PURAANIC SUBJECT INDEX (From vowel U to Uu) Radha Gupta, Suman Agarwal and Vipin Kumar Udaana - Udgeetha (Udaana, Udumbara, Udgaataa, Udgeetha etc.) Uddaalaka - Udvartana (Uddaalaka, Uddhava, Udyaana/grove, Udyaapana/finish etc. ) Unnata - Upavarsha ( Unnetaa, Upanayana, Upanishat, Upbarhana, Upamanyu, Uparichara Vasu, Upala etc.) Upavaasa - Ura (Upavaasa/fast, Upaanaha/shoo, Upendra, Umaa, Ura etc. ) Ura - Urveesha (Ura, Urmilaa, Urvashi etc.) Uluuka - Ushaa (Uluuka/owl, Uluukhala/pounder, Ulmuka, Usheenara, Usheera, Ushaa etc.) Ushaa - Uurja (Ushaa/dawn, Ushtra/camel, Ushna/hot, Uuru/thigh, Uurja etc.) Uurja - Uurdhvakesha (Uurja, Uurjaa/energy, Uurna/wool ) Uurdhvakesha - Uuha (Uushmaa/heat, Riksha/constellation etc.)
|
|
उपशद (यज्ञ-) १. यद्वेषैकैका स्तोत्रियोपशीयते तस्मादुपशदः । जै २,८१ ।। २. स (कश्यपः) एतं यज्ञमपश्यत् , तमाहरत् , तेनायजत। ततो वै तमुपोप प्रजाः पशवो ऽशीयन्त । जै २,८१ । उपसद् १. अर्धमासा (ऋतव [माश १०,२,५,७) उपसदः । माश १०,२,५,५; ७।। २. अहोरात्राणि वाऽउपसदः । माश १०, २,५,४ । ३. इमे लोका उपसदः । माश १०,२, ५,८ ।। ४. इषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीकमासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि । ऐ १, २५ । ५. इषुं वा एतां देवाः समस्कुर्वन् यदुपसदोऽग्निं शृङ्गं सोमं शल्यं विष्णुं तेजनम् । काठ २५,१; क ३८, ४ ।। ६. उपसद्भिर्वै देवा इमांल्लोकान् व्यजयन् (अभ्यजयन् [क.]) । काठ २६,२; क ४०, ५। ७. एतदु है यज्ञे तपः । यदुपसदस्तपो वाऽउपसदः । माश १०,२,५,३ । ८. एताभिर्वै देवा उपसद्भिः पुरः प्राभिन्दन्निमाल्लोकान् प्राजयन् । माश ३, ४,४,५। ९. ग्रीवा उपसदः । मै ३,७,९; काठ २४,८; क ३८,१; ऐ १,२५; तैआ ५, ६, १। १०. ग्रीवा वा एता यज्ञस्य यदुपसदः । काठ २५,१ (तु. माश ३,४,४,१)। ११. जितयो वै नामैता यदुपसदः । ऐ१, २४ । १२. त एताभिरुपसद्भिरुपासीदन् ( देवाः) । तद्यदुपासीदंस्तस्मादुपसदो नाम । माश ३,४,४,४ । १३. तपो वापसदः । माश ३,६,२,११ । १४. ता (उपसदः) वाऽआज्यहविषो भवन्ति । माश ३,४,४,६ । १५. ते (देवाः ) ऽब्रुवन्नुपसीदामोपसदा वै महापुरं जयन्तीति त उपासीदंस्तदुपसदामु पसत्त्वम् । मै ३,८,१। । १६. पृथिव्युपसद्यन्तरिक्षमुपसदि, द्यौरुपसदि (सोमः) । काठ ३४,१४ ।। १७. प्रातस्सायन्तनं तान् (असुरान् देवाः) उपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयंस्ततो देवा अभवन् परासुराऽभवन् , सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवं विद्वान् उपसद उपैति । काठ २४, १० ।। १८. मासा उपसदः । माश १०,२,५,६ । १९. यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै । तैसं ६,२, ३,२। २०. वज्रा (वीर्यं [काठ.]) वाऽउपसदः । काठ २९,२; माश १०, २, ५,२ । २१. स्थानमुपसदः (प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य) । तैआ २,१७,२ ।
३.४.४.[१]
ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः । तस्माद्यदि प्रवर्ग्यवान्भवति प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्ति तद्ग्रीवाः प्रतिदधाति
३.४.४.[२]
तद्याः पूर्वाह्णेऽनुवाक्या भवन्ति । ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद्व्यतिषजति तस्मादिमानि ग्रीवाणां पर्वाणि व्यतिषक्तानीमान्यस्थीनि
३.४.४.[३]
देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि
३.४.४.[४]
तद्वै देवा अस्पृण्वत । त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमां मानुषीं पुरं जयन्ति
३.४.४.[५]
एताभिर्वै देवा उपसद्भिः । पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतन्नाहैवास्मा अस्मिंलोके कश्चन पुरः कुरुत इमानेवैतल्लोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादुपसद्भिर्यजते संवत्सरो वज्रः । एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन संवत्सरेण वज्रेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादेता देवता यजति
३.४.४.[१७]
स वै तिस्र उपसद उपेयात् । त्रयो वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया ३.४.४.[२६]
अथातो व्रतोपसदामेव । परौर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः स यासामेकम् प्रथमाहं दोग्ध्यथ द्वावथ त्रींस्ताः परौर्वीरथ यासां त्रीन्प्रथमाहं दोग्ध्यथ द्वावथैकं ताः परोऽह्वीर्या वै परोऽह्वीस्ताः परौर्वीर्याः परौर्वीस्ताः परोऽह्वीः ५.४.५.[१३]
उपसदो दशम्यो देवताः । तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति तां द्वादशपुण्डरीकां स्रज प्रतिमुञ्चते सा दीक्षा तया दीक्षया दीक्षते ९.५.१.[२२]
तेषु प्रेतेषु । उपसदोऽतन्वत ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन्न प्रयाजान्नानुयाजानुभयतो यज्ञस्योदसादयन्भूयिष्ठं हि तत्रात्वरन्त तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति न प्रयाजान्नानुयाजानुभयतो यज्ञस्योत्सादयति १०.२.५.[२]
यद्वेवान्तरोपसदौ चिनोति एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्वज्रानपश्यन्नुपसदो वज्रा वा उपसदस्तान्प्रापद्यन्त तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते १०.२.५.[३]
एतदु ह यज्ञे तपः यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात्तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत्प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरं प्रवर्ग्येण
१०.२.५.[४]
अहोरात्राणि वा उपसदः आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति तस्मादेषोऽहोरात्रेषु प्रतिष्ठितः
१०.२.५.[५]
अथ यदि चतुर्विंशतिः चतुर्विंशतिर्वा अर्धमासा अर्धमासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति तस्मादेषोऽर्धमासेषु प्रतिष्ठितः
१०.२.५.[६]
अथ यदि द्वादश द्वादश वै मासा मासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यं मासेषु प्रतिष्ठापयति तस्मादेष मासेषु प्रतिष्ठितः
१०.२.५.[७]
अथ यदि षट् षड्वा ऋतव ऋतव उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमृतुषु प्रतिष्ठापयति तस्मादेष ऋतुषु प्रतिष्ठितः
१०.२.५.[८]
अथ यदि तिस्रः त्रयो वा इमे लोका इमे लोका उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति तस्मादेष एषु लोकेषु प्रतिष्ठितः ११.२.७.[२७]
प्राणा वै प्रयाजाः अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम् प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते १२.१.२ श्रद्धाया वै देवा दीक्षां निरमिमत। अदित्यै प्रायणीयम्। सोमात् क्रयम्। विष्णोरातिथ्यम्। आदित्यात्प्रवर्ग्यम्। स्वधाया उपसदः। अग्नीषोमाभ्यामुपवसथम्। अस्माल्लोकात् प्रायणीयमतिरात्रम्॥१॥ अथ यत् क्रयेण चरन्ति। सोममेव देवतां यजन्ते। सोमो देवता भवन्ति। सोमस्य सायुज्यं सलोकतां जयन्ति॥३॥ अथ यदातिथ्येन यजन्ते। विष्णुमेव देवतां यजन्ते। विष्णुर्देवता भवन्ति। विष्णोः सायुज्यं सलोकतां जयन्ति॥४॥ अथ यत्प्रवर्ग्येण यजन्ते। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति॥५॥ अथ यदुपसद उपयन्ति। एता एव देवता यजन्ते। या एता उपसत्सु। एता देवता भवन्ति। एतासां देवतानां सायुज्यं सलोकतां जयन्ति॥६॥
|