PURAANIC SUBJECT INDEX (From vowel U to Uu) Radha Gupta, Suman Agarwal and Vipin Kumar Udaana - Udgeetha (Udaana, Udumbara, Udgaataa, Udgeetha etc.) Uddaalaka - Udvartana (Uddaalaka, Uddhava, Udyaana/grove, Udyaapana/finish etc. ) Unnata - Upavarsha ( Unnetaa, Upanayana, Upanishat, Upbarhana, Upamanyu, Uparichara Vasu, Upala etc.) Upavaasa - Ura (Upavaasa/fast, Upaanaha/shoo, Upendra, Umaa, Ura etc. ) Ura - Urveesha (Ura, Urmilaa, Urvashi etc.) Uluuka - Ushaa (Uluuka/owl, Uluukhala/pounder, Ulmuka, Usheenara, Usheera, Ushaa etc.) Ushaa - Uurja (Ushaa/dawn, Ushtra/camel, Ushna/hot, Uuru/thigh, Uurja etc.) Uurja - Uurdhvakesha (Uurja, Uurjaa/energy, Uurna/wool ) Uurdhvakesha - Uuha (Uushmaa/heat, Riksha/constellation etc.)
|
|
उप ऋग्वेदे १.१.७ ऋक् अस्ति –
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । अस्य तृचस्य विनियोगं सार्वत्रिकरूपेण अग्निहोत्रकृत्ये गार्हपत्यअग्न्योपरि उपस्थानाय अस्ति(उप त्वाग्न इति तृचेनाग्ने त्वं न इति च द्वैपदेन गार्हपत्यम् – शांश्रौ. २.१२.२, उप त्वाग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठतेऽग्ने त्वं नो अन्तम इति चतसृभिश्च द्विपदाभिः – आप.श्रौ.सू. ६.१७.७, अथ गार्हपत्यमभ्यैति । स गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयं नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैनं न हिंस्यात् – माश २.३.४.२८)। उपस्थानस्य किमुद्देश्यमस्ति। यः अग्निः अस्ति, तस्मिन् देवानां धनं, वसुः विलीनः अस्ति। उपस्थानस्य उद्देश्यमस्ति यत् यः धनं अग्न्यां विलीनमस्ति, तस्य प्राकट्यं भवेत्। शतपथब्राह्मणे ११.२.३.९ कथनमस्ति - तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति । बृहदुपस्थानस्य संदर्भे शतपथब्राह्मणे २.३.४.९ कथनमस्ति - इयं वा उप द्वयेनेयमुप यद्धीदं किं च जायतेऽस्यां तदुपजायतेऽथ यन्न्यृच्छत्यस्यामेव तदुपोप्यते तदह्ना रात्र्या भूयोभूय एवाक्षय्यं भवति तदक्षय्येणैवैतद्भूम्ना प्रतिपद्यते । अत्र कथनमस्ति यत् यज्ञे यत्किंचित् न्यूनं अस्ति, तस्य सर्वस्य पूर्तिः उप इति शब्देन संभवमस्ति। यत् किंचित् अतिरिक्तं अस्ति, तस्य शमनं नमः इति शब्देन संभवमस्ति। कथनमस्ति - तन्नम इत्युपासीत । नम्यन्ते ऽ स्मै कामाः । तैआ ९,१०, ४; तैउ ३,१०,४ । प्रश्नमस्ति – उप एवं नमः शब्दयोः साधना पृथक् – पृथक् अस्ति अथवा अन्योन्याश्रितौ स्तः। पुराणेषु एकः ऋषिः उपमन्युः अस्ति। लौकिकार्थे मन्युः उच्चस्तरस्य क्रोधः अस्ति। मन्योः विलोमं नम्युः अस्ति। अयं संकेतमस्ति यत् उपसः, न्यूनत्वस्य परिहारेण अपि कामानां नम्यं संभवमस्ति। रक्षाबन्धनपर्वस्यावरे प्रातरुत्थाय जपनीयं अस्ति – कामो अकार्षीत् मन्युः अकार्षीत्। नाहं कर्ता नाहं कारयिता इत्यादि(महानारायणोपनिषत् ६१.१)। तत् किमस्ति यस्य न्यूनत्वं अस्ति। सामान्यरूपेण कथितुं शक्यन्ते यत् येषां गुणानां न्यूनता अस्ति, श्रद्धा तेषामेकः अस्ति। पुराणेषु नारदः एके भवे उपबर्हण नामतः जन्म गृह्णाति। उपबर्हणशब्दस्य निरुक्त्यां उप अधिकार्थे अस्ति। लोके भक्तेषु भावातिरेकः प्रसिद्धमस्ति। शतपथब्राह्मणस्य कथनानुसारेण, नमःशब्देन अस्य शमनं संभवमस्ति। कर्मकाण्डे, सोमयागस्य अनन्तिमकृत्यः हारियोजनग्रहः अस्ति यः अतिरिक्तऊर्जायाः उपचारः अस्ति, इति कथनमस्ति। हारियोजने बहूनां हरीणां संग्रथनं हरिद्ये (हरी) भवति। एतयोः हर्योः निरूपणं ऋक् – साम, दर्श – पूर्णमासादि रूपेषु कृतमस्ति। ऋग्वेदे बहवः ऋचः सन्ति यत्र उपशब्दः विद्यमानः अस्ति। किन्तु ऋग्वेदस्य १.१.७ या ऋक् अस्ति, तस्मिन् उप एवं नमः द्वयोरपि शब्दयोः युगपत् अस्तित्वं अस्ति। व्यावहारिकरूपेण, अग्न्युपस्थानात् धनस्य प्राकट्यं केन प्रकारेण भवितुं शक्यते। यदा यजमानः गार्हपत्योपरि उपस्थानं (लौकिकभाषायां – धरना) करोति, तदा अपेक्षितमस्ति यत् अग्नेः चितिकरणं, व्यवस्थावर्धनं भवेत्। उपस्थानकाले किं किं चिन्तनीयः अस्ति, अस्मिन् संदर्भे उपशब्दस्य धारकाणां ऋचां अनुशीलनं अपेक्षितमस्ति। रजनीशमहोदयस्य कथनमस्ति यत् साधनाकाले अपेक्षितमस्ति यत् साधकः संकल्पं कुर्यात् यत् यावत् सः सिद्धिं न प्राप्नोति, तावत् उत्थानं न करिष्यति। तदा प्रत्यक्ष-अप्रत्यक्षरूपेण किंचिदपि अप्रत्याशितं घटति। लोके एकः उपकारशब्दः अस्ति, अस्य विलोमः अपकारः अस्ति। उप त्वा अग्ने दिवेदिवे ऋचः अन्य विनियोगं अग्नीषोमप्रणयनकाले अस्ति। तं घेमित्था नमस्विन उप स्वराजमासते। होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः॥ १.०३६.०७ संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन्। रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः॥ १.०७२.०५ उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन्। दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात्॥ १.१८५.०७ उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः। समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन्॥ १.१८६.०४ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू। अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान्॥ १.१९०.०३ ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि। त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे॥ २.०३४.१४ उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै। ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता॥ ४.०२१.०५ ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू। श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः॥ ४.०४१.०८ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः। उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत्॥ ४.०५८.०२ प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य। उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः॥ ५.०४९.०२ उपेदमुपपर्चनमासु गोषूप पृच्यताम्। उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये॥ ६.०२८.०८ आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम्। उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात्॥ ६.०४०.०४ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून्॥ ६.०४७.२९ ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे। ता उ नमोभिरीमहे॥ ८.०२२.१३ इदा हि व उपस्तुतिमिदा वामस्य भक्तये। उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव॥ ८.०२७.११ तं घेमित्था नमस्विन उप स्वराजमासते। अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने॥ ८.०६९.१७ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि। इन्द्रे अग्ना नमः स्वः॥ ८.०७२.१५ उप नो हरिभिः सुतम्॥ ८.०९३.३१-३३
तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास। उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत्॥ ८.०९६.१२
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः । उप प्रियं पनिप्नतं युवानमाहुतीवृधम्। अगन्म बिभ्रतो नमः॥ ९.०६७.२९ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः। ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु॥ १०.०१५.०२ सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम्। उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त॥ १०.१०४.०७ 10.115 वार्ष्टिहव्य उपस्तुतः। दे. अग्निः इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन्। ताँश्च पाहि गृणतश्च सूरीन्वषड्वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन्॥ १०.११५.०९ उप तेऽधां सहमानामभि त्वाधां सहीयसा। मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु॥ १०.१४५.०६ १. बृहदुपस्थानम् - इयं (पृथिवी) वाऽउप। द्वयेनेयमुप यद्धीदं किंच जायतेऽस्यां तदुपजायतेऽथ यन्न्यृच्छत्यस्यामेव तदुपोप्यते । माश २,३,४,९ । २. उपोपेन्नु मघवन् भूय इन्नु त इति(ऋ. ८.५१.७) इयं (पृथिवी) वा उप स्वर्गम् । काठ ७,४ । ३. उप त्वा जामयो गिर(ऋ. ८.१०२.१३) इत्युपवती प्रतिपद्भवति स्तोमस्य रूपम् ....उप वै रथन्तरम् (उपशब्दसम्बद्धं हि रथन्तरपृष्ठं ज्योतिष्टोम इति)। तां १६,५.१४ । ४. अग्निहोत्रम् - उपप्रयन्तो अध्वरमिति( ऋ. १.७४.१) प्रजा वा इमा उप ।....... या वै प्रजा आभविष्यन्तीस्ता उप ता एवोपयुनक्ति। काठ ७, ४ । उपख्यातृ- आदित्य- ८३ द्र.।
|