PURAANIC SUBJECT INDEX

(From vowel U to Uu)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

Udaana - Udgeetha  (Udaana, Udumbara, Udgaataa, Udgeetha etc.)

Uddaalaka - Udvartana (Uddaalaka, Uddhava, Udyaana/grove, Udyaapana/finish etc. )

Unnata - Upavarsha ( Unnetaa, Upanayana, Upanishat, Upbarhana, Upamanyu, Uparichara Vasu, Upala etc.)

Upavaasa - Ura (Upavaasa/fast, Upaanaha/shoo, Upendra, Umaa, Ura etc. )

Ura - Urveesha (Ura, Urmilaa, Urvashi etc.)

Uluuka - Ushaa (Uluuka/owl, Uluukhala/pounder, Ulmuka, Usheenara, Usheera, Ushaa etc.)

Ushaa - Uurja (Ushaa/dawn, Ushtra/camel, Ushna/hot, Uuru/thigh, Uurja etc.)

Uurja - Uurdhvakesha (Uurja, Uurjaa/energy, Uurna/wool ) 

Uurdhvakesha - Uuha (Uushmaa/heat, Riksha/constellation etc.)

 

 

 

उर

वैष्णवसम्प्रदाये कृष्णः राधायाः उरतः अमृतपानं करोति। अयं संकेतमस्ति यत् पुरुषः सात्त्विकप्रकृत्याः उरतः अमृतपानस्य अपेक्षां करोति। कथनं सरलमस्ति, निष्पादनं कठिनम्। शतपथब्राह्मणे ३.९.४.१५ आख्यानमस्ति यत् कानि आपः इन्द्रस्य प्रियाणि सन्ति। प्रथमतः, अप्सु स्यन्दनस्य गुणं नासीत्। यदा आपः वृत्रस्य, गुरुत्वाकर्षणस्य वधं कुर्वन्ति,  तदैव स्यन्दनस्य गुणं गृह्णन्ति। तदोपरि, इन्द्रः अपसः पुनः स्थिरीभवनस्य अपेक्षां करोति। पौराणिकवाङ्मये आपः अर्जितपुण्यानां प्रतीकाः सन्ति। अपसः स्यन्दनस्य आरम्भः पद्भ्यां भवति। तदा ते ऊरुप्रदेशे आगच्छन्ति, तदा उरःप्रदेशे। अन्ततः शीर्षे गच्छन्ति।  शतपथब्राह्मणे १२.५.२.७, जैब्रा १.४८ उरसि ध्रुवापात्रस्य स्थापनस्य निर्देशमस्ति।

व्यवहारे, वयं अन्यस्य उरतः न अमृतस्य, अपितु गरलस्य पानं कुर्वामः। कोपि कटुशब्दः अस्माकं उरं विदारयति। समस्यायाः किं समाधानमस्ति। वैदिककर्मकाण्डे पशोः हृदयस्य वेधनं शूलेन कुर्वन्ति। अयं शूलः पशोः हृदये ये शोकाः सन्ति, तेषां चोषणं करोति।  तस्य शूलस्य उपगूहनं शुष्क-आर्द्रस्य सन्धिस्थाने कुर्वन्ति। अस्य किमर्थमस्ति, न ज्ञातमस्ति। वैदिकवाङ्मये सार्वत्रिकरूपेण उरसः साम्यं पृथिव्यासह कृतमस्ति(इयमुरः – माश १०.६.५.[३], शौअ ९.५.२०)। यथा चर्मनिर्मितेन उपानहस्य धारणेन पृथिव्याः कण्टकानां आभासं न भवति, एवमेव कोपि चर्मः अस्ति यस्य धारणेन उरसि कण्टकानां कष्टं न भवति। जैमिनीयब्राह्मणे १.११४ अयं चर्मः ब्रह्मवाक् अस्ति। तैसं ७.२.७.४ कथनमस्ति - उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः ।

इयं शब्दः पृथिव्याः सूचकः अस्ति। यः पृष्ठः भवति, तत् द्युलोकस्य सूचकः भवति। अयमपि संभवं अस्ति यत् इयंशब्दः पृथिव्याः अपेक्षा वाचः प्रतीकं भवेत्। वाक् यः अन्तर्मुखी अस्ति, यस्मात् न कोपि विचारः बहिः प्रसरति। रजनीशमहोदयस्य व्याख्यानं अस्मिन् संदर्भे उल्लेखनीयः अस्ति। कोपि जनः बुद्धं अपशब्दं वाचयति। बुद्धः न कोपि उत्तरं ददाति। अपशब्दवाचयिता विस्मितः भवति। बुद्धः कथयति यत् तस्य अपशब्दानां ग्रहणं न मया कृतमस्ति। अतएव, ते अपशब्दाः पुनः दातारमेव गताः सन्ति। भविष्यपुराणे ४.८३.९२ उरसि संवर्त्तनामतः विष्णोः न्यासकरणस्य निर्देशमस्ति।

तैसं ६.३.१०.४ कथनमस्ति यत् उरसि या वेदना अस्ति, तस्याः मूलं हृदयमस्ति। हृदयस्य वेदना जिह्वोपरि गच्छति, जिह्वातः उरसोपरि। शिवपुराणे ३.१०.२९ उल्लेखमस्ति यत् हिरण्यकशिपोः हननस्यानन्तरं नृसिंहस्य हृदयः अतिउद्विग्नः आसीत्। प्रह्लादस्य उरसः आलिङ्गनोपरि अयं शान्तः अभवत्।

उरसः वेदनायाः अपनयनस्य एकं समाधानं उरसि मण्याः धारणमस्ति। शौअ १०.३.११ अयं मणिः कोपि वरणमणिः अस्ति। शौअ १९.३२.२ अयं मणिः दर्भमणिः अस्ति यस्याः जननं अपसः भवति। ऋ. १०.१५५.४ कापि मण्डूरधाणिकीः अस्ति। सा यदा प्राचीं उरसोपरि आगच्छति, तदा इन्द्रस्य शत्रूणां नाशः भवति। महाभारते द्रोण २९.१८ भगदत्तः अर्जुनस्योरसि दिव्याङ्कुशस्य प्रहारं करोति। कृष्णः तमङ्कुशं स्ववक्षोपरि गृह्णाति। तदा तत् वैजयन्तीमालारूपे परिवर्तते।

गरुडपुराणे १.१०७.३५ चिताचयने मृतस्य उरसि दृषदस्य स्थापनायाः निर्देशमस्ति। दृषदः अजस्रं पिनष्टि, अयं कथनमस्ति। हृदयः त्वेषस्य स्थानमस्ति, अयं कथनमस्ति। किं दृषदः पेषणेन त्विषेः सर्जनं करोति, अन्वेषणीयः। शतपथब्राह्मणे १२.५.२.७, जैब्रा १.४८ मृतकस्य उरसि ध्रुवापात्रस्य स्थापनस्य निर्देशमस्ति।

  पुराणेषु कथनमस्ति (महाभारतम् भीष्म १११.४६ ) यत् महाभारतयुद्धे भूरिश्रवणा भीमस्य उरसि यः शरः प्रक्षिप्तः आसीत्, तेन भीमस्य उरसः वेधनं एवंप्रकारेण कृतमासीत् यथा स्कन्दस्य शक्तिना क्रौञ्चपर्वतस्य।

संदर्भाः --

न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥ऋ १.१५८.५

यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥ऋ १०.१५५.४

अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।
अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥शौअ ९.५.२० {१२}

अयं मे वरण उरसि राजा देवो वनस्पतिः ।
स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥शौअ १०.३.११

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥शौ १०.८.१८

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
कृष्या न रात्स्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
पृथिव्योरसा ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥शौअ ११.४.४१॥ [१०]

क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥शौअ १२.१०.२ ४८॥

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥शौअ १३.२.३८

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।
तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । - शौअ १३.३.१४

नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥शौअ १९.३२.२॥ दे. दर्भः

यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥शौअ २०.१३७.१

यत् पशुर् मायुम् अकृतोरो वा पद्भिर् आहते । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अहसः ॥ - तैसं ३.१.४.३

मृत्खननम्-- व्यचस्वती सं वसाथाम् भर्तम् अग्निम् पुरीष्यम् ॥ सं वसाथा सुवर्विदा समीची उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत्। - तैसं ४.१.३.२

हृदयस्याग्रे ऽव द्यत्य् अथ जिह्वाया अथ वक्षसो यद् वै हृदयेनाभिगच्छति तज् जिह्वया वदति यज् जिह्वया वदति तद् उरसो ऽधि निर् वदति । - तैसं ६.३.१०.४

उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत्  साम राजन्यो मनुष्याणाम् अविः पशूनाम् । तस्मात् ते वीर्यावन्तः । वीर्याद् ध्य् असृज्यन्त मध्यतः – तैसं ७.१.१.४

उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः । वाचैवैनम् इन्द्रियेण सम् अर्धयति न ततः पापीयान् भवति । - तैसं ७.२.७.४

ओजो वै वीर्यम् पृष्ठानि पशवः  छन्दोमाः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति त्रयस् त्रयस्त्रिशा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिशाः परस्तान् मध्ये पृष्ठानि । उरो वै त्रयस्त्रिशा आत्मा पृष्ठानि । - तैसं ७.४.२.४

अथैतां चितां चिन्वन्ति। तस्याम् एनम् आदधति। तस्य नासिकयोस् स्रुवौ निदध्याद् दक्षिणहस्ते जुहूं सव्य उपभृतम् उरसि ध्रुवां मुख ऽग्निहोत्रहवणीं शीर्षतश् चमसम् – जै १.४८

स बाहुभ्याम् एवोरसः पञ्चदशं स्तोमम् असृजत त्रिष्टुभं छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यम् अश्वं पशुम्। तस्माद् राजन्यस् त्रिष्टुप्छन्दा ऐन्द्रो देवतया। तस्माद् उ बाहुभ्यां वीर्ये करोति। बाहुभ्यां ह्य् एनम् उरसो वीर्याद् असृजत॥ - जैब्रा १.६८

सध्र्यश्वो ह स्माह तैग्मायुधिः क उ स्विद् अद्य रसदिहाव् उरसि निमृदिष्यत इति। एते ह वै रसदिहौ ये एते गायत्र्या उत्तमे अक्षरे। यस् ते उद्गायन्न् आरभते रसदिहाव् उरसि निमृदते। य उ एने निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः। तानि सर्वाण्य् अक्षराण्य् उद्धृत्य वाचं दध्यात्। वाग् वै ब्रह्म। तद् यथा चर्मणा कृतिकण्टकान् प्रावृत्यातीयाद् एवम् एवैतद् वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्य् अतिक्रामति – जै १.११४

ते ऽभ्यषुण्वन्। तेषां ह सर्वम् एव प्रातस्सवनं नाजगाम। ते ह स्म चमसान् उरस्य् उपनिग्राहम् अभ्युन्नयन्ते - नेद् अपेन्द्रस्य सोमस्य भक्षयामेति। स उ ह माध्यन्दिने सवन आजगाम। - जै २.१५२

ता उत्तानशय्याम् अपश्यत्। स शीर्ष्णैवमौ प्राञ्चाव् अगृह्णाद्, बाहुभ्या् इमान् नाना, पद्भ्यां प्रत्यञ्चाव्, उरसोर्ध्वौ, प्रष्टिभिर् अवाञ्चौ। - जै ३.३६७

स इन्द्रोऽब्रवीत् । सर्वं वै म इदं तस्थानं यदिदं किं च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति ता अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत तस्मान्निग्राभ्या नाम तथैवैता एतद्यजमान उरसि निगृह्णीते – ३.९.४.१५

यद्यभिचरेद्योऽस्यांशुराश्लिष्टः स्याद्बाह्वोर्वोरसि वा वाससि वा तं जुहुयाद्देवांशो यस्मै त्वेडे – ४.१.१.२६

समीची उरसाऽऽत्मनेति संवसाथामेनं स्वर्विदा समीचीऽउरसा चात्मना चेत्येतदग्निमन्तर्भरिष्यन्ती - ६.४.१.[११]

तावस्यैताविन्द्राग्नी एव बाहू । तावेनं तेजसा च वीर्येण च सह प्रपद्येते स सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्यैनेऽउपदधात्येष हैतयोर्लोकः – माश ७.४.१.[४३]

उरस्त्रिष्टुभः । ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचा उरो वै प्रतिपृष्टयः - ८.६.२.[७]

अथो आहुः । प्रजापतिरेवैतं प्रियं पुत्रमुरस्याधत्त इति स यो हैतदेवं वेदा हैवं प्रियं पुत्रमुरसि धत्ते - ९.२.३.[५०]

द्यौष्पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो - १०.६.५.[३] 

स वै मन्द्रमिवोरसि। परास्तभ्योभयतो बार्हतमुच्चैरन्ततो निदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम् - ११.४.२.[१२]

चातुर्मासः -- मुखमेवास्यानीकवतीष्टिः। मुखं हि प्राणानामनीकमुरः सांतपनीयोरसा हि समिव तप्यत उदरं गृहमेधीया प्रतिष्ठा वा उदरं - ११.५.२.[४]

गवामयनम् -- नखान्येवौषधिवनस्पतीनां रूपम्। ऊरू चतुर्विंशमहः। उरोऽभिप्लवः। पृष्ठं पृष्ठ्यः। अयमेव दक्षिणो बाहुरभिजित्। इम एव दक्षिणे त्रयः प्राणाः स्वरसामानः। मूर्द्धा विषुवान्। ॥१२.१.४.१
--- तस्मात् ग्रीवा पंचदशः॥ उरः सप्तदशः। अष्टावन्ये जत्रवोऽष्टावन्ये। उरः सप्तदशम्। तस्मादुरः सप्तदशः॥१२.२.४.११
शिरस्त्रिवृत् पंचदशोऽस्य ग्रीवा उर आहुः सप्तदशाभिक्लृप्तम्।..... अभिप्लवा उभयतोऽस्य बाहू पृष्ठ्यं पृष्ठ्य इति धीरा वदन्ति। - ॥१२.३.१.६

जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति। सव्य उपभृतम्। उरसि ध्रुवाम्। मुखेऽग्निहोत्रहवणीम्। नासिकयोः स्रुवौ। कर्णयोः प्राशित्रहरणे।- १२.५.२.७

स्तनाभ्यामेवास्य शुक्रमस्रवत्, तत्पयोऽभवत्, पशूनां ज्योतिः। उरस एवास्य हृदयात्त्विषिरस्रवत्, स श्येनोऽपाष्ठिहाऽभवत्, वयसां राजा॥१२.७.१.६

अथ यान्युपस्थे लोमानि. यानि चाधस्तात्। तानि वृकलोमानि। अथ यान्युरसि लोमानि। यानि च निकक्षयोः। तानि व्याघ्रलोमानि। केशाश्च श्मश्रूणि च सिंहलोमानि॥१२.९.१.६
 

तदूर्ध्वमुदसर्पत्ता ऊरू अभवताम्, इति । उरु गृणीहीत्यब्रवीत्तदुदरमभवत्, इति। उर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवत्, इति । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्माहैव ता३इ, इति । - ऐआ २.१.४
पुरुषो वाव संवत्सरस्।......ऊरू चतुर्विंशम् अहः। उरो ऽभिप्लवः। पृष्ठं पृष्ठ्यः। शिर एव त्रिवृत् – गोब्रा १.५.३

बाहू मे बलमिन्द्रियम् हस्तौ मे कर्म वीर्यम् आत्मा क्षत्रमुरो मम पृष्टीर्मे राष्ट्रमुदरम् । - तैब्रा २.६.५.५

स उरस्त एव बाहुभ्यां पञ्चदशमसृजत तं त्रिष्टुप्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः – तांब्रा ६.१.८

यत् पञ्चदशो यदेवास्योरस्तो बाह्वोरपूतं तत् तेनापहन्ति – तांब्रा १७.५.६