं २.३.२.९, मै २.३.५.६, काठ ११.२, ११.८, क ३५.७, कौ १३.२, को २.४.७, जै १.१९८, तां २.४.२

पाङ्क्तो ऽयं पुरुषः पंचधा विहितो लोमानि त्वङ् मांसमस्थि मज्जा  २.१४, ६.२९

पान्तो वै पुरुषः – जै ३.९५

षड् वै पुरुषे पाप्मानषष्ड विषुवन्त स्वप्नश्च तन्द्री च मन्युश्चाशनया चाक्षकाम्या च स्त्रीकाम्या च  - जै २.३६३

पुरुषश्छन्दसं ककुप् – जै ३.१९४, ३.२९०

पुरुषो वै ककुप् – जै १.२२९, १.२४३, तां ८.१०.६, १३.६.४, १६.११.७, १९.३.४, २०.४.३

गायत्रो वै पुरुषः – ऐ ४.३

पुरुषो वयस्तन्द्रं छन्दः – मै २.८.२

पुरुषस्त्रिरात्रः – जै २.२४५

त्रिवृतं हि स्तोमं पुरुषोन्वायत्तो धिष्ण्यानन्ये पशवः जै १.२५०

त्रैष्टुभो वै पुरुषस्त्रिष्टुब्योनिः – जै २.४७

द्विपाद्वै पुरुषः – ऐ ४.३, ५.१७, ५.१९, ५.२१ , गो १.४.२४, २.६.१२,  तै ३.९.१२.३ ( तु जै २.४३१   माश २.३.४.३३)

द्विप्रतिष्ठः पुरुषः – ऐ २.१८, ३.३१, गो १.४.२४, २.६.१२, (तु. तै २.९.१२.३

पुरुषो वै नदस्तस्मात् पुरुषो नदन्सर्वः संनदतीव – ऐआ १.३.५

पुरुषं ह वै नारायणं प्रजापतिरुवाच – गो १.५.११, माश १२.३.४.१

बृहती छन्द, स्तत् कृषिः,पर्जन्यो देवता, पङ्क्तिश्छन्दस्तत्पुरुषः परमेष्ठी देवता – मै २.१३.१४, काठ ३९.४

पञ्चविंशो ऽयं पुरुषो दशहस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश। - ऐआ १.१.२ (तु. काठ ३३.८, जै २.३५४

पुरुषो वै पञ्चविंशः जै  २.२०५

पुरुषसंमितं ह खलु वा एतत्सत्रं यदेव पञ्चविंशतिरात्रः जै २.३५४

पुरुष-कपाल- द्वे वै पुरुषकपाले । कौ ३०,४ ।

पुरुष-मेध१. अश्वमेधात्पुरुषमेधः । गो १,,७।

२. इमे वै लोकाः पुरुषमेधः। माश १३,,,९ ।

३. तस्य (पुरुषस्य वायोः ) यदेषु लोकेष्वन्नं तदस्यान्नं मेधस्तद्यदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधो ऽथो यदस्मिन्मेध्यान्पुरुषानालभते तस्माद्वैव पुरुषमेधः । माश १३,,, १ ।।

४. पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वं प्राविशत् । ऐ , ।।

, सः (प्रजापतिः ) पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त ! गो १, ,८ ।।

६. सर्वं पुरुषमेधः । माश १३, , , ६ ॥ [°ध- अग्निहोत्र- २९; नारायण- २ द्र.] । पुरुष-राज-

पुरुषराजाय मर्कटः । तैसं ५, , ११, ; काठ ४७, १ ।।

पुरुष-वत्- यद्वै पुरुषवान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुम् । माश ५, ,,४ । पुरुष-सम्पद्- पुरुषसम्पद्ध ह खलु वा एषा दशाक्षरा विराट् । दश पुरुषे प्राणाः । जै १,२३५ ।।

पुरुष-संमित- पुरुषसम्मितो यज्ञः । माश ३, , ,२३ ॥ [ °त- पवमान- २२ द्र. 1। पुरुषाऽऽयुस्- शतं वर्षाणि पुरुषायुषो भवन्ति । ऐआ २, , १ । ।