पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Pitaa to Puurnabhadra  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Pitaa- Pitriyaana ( words like  Pitaa / father, Pitaamaha / grandfather etc. )

Pitrivartee - Pishangajata ( Pinaaki, Pipeelikaa / ant, Pippalaa, Pippalaada etc.)

Pishaacha - Peevari ( Pishaacha, Pishta / ground, Peetha / chair, Peeta / yellow, Peevari etc.)

Punshchalee - Punyajana ( Punjikasthalaa, Pundareeka, Pundra, Punya etc.)

Punyajani - Punarvasu ( Punyasheela, Putra / son, Putri / Putree / daughter, Punarvasu etc.)

Punnaaga - Pureesha (Pura / residence, Puranjana, Puranjaya, Purandara, Puraana, Pureesha etc. ) 

Puru - Purusha ( Puru, Purukutsa, Purusha / man etc. )

Purusha - Pulaka  ( Purushasuukta, Purushaartha, Purushottama, Puruuravaa, Purodaasha, Purohita etc.)

Pulastya - Pulomaa ( Pulastya, Pulinda, Pulomaa etc.)

Pulkasa - Pushkaradweepa (  Pushkara etc. )

Pushkaraaksha - Pushpa ( Pushkaraavarta, Pushkarini /pushkarinee, Pushkala, Pushti, Pushpa / flower etc.)

Pushpaka - Pushya ( Pushpaka, Pushpadanta, Pushpabhadra, Pushya etc.)

Pushyamitra - Puujaa (Puujaa / worship)

Puutanaa - Puurnabhadra (  Puurana, Puuru /pooru, Puurna / poorna / complete, Puurnabhadra /poornabhadra etc.)

 

 

पुरीष

पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वि यत्पवित्रं धिषणा अतन्वतेति  पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥ऐब्रा १.२० 

वाजसनेयिसंहितायां ३.४० अन्वाहार्यपचनअग्न्योपरि उपस्थानमन्त्रः अस्ति - अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥ शतपथब्राह्मणे २.१.१.७ कथनमस्ति - अथाखुकरीषं सम्भरति । आखवो ह वा अस्यै पृथिव्यै रसं विदुस्तस्मात्तेऽधोऽध इमां पृथिवीं चरन्तः पीविष्ठा अस्यै हि रसं विदुस्ते यत्र तेऽस्यै पृथिव्यै रसं विदुस्तत उत्किरन्ति तदस्या एवैनमेतत्पृथिव्यै रसेन समर्धयति तस्मादाखुकरीषं सम्भरति पुरीष्य  इति वै तमाहुर्यः श्रियं गच्छति समानं वै पुरीषं च करीषं च । वैदिकवाङ्मये अन्यत्र वल्मीकवपायाः सम्भरणस्य निर्देशाः सन्ति। वम्रिः अपि पृथिव्याः रसं जानाति। किं पुरीषसंज्ञकस्य पवित्रस्य बृहदान्त्रेण सह आंशिक अथवा पूर्णसाम्यं अस्ति, अयं विचारणीयः। आधुनिकचिकित्साविज्ञानानुसारेण अन्नस्य यः प्रोटीनसंज्ञकः अंशः अस्ति, तस्य पाचनं क्षुद्रांत्रे न भवति। बृहदान्त्रे बैक्टीरियासंज्ञकाः ये क्षुद्रजीवाः सन्ति, ते प्रोटीनस्य किण्वनं कुर्वन्ति। अन्नस्य स्टार्च आदीनां विषये अपि अयमेव स्थितिः अस्ति। वैदिकवाङ्मये आखु, वम्रयोः स्थाने बैक्टीरियासंज्ञकानां क्षुद्रतमानां जीवानां उल्लेखः अस्ति।

वैदिकवाङ्मये अग्निचयने पञ्चचितीषु पञ्चप्रकारस्य पुरीषस्य उपयोगः भवति (माश ...१७)।

पुराणेषु पुरीषस्य पराकाष्ठा गोमयः अस्ति। गोमये लक्ष्मीः विराजति।

 

संदर्भाः

यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात्।

श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन्॥ १.१६३.०१

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्।

अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम्॥ १.१६४.१२

पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः।

जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः॥ ३.०२२.०४

पृणाति पूर्यते वेति पुरीषम् ' पुरीषं पृणातेः पूरयतेर्वा ' (निरु. .२२) इति यास्कः तदर्हन्तीति पुरीष्याः

आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात्।

स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य॥ ४.०२१.०३

एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः।

यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम्॥ ५.०४५.०६

मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत्।

मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः॥ ५.०५३.०९

उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः।

न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत॥ ५.०५५.०५

हे पुरीषिणः पृणतेः प्रीणातेर्वा पुरीषमुदकम्

पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि।

सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम्॥ ६.०४९.०६

अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात्।

श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति॥ १०.०२७.२१

देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन्।

त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम्॥ १०.०२७.२३

अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम्।

पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः॥ १०.०४८.०४

पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा।

देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये॥ १०.०६५.०९

वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता।

वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा॥ १०.१०६.०५

पुरीषा पुरीषौ धनादिदानेन स्तोतॄणां पोषयितारौ यद्वा हविर्भिः पोषणीयौ भवथः पुरीषं पुष्णातेः पोषयतेर्वा' (निरु. . २२) इति यास्कः

बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान्
पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः शौअ ११.१.३२

पूरीषं(प्र यो रिरिक्ष ओजसा इति) साम

पुरीषं(चक्रं यदस्याप्स्वा निषत्तं इति)

सा वै प्राक्प्रवणा स्यात् प्राची हि देवानां दिगथो उदक्प्रवणोदीची हि मनुष्याणां दिग्दक्षिणतः पुरीषं प्रत्युदूहत्येषा वै दिक्पितॄणां सा यद्दक्षिणाप्रवणा स्यात्क्षिप्रे यजमानोऽमुं लोकमियात्तथो यजमानो ज्योग्जीवति तस्माद्दक्षिणतः पुरीषं प्रत्युदूहति पुरीषवतीं कुर्वीत पशवो वै पुरीषम्पशुमतीमेवैनामेतत्कुरुते माश ...१७

१५६ मै ३.२.२, काठ २१.४, २५.४, क ३१.१९, माश १.२.५.१७,

अथाखुकरीषं सम्भरति आखवो वा अस्यै पृथिव्यै रसं विदुस्तस्मात्तेऽधोऽध इमां पृथिवीं चरन्तः पीविष्ठा अस्यै हि रसं विदुस्ते यत्र तेऽस्यै पृथिव्यै रसं विदुस्तत उत्किरन्ति तदस्या एवैनमेतत्पृथिव्यै रसेन समर्धयति तस्मादाखुकरीषं सम्भरति पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति समानं वै पुरीषं करीषं तदेतस्यैवावरुद्ध्यै तस्मादाखुकरीषं सम्भरति - माश २.१.१.७ द्र.] ।

ग्निं पुरीष्यमङ्गिरस्वदाभरेति पशवो वै पुरीषं पृथिव्या उपस्थादग्निं पशव्यमग्निवदाभरेति माश ६.३.१.३८, ७.५.१.९ ,

तदाहुः कथमस्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्सूददोहा लोम पुरीषस्य यजुरन्नम्पुरीषमेवमु हास्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति -माश ,,,, ,,२ ।

अथैनाः पुरीषेण प्रच्छादयति अन्नं वै पुरीषं रस एष तमेतत्तिरः करोति तस्मात्तिर इवान्नस्य रसः यद्वेव पुरीषेण अन्नं वै पुरीषं रस एषोऽन्नं तद्रसं संतनोति संदधाति यद्वेव पुरीषेण हृदयं वै स्तोमभागाः पुरीतत्पुरीषं हृदयं तत्पुरीतता प्रच्छादयति यद्वेव पुरीषेण संवत्सर एषोऽग्निस्तमेतच्चितिपुरीषैर्व्यावर्तयति तद्याश्चतस्रः प्रथमाश्चितयस्ते चत्वार ऋतवोऽथ स्तोमभागा उपधाय पुरीषं निवपति सा पञ्चमी चितिः पञ्चम ऋतुः माश ८.५.४.६ 

योनिः पुरीषवती ते संस्पृष्टे उपदधाति संस्पृष्टे ह्युदरं योनिश्च पुरीषसंहिते भवतो मांसं वै पुरीषं मांसेन वा उदरं योनिश्च संहिते पूर्वातिच्छन्दा भवत्यपरा पुरीषवत्युत्तरं ह्युदरमधरा योनिः माश ८.६.२.१४

अथ पुरीषं निवपति मांसं वै पुरीषं मांसेनैवैनमेतत्प्रच्छादयतीष्टकाउपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति माश ...

वै स्वयमातृण्णायामावपति प्राणो वै स्वयमातृण्णान्नं पुरीषं प्राणे तदन्नं दधाति तेन सर्वमात्मानं प्रच्छादयति तस्माद्यत्प्राणेऽन्नं धीयते सर्वमात्मानमवति सर्वमात्मानमनुव्येति माश ...

एष प्राण एव यत्पुरीषम् तेन सर्वमात्मानं प्रच्छादयति सर्वस्मिंस्तदात्मन्प्राणं दधाति माश ८.७.३.६

स एष प्राण एव यत्पुरीषम् । ८, , , ६ ।

ऐन्द्र  हि पुरीषम् । माश ८, , , ७ ।

न्द्रं हि पुरीषं तदेतदर्धमग्नेर्यत्पुरीषमर्धमैष्टकम् माश ...

अन्नं (+वै [माश ८,,,; ,,११, ) पुरीषम्

वया सि पुरीषम् । माश ८, , , १३ ।

आत्मन्- १७ माश ८.७.४.१६;

देवाः (नक्षत्राणि [माश ८, ,, १४]) पुरीषम् । माश ८, , ,१७ ।

अथातश्चितिपुरीषाणामेव मीमांसा अयमेव लोकः प्रथमा चितिः पशवः पुरीषं यत्प्रथमां चितिं पुरीषेण प्रच्छादयतीमं तल्लोकं पशुभिः प्रच्छादयति अन्तरिक्षमेव द्वितीया चितिः वयांसि पुरीषं यद्द्वितीयां चितिं पुरीषेण प्रच्छादयत्यन्तरिक्षं तद्वयोभिः प्रच्छादयति द्यौरेव तृतीया चितिः नक्षत्राणि पुरीषं यत्तृतीयां चितिं पुरीषेण प्रच्छादयति दिवं तन्नक्षत्रैः प्रच्छादयति यज्ञ एव चतुर्थी चितिः दक्षिणाः पुरीषं यच्चतुर्थी चितिं पुरीषेण प्रच्छादयति यज्ञं तद्दक्षिणाभिः प्रच्छादयति यजमान एव पञ्चमी चितिः प्रजा पुरीषं यत्पञ्चमीं चितिं पुरीषेण प्रच्छादयति यजमानं तत्प्रजया प्रच्छादयति स्वर्ग एव लोकः षष्ठी चितिः देवाः पुरीषं यत्षष्ठीं चितिं पुरीषेण प्रच्छादयति स्वर्गं तल्लोकं देवैः प्रच्छादयति माश ...१७

यद्धि किं चैष्टकमग्निरेव तत्तस्मात्तदग्निना पचन्ति यद्धि किं चाग्निना पचन्त्यग्निरेव तदथ यत्पुरीषं इन्द्रस्तस्मात्तदग्निना पचन्ति। माश १०, , ,

अप्रोषितस्य प्रेतस्याग्निहोत्रिणोऽन्त्यकर्म -- अथैनं विपुरीषं कृत्वा। अस्यां पुरीषं प्रतिष्ठापयति। पुरीषं वा इयम्। तत्पुरीष एवैतत्पुरीषं दधाति। या वा अस्यैषा वृकला सपुरीषा। तस्यै विदग्धायै सृगालः संभवति। नेत् सृगालः संभवदिति। तदु तथा कुर्यात्। क्षोधुका हास्य प्रजा भवति। तमंतरतः प्रक्षाल्य, आज्येनान्वनक्ति। मेध्यमेवैनं तत्करोति॥माश १२, , ,

अथास्मिन्पय आनयति। घर्मैतत्ते पुरीषमित्यन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति तेन वर्धस्व चा प्यायस्वेति माश १४,,,२३  

४. शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठमेव तत् पशुभ्यः पर्यस्यन्ति तमेवैनान् प्रवर्त्यन्त्यविस्रंसाय । तां १३, , १३

७. असपत्नविराडाख्येष्टकाभिधानम् --  यद् एते इष्टके उपदधाति जाताश् चैव जनिष्यमाणाश् भ्रातृव्यान् प्रणुद्य वज्रम् अनु प्र हरति स्तृत्यै पुरीषवतीम् मध्य उप दधाति पुरीषं वै मध्यम् आत्मनः सात्मानम् एवाग्निं चिनुते सात्मामुष्मिँल्लोके भवति एवं वेद   । तैसं , , ,

मांसं ( + वै [माश ८, , , १४, , ,१) पुरीषम् । काठ २०, ; क ३१ ३;

माश ८, . ,,१९ ।

पुरीषीति वै गृहमेधिनं आहुः , पुरीषस्य खलु वा एतन् निरूपं यदाखुकिरि , र्यदाखुकिरिमुपकीर्याग्निमाधत्ते पुरीषी गृहमेधी भवति - मै १.६.३ (तु. माश २.१.१.७),

ऐळानि पुरीषाणि भवन्ति। पशवो वा इळा, आयतनं पुरीषम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयन्ति। जै ३.११४;

पशु- ११० माश ८.७.४.१२;

यजमानो वै पुरोडाशः प्रजा पशवः पुरीषम् यदेवमभिवासयति यजमानमेव प्रजया पशुभिः समर्धयति  तैब्रा ३.२.८.९, ९.१२;

पूर्वपक्षाश् चितयो ऽपरपक्षाः पुरीषम् अहोरात्राणीष्टका - तैसं ५.७.६.६

(वेदिं) पुरीषवतीं करोति प्रजा वै पशवः पुरीषम् प्रजयैवैनम् पशुभिः पुरीषवन्तं करोति  तैसं २.६.४.३

पुरीष्य- ओदनपचनो वै पुरीष्यः । क ६, ११

अन्नं मे पुरीष्य पाहि तन्मे गोपाय धनं मे शँस्याजुगुपस्तन्मे पुनर्देहि काठ ७.३

अयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः।
अग्ने पुरीष्याभि द्युम्नमभि सह यच्छस्व॥
अथर्य पितुं मेऽजुगुपस्तं मे पाह्येव पित्र्यान्मा भयादजुगुपस्तस्मान्मा पाह्येवेत्यन्वाहार्यपचनम् ॥४
अयमग्निर्गृहपतिर्गार्हपत्यात्प्रजाया वसुवित्तमः।
अग्ने गृहपतेऽभि द्युम्ननभि सह यच्छस्व॥
नर्य प्रजां मेऽजुगुपस्तां मे पाह्येव मानुषान्मा भयादजुगुपस्तस्मान्मा पाह्येवेति गार्हपत्यम् शांश्रौसू. २.१५.

गार्हपत्येऽयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहेति दक्षिणेऽयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः अग्ने पुरीष्याभि-द्युम्नमभिसह आयच्छस्व स्वाहेति - आश्व.श्रौ.सू. २.५.१२