PURAANIC SUBJECT INDEX

(From vowel U to Uu)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

Udaana - Udgeetha  (Udaana, Udumbara, Udgaataa, Udgeetha etc.)

Uddaalaka - Udvartana (Uddaalaka, Uddhava, Udyaana/grove, Udyaapana/finish etc. )

Unnata - Upavarsha ( Unnetaa, Upanayana, Upanishat, Upbarhana, Upamanyu, Uparichara Vasu, Upala etc.)

Upavaasa - Ura (Upavaasa/fast, Upaanaha/shoo, Upendra, Umaa, Ura etc. )

Ura - Urveesha (Ura, Urmilaa, Urvashi etc.)

Uluuka - Ushaa (Uluuka/owl, Uluukhala/pounder, Ulmuka, Usheenara, Usheera, Ushaa etc.)

Ushaa - Uurja (Ushaa/dawn, Ushtra/camel, Ushna/hot, Uuru/thigh, Uurja etc.)

Uurja - Uurdhvakesha (Uurja, Uurjaa/energy, Uurna/wool ) 

Uurdhvakesha - Uuha (Uushmaa/heat, Riksha/constellation etc.)

 

 

 

उष्णीष

संदर्भ

१महावीरोपक्रमे घर्मधुग्दोहः - अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः। पूषासि घर्माय दीष्व ॥ - वा.यजुर्वेद संहिता ३८.३

२स उदतिष्ठत् स प्राचीं दिशमनु व्यचलत्।- - - - - -श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥५॥- - - - - स उदतिष्ठत् स दक्षिणां दिशमनु व्यचलत्। - - - -उषा पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं - - - -॥१२॥- - - - स उदतिष्ठत् स प्रतीचीं दिशमनु व्यचलत्।- - - -इरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं - - - - ॥ २०॥- - - - स उदतिष्ठत् स उदीचीं दिशमनु व्यचलत्।- -- - - - - -विद्युत् पुंश्चली स्तनयित्नुर्मागधो विज्ञानं  वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः॥ २९॥– अथर्ववेद १५.२.५ - २९

उष्णीषं त्वा शीर्षक्त्या वासस्त्वा तन्वामयात् ।
चन्द्रं हिरण्यमन्ध्यात् कर्णाद्दत्तं शुक्रं भ्राजद् बाधिर्यात् पातु दक्षिणा ।।६।।- - - - - -पैप्पलाद संहिता ७.१५.६

४क्रतुर् यो नि द धी वासो जरायु पाण्डमु त्वं? नाभिर् उष्णीषम्। अस्याम् अजरं दुहे तु मातरं वशी ब्रह्मभिः क्लृप्तस् स ह्य् अस्या बन्धुः ॥ - पै.सं. १३.५.२८

५अथ सम्प्रेष्यति। सोमोपनहनमाहर, सोमपर्याणहनमाहर, उष्णीषमाहरेति। - - - -यद्युष्णीषं विन्देत् उष्णीषः स्यात्। यद्युष्णीषं न विन्देत् - सोमपर्याणहनस्यैव द्व्यंगुलं वा त्र्यंगुलं वाऽवकृन्तेद् - उष्णीषभाजनम्। - शतपथ ब्राह्मण ३.३.२.३

६अथ सोमोपनहनस्य समुत्पार्यान्तानुष्णीषेण विग्रथ्नाति - प्रजाभ्यस्त्वा इति। प्रजाभ्यो ह्येनं क्रीणाति। - मा.श.३.३.२.१८

७अनुबन्ध्याप्रायश्चित्तम् : तानि पशुश्रपणे श्रपयन्ति। तदेवैतं मेधं श्रपयन्ति। उष्णीषेणावेष्ट्य गर्भं पार्श्वतः पशुश्रपणस्योपनिदधाति। - मा.श.४.५.२.७

८रत्नयागाः - एतद्वाऽअस्यैकं रत्नं - यत् पालागलः। तस्माऽएवैतेन सूयते। तं स्वमनपक्रमिणं कुरुते। तस्य दक्षिणा - अप्युक्ष्णवेष्टितं धनुः, चर्ममया बाणवन्तो, लोहितऽउष्णीषः। - मा.श.५.३.१.११

९गवाजपयोऽवसेचनं ब्राह्मणम् : तामागतामभिदधाति - अदित्यै रास्नाऽसीन्द्राण्या उष्णीषः इति। इन्द्राणी ह वा इन्द्रस्य प्रिया पत्नी। तस्या उष्णीषो विश्वरूपतमः। सोऽसीति तदाह। - मा.श.१४.२.१.८

१०सौश्रवस साम के संदर्भ में आख्यान : औरव कुत्स जिसका रूप इन्द्र के समान था, को शची पौलोमी ने इन्द्र के भ्रम से पकड लिया। इन्द्र ने रूप में अन्तर करने के लिए कुत्स को गंजा कर दिया। - - -तं ह खलतिं चकार। स होष्णीषं परिहृत्योपनिपेदे। स एवैष संग्रहीतुर् उष्णीषः। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्, उष्णीषेण वै मा परिहृत्योपन्यपादीति। - - - - -जैमिनीय ब्राह्मण ३.१९९

११वशागर्भनिमित्तपूर्वोक्तमन्त्रव्याख्याभिधानम् : अष्टाप्रूड्ढिरण्यं दक्षिणाऽष्टापदी ह्येषाऽऽत्मा नवमः पशोराप्त्या अन्तरकोश उष्णीषेणाऽऽविष्टितं भवत्येवमिव हि पशुरुल्बमिव चर्मेव माँसमिवास्थीव - - - -तैत्तिरीय संहिता ३.४.१.४

१२राजसूयः। जलसंस्कारः - क्षत्रस्योल्बमसि क्षत्रस्य योनिरसीति तार्प्यं चोष्णीषं च प्रयच्छति सयोनित्वाय - तैत्तिरीय ब्राह्मण १.७.६.४

१३आज्ययुक्ते महावीरे पयःप्रक्षेपणं प्रवृञ्जनम् : अदित्यै रास्नाऽसि। इड एहि। अदित एहि। सरस्वत्येहि। असावेहि। असावेहि। असावेहि। अदित्या उष्णीषमसि। वायुरस्यैड:। - तैत्तिरीय आरण्यक ४.८.२

१४अदित्या उष्णीषमसीत्याह। यथा यजुरेवैतत्। वायुरस्यैड इत्याह। वायुदेवत्यो वै वत्सः। - तैत्तिरीय आरण्यक ५.७.६

१५देवों के सर्वचरु सत्र में त्रुटि के निवारण हेतु काद्रवेय सर्प ऋषि द्वारा मन्ध्यंदिन सवन में ग्रावास्तोत्रीय ऋचाओं का पाठ करने पर सोम राजा के मदाविष्ट होने पर उपाय :तान्ह राजा मदयांचकार ते होचुराशीविषो वै नो राजानमवेक्षते हन्तास्योण्णीषेणाक्ष्यावपिनह्यामेति तथेति तस्य होष्णीषेणाक्ष्यावपिनह्युः तस्मादुष्णीषमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति। - - - - ऐतरेय ब्राह्मण ६.१

१६इन्द्र द्वारा ऋग्वेद, यजुर्वेद व सामवेद का रूप धरण करके यज्ञ की रक्षा हेतु उसका आच्छादन करने पर भी देवताओं का संतुष्ट न होना। - स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्। तं देवा अब्रुवन् -- एतत् तद् रूपं कुरुष्व, एतेन नो रूपेण भूयिष्ठं छादयसि, एतेन शक्ष्यसि गोप्तुमिति। तद् यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्, तद् ब्रह्माभवत्। तद् ब्रह्मणो ब्रह्मत्वम्। तद् वा एतदथर्वणो रूपं यदुष्णीषी ब्रह्मा। - गोपथ ब्राह्मण १.२.१९

१७अरण्य में दीक्षित द्वारा करणीय कर्म : उष्णीषम्बिभर्त्ति शिल्पत्वाय। - ताण्डय ब्राह्मण १६.६.१३

१८व्रात्ययज्ञाद्यग्निहोत्र समाप्तिः। दक्षिणा द्रव्यं : उष्णीषञ्च प्रतोदश्च ज्याह्णोडश्च विपथश्च फलकास्तीर्णः - - - - - तां.ब्रा. १७.१.१४

१९यदाहाष्टापदीं भुवनानु प्रथन्तां स्वाहेत्यथास्योष्णीषेण वा वल्कनेन वा शिरः प्रतिनह्य व्युह्य पशुश्रपणं तदेनमुपसमादधाति - काण्व शतपथ ब्राह्मण ५.६.४.७

२०पशुबन्धम् : - - - - तृतीयेऽन्तरकोश उष्णीषेणावेष्टितं भवति विबिलानिव कोशान् कुर्यादेवमेव हि पशुर्लोम चर्म माँसमस्थि मज्जा पशुमेवाप्नोति - काठ. संहिता १३.१०

२१ध्रुवक्षितिः - - - - प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः। - काठ. संहिता १७.१२

२२अथ यत् पुनः समुह्याग्नये समवद्यति यथा शल्यं निर्हृत्योष्णीषेण वेष्टयन्त्येवं तद्भूतिकामं याजयेत् - मैत्रायणी संहिता २.३.१

२३अग्निचितिः - नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः। - मै.सं. २.९.३

२४राजसूय ब्राह्मणम् : क्षत्रस्य योनिरसि, क्षत्रस्योल्बमसि, क्षत्रस्य नाभिरसीतीन्द्रो वै यदजायत तस्य वा एष योनिरासीद्यत्तार्प्यमुल्बं पाण्डरं, नाभिरुष्णीषः, सूतवशाया अध्यजायत - मै.सं. ४.४.३

२५स वै तिष्ठन्नभिष्टौति तिष्ठन्तीव वै ग्रावाणः स वा उष्णीष्यपि नद्धाक्षोऽभितुष्टाव तस्माद्वा अप्येतर्ह्युष्णीष्येव ग्राव्णोऽभिष्टौत्यथो खल्वाहुश्चक्षुरियाय ससर्प आस - - - - शांखायन ब्राह्मण २९.१

२६उष्णिक् छन्दः  - उष्णिगुत्स्नानात् स्निह्यतेर्वा कान्तिकर्मणोऽपि वोष्णीषिणीत्यौपमिकम्। - देवताध्याय ब्राह्मण ३.४

२७उष्णिग् - उत्स्नाता भवति। स्निह्यतेर्वा स्यात्कान्तिकर्मणः। उष्णीषिणी - वा - इत्यौपमिकम्। उष्णीषं स्नायतेः। - यास्क निरुक्त ७.१२

२८उषेर्नक् च इति भोजः। ओषति दीप्यते शोभत इति उष्णीषम्। - उणादि सूत्र प्रक्रिया सर्वस्व ४.३० टीका

२९ष्णिह प्रीतौ - काशकृत्स्न धातु पाठ ३.३९

३०यद्यष्टापदीत्यनुबुध्येत धाता रातिः सूर्यो देवो दिविषद्भ्य इत्याहुती हुत्वाष्टाप्रूड्ढिरण्यमुष्णीषेणावेष्ट्य। - आपस्तम्ब श्रौत सूत्र ९.१८.१६

३१अग्निष्टोम प्रातसवनम् : नक्षत्राणां मातीकाशात्पाहीति शिरः। उष्णीषेण प्रदक्षिणं शिरो वेष्टयत इति वाजसनेयकम्। न पुरा सोमस्य क्रयादपोर्ण्वीतेत्युक्तम्। आप.श्रौ.सू. १०.९.९

३२सोमक्रयण प्रकरणम् : प्रजाभ्यस्त्वेत्यवशिष्टानंशूनुपसमूह्य क्षौमेण वाससोपसंगृह्य प्राणाय त्वेति द्विगुणेनोष्णीषेणोपनह्य व्यानाय त्वेति विस्रस्यावेक्षते - - - - आप.श्रौ.सू. १०.२४.१४

३३माध्यंदिन सवनं : विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति। - आप.श्रौ.सू. १३.१.५

३४प्रायणीय अह में स्नान के पश्चात् : अहते वसानावुदितः। सोमोष्णीषं यजमानः परिधत्ते। सोमोपनहनं पत्नी सोमपरिश्रयणं वा। ते उदवसानीयायामध्वर्यवे दत्तः। - आप.श्रौ.सू.१३.२२.३

३५अग्निचयनम् : उदवसाय रोहिणीं वत्सच्छवीं सकर्णपुच्छावच्छातां सखुरां सखुरिकां वा बहिर्लोमः परिधायोष्णीषेण प्रदक्षिणं शिरो वेष्टयित्वौदुम्बरं चमसमादत्ते। - आप.श्रौ.सू.१७.२६.१४

३६राजसूयः - क्षत्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते। क्षत्रस्य योनिरसीति पाण्डरमुष्णीषं द्वितीयम्। श्वेतं पाण्डरमित्याचक्षते। त्रीण्येके पाण्डर तार्प्योष्णीषाणि। शिरसि वोष्णीषम्। - आप.श्रौ.सू.१८.१४.१

३७सर्वेष्वाभिचरणिकेषु लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति मल्हा इति। - आप.श्रौ.सू.१९.१६.६

३८वर्षण -- कृष्णोष्णीषाः कृष्णवसना निवीता ऋत्विजः प्रचरन्ति। - आप.श्रौ.सू. १९.२६.१५

३९लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति। - आप.श्रौ.सू.२२.४.२२

४०उष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णो - - -आप.श्रौ.सू. २२.५.५

४१प्रवर्ग्यः असावेह्यसावेहीति अथैनां रशनयाभिदधात्यदित्या उष्णीषमसीति - बौधायन श्रौत सूत्र ९.९

४२अथास्मा (ग्रावस्तुतं) अध्वर्युरुष्णीषं प्रयच्छति। तदञ्जलिना प्रतिगृह्य त्रिः प्रदक्षिणं शिरःसंमुखं वेष्टयित्वा यदा सोमांशूनभिषवाय व्यपोहन्त्यथ ग्राव्णोऽभिष्टुयात्। - - - - - - - सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा पावमानीरोप्य यथार्थमावाऽऽग्रहग्रहणाच्छिष्टया परिधाय वेद्यं यजमानस्योष्णीषम्। - आश्वलायन श्रौत सूत्र ५.१२.६

४३अनूच्योन्मुच्योष्णीषमादित्यमीक्षयेन्मित्रस्य त्वा चक्षुषा प्रतीक्षे मित्रस्य त्वा चक्षुषा समीक्षे। - आश्वलायन श्रौत सूत्र ८.१४.१७

४४सोमयागे सोमक्रयणम् : प्रेष्यति च सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति। अत्र वा निवपनम्।  शोभनं सोमोपनहनम्। उष्णीषाभावे सोमपर्याणहनाद् द्व्यङ्गुलं त्र्यङ्गुलं वोष्णीषायावकृन्तति। - कात्यायन श्रौत सूत्र ७.७.४

४५(सोमोपनहनस्य) अन्तान्त्संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति। - कात्यायन श्रौत सूत्र ७.७.१७

४६राजसूयः - लोहित उष्णीषः। कृष्णापस्तर्य्यपहतोत्तमस्य। - कात्यायन श्रौ.सू. १५.३.२०

४७सत्राणि : अवदानसहितमधिश्रित्योष्णीषवेष्टितं गर्भं पार्श्वतो  निदधाति - - - कात्यायन श्रौ.सू. २५.१०.७

४८माध्यन्दिन सवनम् : उत्तमे ग्रहे गृहीतेऽर्बुदस्योत्तमया परिधायादायोष्णीषमुत्सृज्यते। सत्राहीनानां त्वन्त्येऽहनि। - शांखायन श्रौत सूत्र ७.१५.१७

४९उदयनीय अतिरात्रम् : स्नान्ति। अलङ्कुर्वन्ति। उष्णीषान्पर्यस्यन्त्या केशानां संजननात्। - शांखायन श्रौत सूत्र १८.२४