पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्रविण

गर्गसंहिता ६.१२.१९ मध्ये कथनमस्ति - त्वमेव माता च पिता त्वमेवत्वमेव बन्धुश्च सखा त्वमेव ।। त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्वं मम देवदेव ।। अस्मिन् श्लोके द्रविणं किमस्ति, अस्य उत्तरं प्रायः अयं भवति यत् द्रविणं धनमस्ति। कारणं, वैदिकनिघण्टु मध्ये द्रविणं शब्दस्य परिगणनं धनसूचक शब्देषु कृतमस्ति। गर्गसंहितायाः श्लोकः वैदिकऋक्षु यत्र द्रविणं शब्दः प्रकटयति, तस्य अर्थस्य प्रकाशने केन प्रकारेण सहायकः भवितुं शक्यते, अयं लक्ष्यमस्ति।

 ऋग्वेद १.९४.१४ मध्ये कथनमस्ति - दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥ अर्थात् अग्निः स्वभक्ताय रत्नं एवं द्रविणं धारयति। ऋ. ४.५.१२ मध्ये कथनमस्ति यत् यः जातवेदासंज्ञकः अग्निः अस्ति, तत् जानाति किं द्रविणं अस्ति, किं रत्नं - किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।४.३३.१०  मध्ये कथनमस्ति यत् ये ऋभवः सन्ति, येभिः इन्द्राय हरयोः निर्माणं कृतमासीत्, ते अस्मभ्यः रायस्पोष संज्ञकानि द्रविणानि ददन्तु - ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥ अथर्ववेद ६.४७.१ मध्ये कथनमस्ति यत् पावकाग्निः अस्मान् द्रविणे दधातु।

देवाः द्रविणधारकमग्निं धारयन्ति – देवा अग्निं धारयन्द्रविणोदाम् - ऋग्वेद १.९६.९

द्रविणधनस्य किमुपयोगं अस्ति, अस्मिन् विषये कथनमस्ति - इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥२.२१.६

तैसं ५.१.१०.४ आदिषु कथनमस्ति - देवा अग्निं धारयन् द्रविणोदा इत्य् आह प्राणा वै देवा द्रविणोदाः । अहोरात्राभ्याम् एवैनम् उद्यत्य प्राणैर् दाधार । अत्र निहितमस्ति यत् या उख्यसंज्ञकः अग्निः अस्ति, यस्य जननं सुकृतेभ्यः भवति, या द्युलोके उषायाः समकक्षः अस्ति, तां प्राणसंज्ञकाः देवाः धारयन्ति।  अस्मिन् क्षेत्रे भविष्यपुराणः ४.१७५.१९ संशोधनं प्रस्तौति - यदेतद्द्रविणं नाम प्राणाश्चैते बहिश्चराः ।।तस्माद्बहिश्चरैः प्राणैरात्मा योज्यः सदा बुधैः । वायुपु. १८.१० कथनमस्ति - यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः।स तस्य हरति प्राणान् यो यस्य हरते धनम् ।। अत्र संकेतमस्ति यत् ये बहिश्चराः प्राणाः सन्ति, यदि ते अन्तश्चराः भवेयुः, तदैव ते द्रविणसंज्ञकं धनं भवितुं शक्यन्ते, अन्यथा ते ऋणमेव भविष्यन्ति। यदा गर्गसंहिता कथयति यत् त्वमेव विद्या द्रविणं त्वमेव, तदा अनुमानमस्ति यत् प्राणानां एकः प्रकारः अस्ति यत् विद्यायां परिवर्तयति। अन्यप्रकारः अस्ति येभ्यः प्रयत्नस्य आवश्यकता भवति, बहिर्मुखतः अन्तर्मुखकरणे अपेक्षा अस्ति, सैव द्रविणं धनं भवितुं शक्यते, अन्यथा तत् अविद्या एव वर्तिष्यते।                 

सामवेदे द्रविणं साम्नः साकं विष्पर्द्धसः साम्नः अपि उल्लेखः अस्ति। आरण्यकगाने द्रविणविस्पर्द्धसी सामौ विद्येते । यः द्रविणसामः अस्ति, तत्र महि प्रत्ययस्य बाहुल्यमस्ति। यः विष्पर्द्धसी सामः अस्ति, तत्र दिवि प्रत्ययस्य बाहुल्यमस्ति। यथा महिषशब्दस्य टिप्पण्यां कथितमस्ति, यः महिषः अस्ति, तपसः पाकेन तस्य रूपान्तरणं वृषभे भवति (शिवपुराणम् १.१७.६५ )। अयं प्रतीयते यत् यः विष्पर्द्धसी सामन् अस्ति, तत् वृषभस्य तुल्यं भवितुं शक्यते। जैमिनीयब्राह्मण १.१२८ आदिषु रथन्तरं साम्नः वैशिष्ट्यं द्रविणे कथितमस्ति। रथन्तरसामन् किं भवति। रथन्तरं अर्थात् रसन्तमम्। पृथिव्योपरि यत्किंचित् श्रेष्ठतमं अस्ति, सूर्यः स्वरश्मिभिः तस्य कर्षणं करोति। रथन्तरसाम्नः ये शब्दाः सन्ति (अभि त्वा शूर नोनुमो अदुग्धा इव धेनवः), तेषामनुसारेण पृथिवी सूर्यं स्वकीयं वत्सं मत्वा स्वकीयं पयः तस्मै प्रयच्छति। आधुनिकभौतिकविज्ञानस्य विवेचनानुसारेण, अव्यवस्था निरसनाय, एण्ट्रांपी न्यूनीकरणाय एकः तर्कः अस्ति यत् ब्रह्माण्डे यत्किंचित् श्रेष्ठतमं अस्ति, तस्य चयनं कृतं भवेत्। अस्मिन् तर्के एकः द्वारस्य कल्पना अस्ति यस्मात् सैव पारं गमयितुं शक्यते यस्य एण्ट्रांपी न्यूनतमं अस्ति। किन्तु अस्य तर्कस्य खण्डनं अनेन प्रकारेण भवति यत् चयनकरणे यस्याः ऊर्जायाः क्षयं भविष्यति, तस्मात् ब्रह्माण्डे सकल ऊर्जायाः एण्ट्राप्यां वृद्धिरेव भविष्यति, न न्यूनीकरणम्। किन्तु वैदिकवाङमये अयं धारणा महिषरूपेण विद्यमाना अस्ति।

विष्पर्द्धसी सामन् विषये कथितमस्ति यत् यत्किंचित् ऐश्वर्यप्रदं अस्ति, रथादीनि, तत्र स्पर्द्धा विद्यते। अस्मिन् विषये अनुसंधानस्य आवश्यकता अस्ति। सोमयागे क्रमिकसुत्यादिनेषु रथन्तरस्य प्रतिस्थापनं बृहत्साम्ना भवति(त्वामिद्धि हवामहे )। बृहत्साम्ना सूर्यः पृथिव्योपरि वर्षणं करोति।

ऋग्वेदे केषुचित् स्थलेषु महो दिवः शब्दयोः प्रयोगं भवति (९.४८.१, ५.५२.७, ९.८६.८, ७.३६.३)।  द्रविणस्पर्द्धसी सामद्वयौ अस्य रहस्योद्घाटनं कुर्वतः।

ग्रामगेये द्रविणम् एवं विष्पर्द्धसी सामनी पृथक् – पृथक् विद्यन्तौ। विस्तारं अन्वेषणीयः

 

संदर्भ

द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥७॥
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
देवेषु ता वनामहे ॥८॥
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्रादृतुभिरिष्यत ॥१.१५.९

तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥१.९४.१४

स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१.९६.९

तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
सपर्येम सपर्यवः ॥२.६.३

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥२.२१.६

पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥३.२.६

अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
महे वाजाय द्रविणाय दर्शतः ॥३.१०.६

ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् ।
त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥४.५.११
किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।
गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥४.५.१२

कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।
देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत् ॥४.२३.४

ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा ।
ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥४.३३.१०

आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥४.३४.५

इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः ।
उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥४.४१.९

अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥४.५८.१०

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
देवस्य द्रविणस्यवः ॥५.१३.२

प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि ।
या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥५.४३.९

उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।
उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥५.४६.४

तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥५.५४.१५

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
समिद्धः शुक्र आहुतः ॥६.१६.३४

सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥६.६९.१

इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥६.६९.३

मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥६.७०.५

अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥७.१०.३

देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥७.१६.११

पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥८.३५.१०

इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥९.८५.१

वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥९.८८.३

अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥९.९७.२५

इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥९.१०९.९

शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।
यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥१०.३७.१०

एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।
उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥१०.६४.१६

ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।
पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥१०.७०.७

य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः ।
स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥१०.८१.१

सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम् ॥शौअ ४.३६.४

अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।
स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥अ ६.४७.१

पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥७.६९.१

यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।
अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०.१.१०

सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥१०.५.३७

ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥

.. तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥१२.६.८

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥शौअ १८.३.१

द्रविणोदाः कस्मात् । धनं द्रविणमुच्यते । यदेनदभिद्रवन्ति । बलं वा द्रविणम् । यदेनेनाभिद्रवन्ति । तस्य दाता द्रविणोदाः । तस्यैषा भवति ८.१

द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
यज्ञेषु देवमीळते ॥
द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा । तत्को द्रविणोदाः । इन्द्र इति क्रौष्टुकिः । स बलधनयोर्दातृतमः । तस्य च सर्वा बलकृतिः ।।
ओजसो जातमुत मन्य एनम् । इति चाह ।
अथाप्यग्निं द्राविणोदसमाह । एष पुनरेतस्माज्जायते ।
यो अश्मनोरन्तरग्निं जजान । इत्यपि निगमो भवति ।
अथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति । तेषां पुनः पात्रस्येन्द्रपानमिति भवति ।
अथाप्येनं सोमपानेन स्तौति । अथाप्याह ।
द्रविणोदाः पिबतु द्राविणोदसः । इति ।
अयमेवाग्निर्द्रविणोदा इति शाकपूणिः । आग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति ।
देवा अग्निं धारयन्द्रविणोदाम् । इत्यपि निगमो भवति ।
यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्यं विद्यते ।
यथो एतदोजसो जातमुत मन्य एनमिति चाहेति ।
अयमप्यग्निरोजसा बलेन मथ्यमानो जायते । तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुम् ।
यथो एतदग्निं द्राविणोदसमाहेति । ऋत्विजोऽत्र द्रविणोदस उच्यन्ते । हविषो दातारस्ते चैनं जनयन्ति ।
ऋषीणां पुत्रो अधिराज एषः । इत्यपि निगमो भवति ।
यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति भक्तिमात्रं तद्भवति । यथा वायव्यानीति सर्वेषां सोमपात्राणाम् ।
यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते ।
सोमं पिब मन्दसानो गणश्रिभिः । इत्यपि निगमो भवति ।
यथो एतद् द्रविणोदाः पिबतु द्राविणोदस इत्यस्यैव तद्भवति - निरुक्तम् ८.२

द्रुदक्षिभ्यामिनन् ॥ द्रविणम् । उणादिसूत्राणि २.५१

यत्रैतत् (अश्वः) तिष्ठसीत्येतद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति  - माश ६.३.३.१३

देवा अग्निं धारयन् द्रविणोदा इति, प्राणा वै देवा द्रविणोदाः, प्राणैरेवाग्निम् उद्यच्छते, विश्वा रूपाणि प्रतिमुञ्चते कविरिति, विश्वा हि रूपाण्यग्निः - मैसं ३.२.१

देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैरेवैनं दाधार षडुद्यामँ शिक्यं भवति षड्वा ऋतव ऋतुभिरेवैनं परिगृह्णाति - काठ १९.११

उख्यधारणम् - देवा अग्निं धारयन् द्रविणोदा इत्य् आह प्राणा वै देवा द्रविणोदाः । अहोरात्राभ्याम् एवैनम् उद्यत्य प्राणैर् दाधार । - तैसं ५.१.१०.४

यस्ते गोषु महिमा यस्ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस्ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन्न एधि – पञ्चविंशब्रा. ७.७.१९