पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Daaruka to Dweepi ) Radha Gupta, Suman Agarwal & Vipin Kumar) Daaruka - Diti ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. ) Didehaka - Divodaasa ( Dileepa, Divah, Divaakara, Divodaasa etc.) Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. ) Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.) Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.) Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. ) Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.) Duhkha - Drishti ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.) Deva - Devakshetra (Deva / god, Devaka, Devaki etc.) Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. ) Devaraata - Devasenaa ( Devala, Devavaan, Devasharmaa, Devasenaa etc.) Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. ) Devikaa - Daitya ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. ) Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. ) Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.) Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. ) Dwaarakaa - Dvimuurdhaa( Dwaarakaa, Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.) Dvivida - Dweepi( Dvivida, Dweepa / island etc. )
|
|
दृति सूर्ये विषमा सजामि दृतिं सुरावतो गृहे। सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार॥ १.१९१.१० विज्ञजनेषु किंवदन्ती प्रचलितं अस्ति यत् सूर्यस्य येषां रश्मीनां पृथिव्योपरि प्रत्यक्षतः पतनं भवति, तेभ्यः कटुरसस्य अथवा विषस्य जननं भवति। येषां रश्मीनां आपतनं चन्द्रमातः परावर्तस्य पश्चात् भवति, तेभ्यः मधुररसस्य जननं भवति ( आधुनिक पादपविज्ञानः अस्य पुष्टिं न करोति)। अस्याः किंवदन्त्याः व्यावहारिकरूपं किं भवितुं शक्यते। अमावास्या एकः पर्वः अस्ति यदा जीवस्य पापाः नष्टाः भवन्ति, आम(अपक्वावस्था)तः अमां प्रति गमयन्ति। अमायां चन्द्रमा वनस्पतिषु प्रवेशं करोति। अतः पश्चात् यदि जीवः सूर्यस्य रश्मीनां ग्रहणं करोति, तदा तस्य फलं मधुरं भवितुं शक्यते। आधुनिक कैंसरचिकित्सायां यः गामा रश्मि चिकित्सा भवति, तत्र अस्य तथ्यस्य उपेक्षा क्रियन्ते। परिणामस्वरूप, एवमपि भवति यत् या व्याधिः मांसस्तरे अस्ति, तत् अस्थिषु प्रविशति। वेदमन्त्रे सुरावतः गृहे दृतेः आनयनस्य निर्देशमपि अस्ति। दृतिः किमस्ति। अनुमानमस्ति यत् दृतिः एकः चर्मखण्डः अस्ति। यद्यपि अस्मिन् चर्मखण्डे कोपि छिद्रं न भवति, तथापि अयं क्षालनस्य कार्यं दक्षतापूर्वकं करोति। यादृशस्य द्रवस्य क्षालनस्य आवश्यकता अस्ति, तादृगनुसारेण एव दृतेः चर्मस्य रूपं भविष्यति। दृतेः उदाहरणं आधुनिककाले मशकः प्रतीयते। वेदमन्त्रेषु दृतेः येषां गुणानां कथनमस्ति, तेषां साम्यं आधुनिक वनस्पति एवं जीवविज्ञाने कोशिकाभित्तेः साकं प्रतीयते। कोशिकाभित्यां कोपि छिद्रः न भवति, तथापि द्रव्यस्य पारणं सीमितरूपेण कोशिकाभित्यातः संभवमस्ति। द्रव्यस्य पारणस्य का सीमा अस्ति, अयं भित्तेः स्थूलत्वं उपरि निर्भरं अस्ति। ये पादपाः भवन्ति, तेषां भित्तिः स्थूलतरा, काष्ठनिर्मिता भवति। ये जंगमजीवाः सन्ति, तेषां कोशिकाभित्तिः सूक्ष्मा भवति। मस्तिष्ककोशिका भित्तिः अतिसूक्ष्मा भवति, यस्याः पारे विद्युतगमनं संभवं भवति। मन्त्रे सुरावतः गृहे दृत्याः उल्लेखस्य उदाहरणं यकृत अपि संभवमस्ति। कारणं, यकृत मधोः रूपान्तरणं सुरायां करोति।
एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि। पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते॥ ४.०४५.०१ मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम्। आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना॥ ४.०४५.०३ अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन। दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः॥ ५.०८३.०७ दृतेरिव तेऽवृकमस्तु सख्यम्। अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः॥ ६.०४८.१८ यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः। मृळा सुक्षत्र मृळय॥ ७.०८९.०२
दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् । यो ह वां मधुनो दृतिराहितो रथचर्षणे। ततः पिबतमश्विना॥ ८.००५.१९ तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम्। त्रिधातु वारणं मधु॥ ९.००१.०८
प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । अग्नीषोमीये पूर्णमासोपचारः -तद्वेव खलु हतो वृत्रः । स यथा दृतिर्निष्पीत एवं संलीनः शिश्ये यथा निर्धूतसक्तुर्भस्त्रैवं संलीनः शिश्ये तमिन्द्रोऽभ्यादुद्राव हनिष्यन् - माश १.६.३.१६ राजसूये दिशामवेष्टयः- तिसृधन्वꣳ शुष्कदृतिर्दक्षिणा समृद्ध्यै – तैब्रा १.८.३.४ दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर्ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन्पक्षिणः पतन्त्यवापक्षाः पद्यन्ते – प.ब्रा. १४.१.१२ कौत्सं भवति। एतेन वै कुत्सोऽन्धसो विपानं अपश्यत्स ह स्म वै सुरादृतिनोपवसथं धारयत्युभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते – पब्रा. १४.११.२६ द्वितीय साद्यःक्रैकाहे सोमप्रवाकानां गमनं - सक्षीरदृतयो रथा भवन्ति ततो यन्नवनीतं उदियात्तदाज्येऽपि कार्यं सद्यस्त्वाय – पञ्चविंश ब्रा. १६.१३
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः। न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् ॥ जै.न्यायमालाविस्तरः १,३.१२ एतद्वै दृतिवातवन्तौ खाण्डव उपेतो विषुवति वातवानुत्तिष्ठति समापयति दृतिस्तस्मात् तनीयांसो वातवता भूयांसो दार्तेयाः प.ब्रा २५.३ स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः ।ऐतरेयोपनिषत् १,३.१२
|