PURAANIC SUBJECT INDEX (From vowel U to Uu) Radha Gupta, Suman Agarwal and Vipin Kumar Udaana - Udgeetha (Udaana, Udumbara, Udgaataa, Udgeetha etc.) Uddaalaka - Udvartana (Uddaalaka, Uddhava, Udyaana/grove, Udyaapana/finish etc. ) Unnata - Upavarsha ( Unnetaa, Upanayana, Upanishat, Upbarhana, Upamanyu, Uparichara Vasu, Upala etc.) Upavaasa - Ura (Upavaasa/fast, Upaanaha/shoo, Upendra, Umaa, Ura etc. ) Ura - Urveesha (Ura, Urmilaa, Urvashi etc.) Uluuka - Ushaa (Uluuka/owl, Uluukhala/pounder, Ulmuka, Usheenara, Usheera, Ushaa etc.) Ushaa - Uurja (Ushaa/dawn, Ushtra/camel, Ushna/hot, Uuru/thigh, Uurja etc.) Uurja - Uurdhvakesha (Uurja, Uurjaa/energy, Uurna/wool ) Uurdhvakesha - Uuha (Uushmaa/heat, Riksha/constellation etc.)
|
|
उपांशु (ग्रहः) १. अंशुर्ह वै नाम ग्रहः । स प्रजापतिस्तस्यैष प्राणः, स यदंशोः प्राणस्तस्मादुपांशु नाम । काश ५,१,१,१ (तु. माश ४,१,१,२ )। २. पवित्रपूता वा अन्ये सोमा, अथ वा एष वाक्पूतो यदुपांशु, स्तस्माद्वाचस्पतये पवस्वे, त्याह, वाक्पूतो ह्येषो , अंशुभिः पावयति, प्राणा वा अंशवः, प्राणैरेवैनं पावयति। मै ४,५,५।। ३. सामिधेनी--उपांशु देवतां यजत्यनिरुक्तं वा उपांशु सर्वं वा अनिरुक्तं। माश १,३,५,१०।। ४. असौ (द्यौः) वा उपांशुरन्तरिक्षमन्तर्याम । मै ४,५, ५ ।। ५. इयं (पृथिवी) ह वाऽउपांशुः….असावेवान्तर्याम उदानो ह्यन्तर्यामो । माश ४, १, २, २७ । ६. उत्तरादुपांशुं जुहुयात् । क ४२, १ । ७. उपांशु यजुषा (क्रियते) । मै ३,६,५।। ८. पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते किम्पवित्र उपाꣳशुर् इति वाक्पवित्र इति ब्रूयात् ।। तैसं ६,४,५,३ । ९. पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोर्वीर्येण देवस् त्वा सवितोत्सृजतु । तैसं २,३,१०,२ । १०. उपाँशुसवनादुपाँशुं निगृह्णाति प्राणो वा उपाँशुसवनः प्राण उपाँशुः प्राणादेव प्राणं निगृह्णात्युत्तर उपाँशुसवनो भवत्यधरेँऽशवः प्राणो वा उपाँशुसवनः प्रजा अँशवः प्रजास्वेवं प्राणं दधाति। काठ २६, १०; क ४१,८; ४२,३ (तु. तैसं ६,४,५,१; मै ४,५,५,७,४; क ४४,८; कौ १२,४ ) । ११. प्राणो ह वाऽअस्य (यज्ञस्य) उपांशुः । व्यान उपांशुसवन उदान एवान्तर्यामः-माश ४, १,१,१ ।। १२. चातुर्मासयागे अपामार्गहोमम् - तदग्निं समाधाय जुहोति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामुपांशोर्वीर्येण जुहोमीति यज्ञमुखं वाऽउपांशुर्यज्ञमुखेनैवैतन्नाष्ट्रा रक्षांसि हन्ति । माश ५,२,४,१७ । १३. यदुपांशु शंसति, तदुपांश्वन्तर्यामयोर् , यदुच्चैस्तदितरेषां ग्रहाणाम् । तैसं ६,५,११,२-३ ।। १४. अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति, इति । तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम्, इति ।। । ऐआ २, ३,६।। १५. शृङ्गमु पाँशुरेतोऽन्तर्याम इन्द्रियं प्रजास्सोमपीथ । काठ २७,२; क ४२,१।। आज्यभागाभ्यामेव । सूर्याचन्द्रमसावाप्नोत्युपांशुयाजेनैवाहोरात्रे आप्नोति पुरोडाशेनैवार्धमासावाप्नोतीत्यु हैक आहुः - १.६.३.[२५] उपांशुयाजेनैवातोऽहोरात्रे आप्नोति पुरोडाशेनैवातोऽर्धमासावाप्नोति – माश १.६.३.२६ १६. अनेन ह त्वेवाजाम्युपांश्वाज्यस्य यजत्युच्चैः पुरोडाशस्य स यदुपांशु तत्प्राजापत्यं रूपं । माश १,६,३, २८ । उपांशु-पात्र १. उपांशुपात्रमेवान्वजाः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते। अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । ...माश ४,५,५, ३ ।। २. उपांशुपात्रं प्रयुज्यतेऽजा एव तत् पशूनामनुप्रजायन्ते । काठ २८,१० । ३. एकं ह त्वेव तत्पात्रं यदिमाः प्रजा अनु प्रजायन्तऽउपांशुपात्रमेव प्राणो ह्युपांशुः प्राणो हि प्रजापतिः। माश ४,५,५,१३ ४. प्राणाय त्वेत्युपांशुपात्रं सादयति । काठ २७,२; क ४२,२ । ५. यदुपांशुपात्रं प्रयुज्यतेऽजा एव तेन पशूनां दाधार । क ४५,१ ॥ अथैतदुपांशुपात्रं पुनः प्रयुज्यते , अविं वा एतत् प्रति , अविमेवैतेन दाधार , अथैतदन्तर्यामपात्रं पुनः प्रयुज्यते , अजां वा एतत् प्रति , अजां एवैतेन दाधार – मैसं ४.८.८ [ °त्र- अग्नि- १२४; अवि- १ द्र]। उपांशु-याज- क्षत्रमुपांशुयाजः । माश ११,२,७,५ । उपांशु-सवन १. अन्तरिक्षमेवोपांशुसवनः । माश ४,१,२,३७ । २. आत्मोपांशुसवनः (यज्ञस्य)। माश ४,१, २,१५। ३. आदित्यग्रहकथनम्-- एष वै विवस्वानादित्यो यदुपांशुसवनः । स एतम् एव सोमपीथम् परि शय आ तृतीयसवनात् । तैसं ६, ५,६,५। ४. प्राणो वा उपांशुसवनः । काठ २६,१०; २८,६; क ४१,८; ४४,६ । ५. व्यान उपांशुसवनः । तैसं ६,४,४,१; ६,४; मै ४,५,६,९; माश ४,१, १,१। ६. व्यानं त उपांशुसवनः पातु । मै ४,८,७ ।। ७. प्राणाय त्वेत्युपाँशुपात्रँ सादयति व्यानाय त्वेत्युपाँशुसवनमपानाय त्वेत्यन्तर्यामपात्रं व्यानेन वा इमौ प्राणापानौ विधृतौ प्राङ् च प्रत्यङ् च न क्षीयेते - काठ २७,२; क ४२,१। ऊर्ग्वै सोमोऽन्तरिक्षमन्तर्यामोऽन्तरिक्ष एव रसं दधात्यूर्जं पशुषूपाँश्वन्तर्यामौ वै पशवोऽनुप्रजायन्त इतरान् ग्रहानन्वन्याः प्रजा - काठ २७,२ ८. प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो वा (हि माश.J) उपांशुसवनः । मै ४,५, ४; ६, १; माश ४, १, २, २७ ॥ [ °न आत्मन्- १६ द्र.] । उपांश्वन्तर्याम (ग्रह-)- १. आयुरुपांश्वन्तर्यामयोः (सोमः) । काठ ३४,१५ ।। २. उपांश्वन्तर्यमाव् (अनु) अजावयः (प्रजायन्ते) । तैसं ६,५,१०,१।। ३. किं तद्यज्ञे क्रियते यस्मात्सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरे पुरुषा इति , उपांश्वन्तर्यामौ वा अन्वन्ये पशवः, पुरुषस्त्वै यज्ञेन सम्मितः । प्राणापानौ वा उपांश्वन्तर्यामौ, यदेतौ ग्रहा असन्नौ हूयेते तस्मात्सद्यो जाताः पशवः प्रतितिष्ठन्ति, मै ४,५, ७ ।। ४. उपांश्वन्तर्यामौ वै पशवोऽनुप्रजायन्त इतरान् ग्रहानन्वन्याः प्रजाः । काठ २७,२; क ४२,२। ५. उत्तरादुपाँशुं जुहुयादक्षिणतोऽन्तर्यामं देवरथो वा एष यद्यज्ञस्तस्यैतौ रश्मी यदुपाँश्वन्तर्यामौ देवरथस्यैव पुरस्ताद्रश्मी विहरति संवत्सरस्य क्लृप्त्यै। काठ २७, १, क ४२,१ । ६. प्राणापाना (°नौ वा मै., कौ.J) उपांश्वन्तर्यामौ । मै ४,५,६:९; ऐ२,२१; कौ ११,८,१२,४; जै २,३७ ।। ७. प्राणापानौ त उपांश्वन्तर्यामौ पाताम् । मै ७.८,७ । ८. वय इव ह वै यज्ञो विधीयते तस्योपांश्वन्तर्यामावेव पक्षौ, आत्मोपांशुसवनः । माश ४,१,२,२५॥ [म- उपांशु- १३ द्र.]। अन्तर्याम १. अथ वा उपांशुः प्राण एव । तम् हूयमानम् अनुप्राण्यात् प्राणम् मे पाहि प्राणम् मे जिन्व स्वाहा त्वा सुभव सूर्याय इति । स एव तस्य वषट्कारः स स्वाहाकारः । न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट्कृता वा अस्वाहाकृता वा भवन्ति । अन्तर्यामो अपान एव । तम् हूयमानम् अन्ववान्याद् अपानम् मे पाह्य् अपानम् मे जिन्व स्वाहा इत्वा सुभव सूर्याय इति । स एव तस्य वषट्कारः स स्वाहाकारः । न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट्कृता वा अस्वाहाकृता वा भवन्ति । तौ वा एतौ प्राण अपानाव् एव यद् उपांश्व् अन्तर्यामौ । तयोर् वा उदिते अन्यम् अनुदिते अन्यम् जुह्वति ।। कौ १२,४।। २. अपानो (रेतो [काठ २७,२; क ४२, २J)ऽन्तर्यामः । काठ २७,३; क ४२,३ । ३. इयं ह वा उपांशुः । प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो ह्युपांशुसवनोऽन्तरिक्षं ह्येव व्यनन्नभिव्यनिति। माश ४,१,२,२७। ४. उदान एवान्तर्यामः (यज्ञस्य) । माश ४,१,१,१।। ५. यदन्तर्यामं गृह्णाति सोऽस्यायमुदानोऽन्तरात्मन्यतस्तद्यदस्यैषोऽन्तरात्मन्यतो यद्वैनेनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम । माश ४, १,२,२।। ६. ते देवा अन्तर्याममपश्यंस्तमगृह्णत, तेनासुरानेभ्यो लोकेभ्योऽन्तरदधत । मै ४,५,६ । ७. दक्षिणतोऽन्तर्यामम् (जुहुयात्) । क ४२,१ ।। ८. पशवो वा अन्तर्यामः । काठ २८,७; क ४४, ७ । [ °म- अन्तरिक्ष- १३ द्र. ]। अन्तर्याम-पात्र १. उपांशुपात्रमेवान्वजाः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते [२] अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते - ३। माश ४,५,५,३ । २. अपानाय त्वेत्यन्तर्यामपात्रम् (सादयति) । काठ २७, २; क ४२,२ । ३. ऽनिरुक्त उपाँशुपात्रं प्रयुज्यतेऽजा एव तत् पशूनामनुप्रजायन्ते त्रिर्विगृह्णाति तस्मात् सा त्रीञ्जनयत्यथो द्वौ यदुपाँशुपात्रं प्रयुज्यतेऽजा एव तेन पशूनां दाधारान्तर्यामपात्रं प्रयुज्यतेऽवय एव तत् पशूनामनुप्रजायन्ते। काठ २८,१०; क ४५,१ । ४. अग्निर् देवता गायत्री छन्द उपाꣳशोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असि। तैसं ३,१, ६,२ । [त्र- अजा- १२ द्र.] ।। अन्तर्यामिन् वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयतीति । माश १४,६,७,३ ।
Is this meaning of Monier Williams correct? - Namaskaram. Kalyanaraman सोमयागे उपांशुपात्रे पवित्रपूतस्य सोमस्य ग्रहणं न भवति, अपितु महाभिषवकृत्यस्य प्राक् उपांशुसवनेन कुट्टितस्य सोमस्य उपयोगः भवति। प्रातःसवने प्रथमतः उपांशुपात्रेणैव अग्नौ सोमस्य( अ-पवित्रपूतस्य) आहुतिः भवति। तदनन्तरं उपांशुपात्रोपरि सोमस्यांशवः स्थाप्यन्ते एवं इमं पात्रं यथास्थानं स्थाप्यन्ते। उपांशुपात्रस्योपरि स्थापितानां अंशूनां उपयोगं तृतीयसवने कुर्वन्ति।
उपांशु - (सा०) १. इष्टिपशुसोमेषु उच्चारणविधौ सप्तानां (उच्चारणा) स्थानानामाद्यं करणवदशब्दमन: प्रयोगमुपांशु इत्युच्यते । (तु०-आ० श्रौ० १।१ ।२० देवत्रातः) २. इष्टिपशुसोमयज्ञेषु मन्त्रोच्चारणविधौ यत्र ओष्ठस्पन्दनमेव परैर्दृश्यते न तु शब्दः श्रूयते तादृशमुच्चारणमुपांशु इत्युच्यते । ३. संप्रैषवर्जितानां यजुर्मन्त्राणामग्न्याधानाग्निहोत्रादिकर्मसु प्रयुज्यमानानां पाठः (उच्चारणम्) उपांशु क्रियते। तदुक्तम् 'उच्चैर्ऋचा क्रियते उच्चैः साम्ना उपांशु यजुसा' इति (हि० श्रौ० १।१।१) यजुर्वेदेन यत् किञ्चित् काम्यं नैमित्तिकं च चोद्यते तत् उपांशु कर्तव्यम् । मी०को० ११९३ । ४. स यदि कीर्तयेदुपांशु कीर्तयेत् (ऐ० ब्रा० ०२ १७) इत्युपांशूच्यते । इति । द्र० आज्यभाग-। उपांशुग्रहाभिषवमहाभिषवयोर्भेदेनानुष्ठान -- (आध्व०) १. प्रात: सवने उपांशग्रहाभिषवो महाभिषवश्चेति भेदेन द्विधा सोमाभिषवः क्रियते । तत्रोपांशुग्रहाभिषवः तस्य कर्ता केवलोऽध्वर्युरेव । स उपांशुसवनेनाभिषुणोति एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्टौ इत्यष्टकृत्वः संख्याय जलेन सोमवल्ल्याः कुट्टनं करोतीति कुट्टनमुपांशुग्रहाभिषव इत्युच्यते । द्र० श्रौ०प०नि० पृ० २७० । २. अध्वर्युयजमानादयः एकधनकलशस्थानामपां तृतीयं तृतीयमंशमाधवनीये निनयनानन्तरमेकधनशेषं वसतीवरीशेषं च उत्तरस्य हविर्धानस्याधस्तादक्षस्य पश्चाद् यत्नेन स्थापयित्वा अधिषवणचर्मणः समीपे उपविशन्ति । उपवेशने चायं नियमः-- पूर्वस्यां दिशि दक्षिणामुखोऽध्वर्युरुपविशति । ब्रह्मा यजमानश्च दक्षिणत उपविशतः । प्रतिप्रस्थातृ नेष्टुन्नेतारोऽधिषवणस्य पश्चान्मार्गेण परीत्य दक्षिणत उदङ्मुखाः प्रदक्षिणमुपविशन्ति। परमिदमध्वर्य्वादीनामुपवेशनमनन्तरभाविमहाभिषवार्थं भवति । इहोपांशुग्रहाभिषवे (क्षुल्लकाभिषवे) तु एकलोऽध्वर्युरेवोपविशति तस्य तत्कर्तृकत्वात् । ततः अध्वर्युर्वाचं नियम्य 'देवस्य त्वा' (मा० सं०६।३०) इति ग्रावद्वयमादाय 'निग्राभ्या स्थ' (मा०सं०६।३०) इति यजमानं वाचयति । यजमानश्च स्वकीयोरसि निग्राभा अपो निधाय 'निग्राभ्या स्थ' इति मन्त्रं पठति । ततोऽध्वर्युरुपांशुग्रहार्थं सोमः सूयते यस्मिन् ग्राव्णि तमुपांशुसवनसंज्ञकं ग्रावाणं गृहीत्वाऽधिषवणचर्मणि निधाय तस्मिन्नुपरि 'इन्द्राय त्वा' इत्यादि ‘रायस्पोषदे' इत्येतैः पञ्चभिर्मन्त्रैः (मा०सं०६।३२) इति प्रतिमन्त्रमेकैकं सोममुष्टिं क्षिपति । तमुपांशुसवने पञ्चवारं क्षिप्तस्य (मितस्य) सोमस्य 'यत्त' (मा०सं० ६।३२) इति मन्त्र्यन्ते स्पर्शं करोति । अथ प्रतिप्रस्थाता उपांशुसवने प्रक्षिप्तात् सोमात् षट्संख्याकाननंशून् (सोमलताखण्डानि) गृह्णाति पावनार्थम् । (शोधनार्थम्)। सप्तमं महान्तं कुण्डलिकारूपमंशुमध्वर्युः मितात् आदाय निदधाति तृतीयसवनार्थम् । प्रतिप्रस्थाता च गृहीतानां षण्णामंशूनां मध्ये द्वौ द्वौ अंशू सव्यहस्तस्याङ्गुलीनां त्रिष्वन्तरालेषु धारयति । तत: अध्वर्युरुपांशुसवनस्योपरि प्रक्षिप्तेषु सोमेषु 'श्वात्रा स्थ' (मा०सं० ६।३४) इति मन्त्रेण अभिषवार्थं निग्राभ्या अप आसिञ्चति (प्रक्षिपति) । ततो रसप्रच्युत्यर्थमुपांशुसवनेनाद्रिणा सोमे ‘मा भेर्मा' (मा० सं० ६।३५)। इति मन्त्रेण प्रहृत्य निग्राभ्या अप आसिच्य आसिच्य त्रिरभिषुणोति । वारत्रयमभिषवं करोति । तत्र प्रथमाभिषवे अष्टकृत्वः द्वितीये एकादशकृत्वः तृतीये द्वादशकृत्वः प्रहरतीति प्रत्यभिषवं प्रहारसंख्यानियमो द्रष्टव्यः। तथा प्रतिप्रहारवर्गं होतृचमसमध्ये अल्पान् सोमांशून् निधाय 'प्रागपाक्' (मा० सं० ६।३६-३७) इति निग्राभसंज्ञकं मन्त्रं यजमानं वाचयति । तदेवमष्टप्रहारात्मक एको वर्गः, एकादशप्रहारात्मको द्वितीयः, द्वादशप्रहारात्मकस्तृतीय इति त्रयो वर्गाः । चतुर्थं निग्राभवाचनम् उपांशुसवनमद्रिमेव होतृचमसे निधाय कुर्यान्न सोमांशून् । इत्येतावत् कर्म उपांशुग्रहाभिषव इत्युच्यते । (तु०- का० श्रौ० ८ ।४ । १ - १९) । अथ महाभिषवः- तदर्थमभिषवफलकसमीपे अध्वर्युयजमानयोरुपवेशनम् । ततः अध्वर्युप्रतिप्रस्थातृनेष्टुन्नेतारश्चत्वार ऋत्विजः पञ्च उपांशुसवनग्राव्णः (पञ्चसु अध्वयुर्ग्रावद्वयं इतरे त्रयो ग्रावत्रयम्) आहृत्य उपांशुग्रहाभिषववत् त्रिपर्यायं त्रिवारं सोममभिषुण्वन्ति । सोमं वारत्रयमभिषुत्य चान्ते सकृदाप्यायन्ति। न तूपांशुग्रहाभिषववत् प्रतिपर्यायमाप्यायनं (स्पर्शनं) कुर्वन्ति । उपांशुग्रहाभिषवे च यथाऽध्वर्युस्त्रिषु पर्यायेषु यथा संख्यमष्टकृत्वः एकादशकृत्वे द्वादशकृत्वः प्रहरति न तथाऽत्र प्रहरन्ति इह संख्यानियमाभावाद् यावता प्रहरणेन रसप्रच्युतिर्भवति तावत् पर्यन्तं प्रहरन्ति । एकैकस्य पर्यायस्वारम्भे रव रसप्रच्युत्यर्थं निग्राभ्यासंज्ञकानामपामासेचनं भवति । तथा सति प्रथम एव पर्याये आसेचनं क्रियते । ततः प्रागपाक्' (मा०सं० ६।३६-३७) इति निग्राभसंज्ञकं मन्त्रं वाचयन्ति यजमानम् । निग्राभमन्त्रवाचनानन्तरञ्च रस-विशिष्टान् सोमांशून् संभरण्या पात्रेण आधवनीय संज्ञके कलशे सोदके निक्षिप्य परिप्लाव्य (निष्पीड्य) ततो निष्काश्य संभरण्यैवाहरति। आहृत्याभिषवणस्योपरि प्रक्षिपेत् । इत्थमयं पर्यायत्रयविशिष्टः प्रथमोऽभिषवः। एवमेव द्वितीयस्तृतीयश्चाभिषवः पर्यायत्रयविशिष्टः कार्यः । तत्र प्रथमाभिषव इव द्वितीयतृतीययोरभिषवयोरपि निग्राभ्यासेचनं कर्तव्यम् । सोऽयं महाभिषव इत्युच्यते। (तु०-का० श्रौ० ९।५।१-८ विद्याधरः) । ननु उपांशुग्रहाभिषवे एव महाभिषवगतयोरधिकयोः आप्यायनसंभरणयोः कृतत्वेन महाभिषवोऽपि कृत एव स्यादिति महाभिषवस्य पृथक्त्वेनानुष्ठानस्यानर्थक्यमेव उपांशुग्रहाभिषवस्य विधिनैव गतार्थत्वादिति चेन्न, उभयोः पूर्वापरविपर्यासात्, अंशुनिग्राभ्यापकर्षात्, अनात्तरसे सोमबुद्धित्वाद् आत्तरसे ऋजीषभावाच्चोभयोः पृथक्त्वेन भेदेनानुष्ठानमुचितमेव। यतो हि शतपथब्राह्मणे महाभिषवस्य विधयः (श० ब्रा० ३।९। ४।१-२५) इत्यत्राम्नाता: । तन्मन्त्राश्च मा० संहितायां (६।३६) इत्यत्र पूर्वमधीताः, पश्चात् (मा० सं० ७ ।१) इत्यत्रोपांशुग्रहणहोममन्त्राः । इति पूर्वापरक्रमविपार्यासेन प्रसिद्धावुभावभिषवौ प्रत्यक्षमाम्नातौ विद्येते। सहानुष्ठाने स दोष उपद्येत । अथापि 'यत्ते' (मा० सं० ६।३३) इति मन्त्रेण कृताभिमर्शनात् सोमाद् उपांश्वभिषवार्थं मुष्टिमात्रानंशून्, अङ्गुल्यन्तरे करणार्थान् षडंशून्, तृतीयसवनाभिषवार्थं महान्तमंशुं च पृथक् स्थापयित्वा, उपांश्वभिषवार्थं निग्राभ्या अपि पात्रान्तरे कृत्वा अभिषवः कार्यः । इत्यंशुनिग्राभ्यापकर्षणात् (पृथक् पृथक्करणात्) पृथक् पृथक् द्वावभिषवौ ज्ञायेते न सहभागी एकः । एवं चात्रोपांश्वभिषवादौ हि अग्रे सोमस्यैवाभिषवो विहितः । अनात्तरसे एव हि सोमे सोमबुद्धिर्भवति न गृहीतरसे । यद्यत्र महाभिषवे (एकस्मिन्) एव सर्वे सोमा अभिषुताः भवेयुः तर्हि अग्रे ऋजीषस्यैवाशिष्टत्वात् तत्राभिषवः (सोमाभिषव:) न स्यात् । अतोऽनात्तरसस्य सोमस्याभिषवार्थमंशूनामाकर्षयोगेण तत्सेचनार्थं निग्राभ्याणां चापकर्षयोगेण सोमबुद्धियुक्तोऽभिषव: पृथक् पृथक् कर्तव्य एव । किञ्च अभिषुते सर्वसोमे ऋजीषोऽयं न सोम इति बुद्धिर्मा भूदित्यतोऽपि उपांश्वभिषवार्थमंशूनपकृष्यैव पूर्वं महाभिषवः कार्यः पश्चादुपांश्वभिषवः । इति प्रसिद्धौ द्वावभिषवौ पूर्वपश्चाद्भेदेन पृथक् पृथगनुष्ठेयौ। पूर्वश्चाद्भावश्चायं ब्राह्मणक्रमेण न सूत्रकारक्रमेणेति विशेषोऽवगन्तव्यः । (तु०-का० श्रौ० ९।५।९-११ विद्याधरः)। द्र० आग्नीध्रखरकरण-, उपरवेषु फलकप्रतिष्ठापन-। उपांशुत्व- (सा०) १. उपांशुत्वस्येदं लक्षणं करणवदशब्दमनः प्रयोग उपांश्विति (तु० आ० श्रौ० १।१। २० देवत्रात:) । २. उपांशुत्वं काम्येष्टिषु प्रधानार्थमेव न अङ्गप्रधानोभयार्थम् । ३. उपांशत्वं प्रजापतेर्धर्मः 'तस्मात् यत् किञ्चित् प्राजापत्यं यज्ञे क्रियते, उपांश्वेव तत् क्रियते । ४. उपांशुत्वं यजुर्वेदस्य स्वरः। सर्वस्मिञ्च यजुर्वेदे उपांशुत्वम् । द्र० मी०को० पृ० ११९३ । उपांशुधर्मकर्मन्- (सा०) इष्टिपशुसोमयज्ञेषु मन्त्रोच्चारणविधौ १. अथेमान्न्युपांशुधर्माणि कर्माणि भवन्ति–-यथैतद् अग्न्याधेयं पुनराधेयं पितृयज्ञो दीक्षणीया प्रायणीयाऽऽतिथ्योपसदः प्रातरनुवाकः पत्नी संयाजाः अवभृथः उदयनीयोदवसानीया चितिप्रणयनीयं त्वाष्ट्रो यूपविरोहणीयोऽष्टापदी गर्भवती च । सहकारिप्रत्यया भवन्ति' (तु०-वौ० श्रौ० २४।१८) । आज्यभाग- द्र० २. आग्न्याधेयप्रभृतयो वैश्वानरपार्जन्यन्ता इष्टयो यास्ता उपांशुहविषो (उपांशुप्रधानाः) भवन्ति । एवं सौमिक्यः (सोमोत्पन्नाः) इष्टयः, प्रायश्चित्तिक्यः (प्रायश्चित्तप्रकरणोत्पन्नाः इष्टेयं), अन्वायत्या एककपाला यागाश्च सर्वत्र वारुणं विहाय उपांशु प्रयोक्तव्याः। ३. चातुर्मास्येषु सावित्रः, प्रधानहवींषि (वैश्वदेववरुणप्रघासमाहेन्द्रशुनासीरीयप्रधानानि), तन्त्रेण सह पित्र्योपसदः, पौनराधेयिकी चोत्तमादनुयाजात् प्राक् सतन्त्रा उपांशु भवन्तीति (तु०-आ० श्रौ० २।१५।२-१० नारायणः)। ४. उपांशुधर्माणौ हि विष्णुप्रजापती । द्र० मी०को० पृ० ११९५ । उपांशुपात्रहोम- प्रात: सवने १. अभिषवार्थफलकाभिमर्शनान्ते वृद्धिवाचनानन्तरं प्रतिप्रस्थाता राज्ञः षडंशूनादाय सव्यपाण्यन्तरालेषु द्वौ द्वौ कृत्वा सव्येनैव पाणिनोपांशुपात्रमादत्ते । अध्वर्युः प्रेष्यति— 'प्रतिप्रस्थातरुदकंसेन वोदचमसेन वा जघनेनाहवनीयं प्रत्युपलम्बस्व' स तथा करोति । अध्वर्युः हिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ कृत्वा राजानं विस्रस्योपांशुसवनेन सकृत् प्रहृत्य अंशुपात्रमादाय ‘कया नः' इति वामदेव्यं साम अनवानं गायन् योनिं वा पठन् अंशुपात्रेण रसं गृह्णाति ‘उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि'। तिष्ठन् आहवनीये जुहोति प्रजापतये स्वाहा' इति । यथा लिङ्ग त्यागो यजमानस्य । तत: 'हिरण्ये प्राण्यःपानिति । ‘आ न प्राणस्तु परावत आन्तरिक्षाद्दिवस्परि। आयुः पृथिव्या अध्यमृतमसि प्राणाय त्वा' इति । ‘इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पति: । वर्चो मे विश्वेदेवा वर्चो मे धत्तमश्विना' । 'दधन्वे वा यदीमनु वोचद् ब्रह्माणि वेरु तत्। परिविश्वानि काव्या नेमिश्चक्रमिवाभवत्' इति(तैसं. ३.३.३.३) द्वाभ्यां यजमान: पूर्वाहृताभिरद्भिर्माजयते। तच्छतमानं हिरण्यमध्वर्यवे ददाति । शतमानं रजतं ब्रह्मणे । सोऽयमुपांशुपात्रहोम इत्युच्यते। द्र० श्रौ०प०नि० पृ० २६९ वृद्धिवाचन-, । उपांशुग्रहाभिषव महाभिषवयोरभेदेनानुष्ठाने । २. उपांशुपात्रोन्मार्जनानन्तरं ‘मनस्वाष्टु' इत्युपोत्तिष्ठति । 'उर्वन्तरिक्षमन्विहि' इत्याहवनीयसमीपं गच्छति । 'स्वाहा त्वा सुभवः सूर्याय स्वाहा' इत्यन्वारब्धे यजमाने आहवनीये जुहोति । सूर्याय इदमिति यजमान: । सोऽयमुपांशुपात्रहोम इत्युच्यते । द्र० श्रौ०प०नि० पृ० उपांशुपात्रे प्रथमरसग्रहण-(आध्व०) प्रात:सवने अंशौ स्कन्ने सति यजमानं वाचयति ‘आ मा स्कान्त्सह प्रजया सह रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधी:' । अभिषुतं सोममञ्जिनैकीकृत्य गृह्णाति । प्रतिप्रस्थाताऽङ्गुलयन्तरालधृताभ्यां प्रथमाभ्यामंशुभ्यामुपांशुपात्रमन्तर्दधाति । अध्वर्युः ‘वाचस्पतये पवस्व वाजिन्' इति पात्रे रसमानयति । प्रतिप्रस्थाता अंशून् यथास्थानं लग्नयति । तदिदमुपांशुपात्रे प्रथमरसग्रहणमित्युच्यते द्र० श्रौ०प०नि० पृ० २७० । उपांशुपात्रे द्वितीयरसग्रहण- प्रात:सवने अध्वर्युः होतृचमसीयाऽऽसिञ्चनादि वृद्धिवाचनान्तं कृत्वोपांशुसवनेन एकमित्यादि एकादशेत्यन्तं संख्यायाऽभिषुणोति । नचांशौ स्कन्ने वाचनम्। प्रथमरसग्रहणवदञ्जलिनोपहन्ति । प्रतिप्रस्थाता मध्यमाभ्यामंशुभ्यां पात्रमन्तर्दधाति। अध्वर्युः पात्रे आनयति-–'वृषा वृष्णो अꣳशुभ्यां गभस्तिपूत: । इति प्रतिप्रस्थाता अंशून् यथास्थानं लग्नयति । तदिदमुपांशुपात्रे द्वितीयरसग्रहणमुच्यते । श्रौ०प.नि. पृ. २७०। उपांशुपात्रे तृतीयरसग्रहण- (आध्व०) प्रात:सवने द्वितीयरसग्रहणवत् तृतीयं द्वादशकृत्व: संख्यया अभिषुणोति । नचांशौ स्कन्ने वाचनम् उत्तमाभ्यामंशुभ्यामन्तर्धानम् । 'देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वा' इति पात्रे रसानयनम् । इदं अंशुपात्रे तृतीयरसग्रहणमित्युच्यते । द्र० श्रौ०प०नि० पृ० २७० । उपांशुयाज- (अव्य०) इष्टियज्ञेषु प्रकृतिभूते हविर्यज्ञानां तृतीये दर्शपूर्णमासप्रकरणे १. पौर्णमास्यां अङ्गभूत: अवयव रूपः उपांशुयाज: कर्मनामधेयम् । द्र० मी०को० पृ० ११९५ । २. उपांशु इज्यते इति उपांशुयाजः । तत्र 'जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानस: निजश्रवणयोग्य: स्यादुपांशु स जपः स्मृतः। उपांशुयाजः पौर्णमास्यामेव। तत्र प्रजापतिः विष्णुः अग्नीषोमौ च विकल्पेन देवता पूर्णमासे पठिता अन्यतमा भवति।
|